52028: वेः शालच्छङ्कटचौ ======================= **Padacheda:** वेः | S | 5 | 1 | शालच्-शङ्कटचौ | S | 1 | 2 | Sutrartha --------- **'वि' इत्यस्मात् स्वार्थे शालच् तथा 'शङ्कटच्' एतौ प्रत्ययौ भवतः ।** 'वि' इति कश्चन उपसर्गः । प्रायः अस्य प्रयोगः 'विस्तृतम्' (big / large) अस्मिन् अर्थे क्रियते । अस्मिन्नेव अर्थे अस्मात् उपसर्गात् स्वार्थे शालच् तथा शङ्कटच् एतौ प्रत्ययौ भवतः । यथा - 1. वि + शालच् = विशाल । 2. वि + शङ्कटच् = विशङ्कट । 'विशाल' तथा 'विशङ्कट' - द्वौ शब्दौ अनेन सूत्रेण सिद्ध्येते । द्वयोरपि अर्थः 'विस्तृतम्' इत्येव अस्ति । यथा - विशाले शृङ्गे विशङ्कटे शृङ्गे वा । विशेषः - 1. यस्याः धेनोः शृङ्गे विशाले, सा धेनुः अपि 'विशाला धेनुः' / 'विशङ्कटा धेनुः' इत्यनने निर्दिश्यते । अत्र 'विशाले शृङ्गे अस्य सः विशालः' , 'विशङ्कटे शृङ्गे अस्य सः विशङ्कटः' एतादृशी व्युत्पत्तिः भाष्यकारेण दीयते । भाष्यकारस्य मतेन अत्र 'तदस्य अस्ति' इत्यस्मिन् अर्थे 'अ' प्रत्यययोजनम् कृत्वा रूपसिद्धिः भवति । 2. 'वि' इत्यस्य अनेके अर्थाः भवन्ति । बहुषु स्थलेषु 'वि' इति अव्ययमुपसर्गसंज्ञां विना अपि प्रयुज्यते । परन्तु अस्य सूत्रस्य विषये 'वि' इति उपसर्गवाचकस्यैव ग्रहणम् भवति । अतएव कौमुदीकारः स्पष्टीकरोति - 'कियाविशिष्टसाधनवाचकात् स्वार्थे' । क्रियायाः सम्बन्धरूपेण यत्र 'वि' इत्यस्य प्रयोगः भवति, तस्मिन्नेव अर्थे एतौ प्रत्ययौ भवतः - इति अस्य आशयः । 3. यद्यपि 'वि' उपसर्गस्य अनेके अर्थाः भवन्ति, तथापि 'विस्तृतम् / व्यापकम्' अस्मिन्नेव अर्थे अत्र 'वि' इति शब्दः गृह्यते । 4. अत्र प्रत्यययोः अर्थौ भिन्नरूपेण उक्तौ न स्तः । अतः अत्र 'स्वार्थे' प्रत्ययविधानम् भवति इत्येव उच्यते । Vasu English Summary -------------------- The affixes शालच् (शाल) and शङ्कटच् (शङ्कट) come after the preposition वि without changing the sense. Vasu English Translation ------------------------ The affixes शालच् (शाल) and शङ्कटच् (शङ्कट) come after the preposition वि without changing the sense. Thus विगते शृङ्गे = विशाले, विशंकटे ॥ Thus these words may apply to a cow, as विशालः, विशंकटः ॥ According to some these words are adjectives meaning 'great, large' &c. There is no connection here of sense of base and the affix. Bhashya ------- वेः शालच्छङ्कटचौ (2046) (शालच्शङ्कटच्प्रत्ययाधिकरणम्) (प्रत्ययार्थनिर्णयभाष्यम्) कस्मिन्नर्थे शालजादयो भवन्ति? न सह इत्यनुवर्तते। भवेत्सिद्धम् - विशाले शृङ्गे, विशङ्कटे शृङ्गे इति॥ (आक्षेपभाष्यम्) इह खलु संकटम् इति संगतार्थो गम्यते, प्रकटमिति प्रगतार्थो गम्यते, उत्कटमिति उद्गतार्थो गम्यते॥ (समाधानभाष्यम्) एवं तर्हि साधने शालजादयो भवन्ति। किं वक्तव्यमेतत्? न हि। कथमनुच्यमानं गंस्यते? उपसर्गेभ्य इमे विधीयन्ते, उपसर्गाश्च पुनरेवमात्मकाः - यत्र कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुः, यत्र हि न प्रयुज्यते ससाधनां तत्र क्रियामाहुः। त एते उपसर्गेभ्यो विधीयमानाः ससाधनायां क्रियायां भविष्यन्ति॥ (आक्षेपभाष्यम्) एवमपि भवेत्सिद्धं - विशाले शृङ्गे इति। इदं तु न सिध्यति - विशालः, विशङ्कटः - इति॥ (समाधानभाष्यम्) एतदपि सिद्धम्। कथम्? अकारो मत्वर्थीयः। विशाले अस्य स्तो विशालः। विशङ्कटे अस्य स्तो विशङ्कट इति॥ Kashika ------- विशब्दात् शालच् शङ्कटज् इत्येतौ प्रत्ययौ भवतः। ससाधनक्रियावचनादुपसर्गात् स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले। विशङ्कटे। तद्योगाद् गौरपि विशालो विशङ्कट इत्युच्यते। परमार्थतस्तु गुणशब्दा एते यथाकथंचिद् व्युत्पाद्यन्ते। नात्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः॥ Siddhanta Kaumudi ----------------- कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥ Padamanjari ----------- क्व पुनरेते शालजादयो भवन्ति ? इत्याह - ससाधनक्रियावचनादिति। क्रियाविशिष्टसाधनवचनादित्यर्थः। एतच्च ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्र प्रत्यपादि। उपसर्गादिति। अन्यत्रोपसर्गसंज्ञादर्शनाद्विषयान्तरेऽपि प्रादीनामभिधानम्। स्वार्थ इति। अनिर्द्दिष्टार्थत्वात्। विगते इति। विगमनक्रियाकर्तरि वेर्वृत्ति दर्शयति। तद्योगादिति। विशालावयवयोगात्, व्युत्पत्तिपक्षे नान्या गतिरिति भावः। वस्तुगतिमाह - परमार्थतस्त्विति। विशालत्वमुविस्तीर्णत्वं नाम गुणः, तस्माद्गुणवचना एते। वक्ष्मयाणप्रत्ययापेक्षया बहुवचनम्; ततश्च यद्गुणयोगाच्छङ्गे वृत्तिस्तद्गणयोगादेव गव्यपि वृत्तिः सिद्धेति भावः। तथा च-विशालो देश इत्यपि दृश्यते ॥ Nyaas ----- `ससाधनक्रियावचनात्` इत्यादि। उक्तमेतत् - उपसर्गा ह्रेवमात्मका भवन्ति यत्र कश्चित्? क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषणमाहुः। यत्र न प्रयुज्यते तत्र ससाधनक्रियामिति। इह न कश्चित्? क्रियावाची शब्दः प्रयुज्यते, तस्मात् ससाधनक्रियावाचिन उपसर्गात्? प्रत्ययो भवति। स च भवन्? `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (सी।प। 125) इत्यनिर्दिष्टार्थत्वात्? स्वार्थे भवति। `विगते शृङ्गे` इति। एतेन विगमनक्रियायां शृङ्गसाधनायां विशब्दो वर्तत इति दर्शयति। यदि ससाधनायां क्रियायां प्रत्ययः, विशालो गौर्विशङ्कटो गौरिति न सिध्यति, न हि गौरिह विगमनस्य साधनम्, किं तर्हि? शृङ्गे? इत्यत आह - `तद्योगात्` इत्यादि। यथा सास्नाद्यवयवयोगादवयवधर्मेण गौः सास्नेत्युच्यते, तथा विशालविशङ्कटशृङ्गयोगाद्गौस्तथेत्युच्यते। `परमार्थतस्तु` इत्यादि। समुदायो व्युत्पत्यर्थः। अतोऽत्र न केवलं ससाधनक्रिया नास्ति, अपि च साधनमिपि नास्ति। तस्माद्गुणशपब्दा विशालादयः परमार्थतो लोके प्रसिद्धाः यथा - शुक्लादयः शब्दाः। तेन नात्र विशालीदिषु प्रकृतिप्रत्ययार्थयोरभिनिवेशः कर्तव्यः। तदेवं परमार्थतोऽनर्थकाः। वेः शालच्छङ्कटचावप्यनर्थकावेव विधीयते इत्युक्तं भवति। `एते` इति। व्युत्पादयिष्यमाणान्? सङ्कटादीन्? बुद्धौ कृत्वा बहुवचनं कृतम्, तेऽपि हि गुणशब्दा एव॥ Prakriyasarvasvam ----------------- विस्तृतार्थाद्वेः स्वार्थे एतौ स्तः । विशालम् विशङ्कटम् ॥ Sutra Prayogas -------------- * **विशालैरपि** (शिशुपालवधम्): `वैः शालच्छङ्कटचौ` इति शालच्प्रत्ययः। * **विशङ्कटो** (भट्टिकाव्यम्): `वेः शालच्छङ्कटचौ` इति शङ्कटच्।