51102: योगाद्यच्च ================= **Padacheda:** योगात् | S | 5 | 1 | यत् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'प्रभवति' अस्मिन् अर्थे चतुर्थीसमर्थात् 'योग'शब्दात् 'यत्' तथा 'ठञ्' प्रत्ययः भवति ।** 'प्रभवति' इत्युक्ते 'अलम्' (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् 'योग'शब्दात् 'यत्' तथा 'ठञ्' प्रत्ययौ भवतः । योगाय प्रभवतिः तत् योग्यम् यौगिकम् वा कार्यम् । स्त्रीत्वे यत्-प्रत्ययान्तशब्दात् **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः भवति, तथा च ठञ्-प्रत्ययान्तशब्दात् **टिड्ढाणञ्..** (4.1.15) इति ङीप्-प्रत्ययः भवति । योगाय प्रभवतिः सा योग्या यौगिकी वा क्रिया । Vasu English Summary -------------------- The affix यत् (यं) is also added in the sense of 'able to effect that' after the word योग। Vasu English Translation ------------------------ The affix यत् (यं) is also added in the sense of 'able to effect that' after the word योग। Thus योगाय प्रभवति = योग्यः or यौगिकः ॥ Kashika ------- योगशब्दाद् यत् प्रत्ययो भवति, चकाराट् ठञ्, तस्मै प्रभवतीत्यस्मिन् विषये। योगाय प्रभवति योग्यः, यौगिकः॥ Siddhanta Kaumudi ----------------- चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥ Balamanorama ------------ **योगाद्यच्च** - योगाद्यच्च ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः । Prakriyasarvasvam ----------------- योगाय शक्तो योग्यो मुनिः । यौगिकः ॥ Sutra Prayogas -------------- * **योग्यता** (शिशुपालवधम्): `योगाद्यच्च` इति यत्प्रत्ययः। * **योग्ये** (भट्टिकाव्यम्): `योगाद्यत्` ॥