51112: समापनात् सपूर्वपदात् =========================== **Padacheda:** समापनात् | S | 5 | 1 | सपूर्वपदात् | S | 5 | 1 | Sutrartha --------- **'अस्य प्रयोजनम्' अस्मिन् अर्थे समस्तपदस्य उत्तरपदम् 'समापन' इति अस्ति चेत् तस्मात् शब्दात् छ-प्रत्ययः भवति ।** प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे **प्रयोजनम्** (5.1.109) इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । परन्तु यस्य शब्दस्य उत्तरपदम् 'समापन' (= समाप्तिः / अन्तः / completion / conclusion) इति वर्तते तस्मात् शब्दात् एतम् औत्सर्गिकप्रत्ययं बाधित्वा छ-प्रत्ययः विधीयते । यथा - 1. छन्दःसमापनम् प्रयोजनमस्य सः छन्दःसमापनीयः वर्गः । 2. व्याकरणसमापनम् प्रयोजनमस्य सः व्याकरणसमापनीयः पाठः । Vasu English Summary -------------------- The affix छ (ईय) comes in the same sense of 'that whose purpose is this' after the word समापन when it has a word in composition preceding it. Vasu English Translation ------------------------ The affix छ (ईय) comes in the same sense of 'that whose purpose is this' after the word समापन when it has a word in composition preceding it. This debars ठञ् ॥ Thus छन्दः समापनं प्रयोजनमस्य = छन्दः समापनीयम्, व्याकरण समापनीयम् ॥ The specific mention of the word पद in the aphorism indicates that the rule will not apply when a word other than a '*pada*,' such as the affix '*bahuch*,' (5.3.68) precedes the word *Samapana*. Kashika ------- समापनशब्दात् सपूर्वपदाद् विद्यमानपूर्वपदाच्छः प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये। ठञोऽपवादः। छन्दस्समापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुच्पूर्वनिरासार्थम्॥ Siddhanta Kaumudi ----------------- व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥ Balamanorama ------------ **समापनात् सपूर्वपदात्** - समापनात्सपूर्वपदात् । सपूर्वपदात्समापनशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । व्याकरणसमापनीय इति । 'मङ्गलाचार' इति शेषः । Tattvabodhini ------------- **समापनात् सपूर्वपदात्** - सपूर्वपदादिति । विद्यमानपूर्वपदादित्यर्थः । Nyaas ----- अथ पदग्रहणं किमर्थम्, सपूर्वादित्येवोच्येत? इत्यत आह - `पदग्रहणम्` इत्यादि। असति हि पदग्रहणे, ईषदसमाप्तं समापनं बहुसमापनं तत्? प्रयोजनमस्येति तत्रापि प्राप्नोति; भवति ह्रयं समापनशब्दः सपूर्वः। पदग्रहणे तु सति न भवति; बहुचप्रत्ययस्यापदत्वात्॥ Prakriyasarvasvam ----------------- उक्तार्थे छः स्यात् । व्रतसमापनीयमन्नदानम् ।।