51010: सर्वपुरुषाभ्यां णढञौ =========================== **Padacheda:** सर्व-पुरुषाभ्याम् | S | 5 | 2 | ण-ढञौ | S | 1 | 2 | Sutrartha --------- **'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् 'सर्व'शब्दात् ण-प्रत्ययः भवति , तथा च ' वधः, विकारः, समूहः, तेन कृतम्' एतेषु अर्थेषु 'पुरुष' शब्दात् ढञ्-प्रत्ययः भवति ।** **तस्मै हितम्** (5.1.5) इत्यनेन सर्वेभ्यः शब्देभ्यः 'हितम्' अस्मिन् अर्थे औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण 'सर्व'शब्दात् ण-प्रत्ययः भवति, तथा च वार्त्तिककारेण प्रोक्तेषु विशिष्टेषु अर्थेषु पुरुष-शब्दात् ढञ्-प्रत्ययः विधीयते । 1. सर्वेभ्यो हितम् = सर्व + ण → सर्व + अ [इत्संज्ञालोपः] → सार्व + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → सार्व् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → सार्व अत्र भाष्यकारः एकं वार्त्तिकम् पाठयति - । इत्युक्ते, 'सर्व'शब्दात् ण-प्रत्ययः केवलं विकल्पेन एव भवति, नित्यम् न । अतः पक्षे औत्सर्गिकः छ-प्रत्ययः अपि भवति - सर्वेषाम् हितम् सर्वीयम् । 2. 'पुरुष' शब्दस्य विषये भाष्यकारः अन्यत् एकम् वार्त्तिकम् पाठयति - । इत्युक्ते, पुरुष-शब्दात् ढञ्-प्रत्ययः 'हितम्' अस्मिन् अर्थे न भवति, अपि तु 'वध', 'विकार', 'समूह' तथा 'तेन कृतम्' एतेषु अर्थेषु भवति - [अ] पुरुषस्य वधः - अत्र **तस्येदम्** (4.3.120) इत्यनेन दत्तमण्-प्रत्ययं बाधित्वा ढञ्-प्रत्ययः भवति । [आ] पुरुषस्य विकारः - अत्र **तस्य विकारः** (4.3.134) अस्मिन् अर्थे पाठितेन **प्राणिरजतादिभ्योऽञ्** (4.3.154) इत्यनेन सूत्रेण अञ्-प्रत्यये प्राप्ते तं बाधित्वा ढञ्-प्रत्ययः विधीयते । [इ] पुरुषाणां समूहः - अत्र **तस्य समूहः** (4.2.37) इत्यनेन निर्दिष्टस्य अण्-प्रत्ययस्य बाधकरूपेण ढञ्-प्रत्ययः भवति । [ई] पुरुषेण कृतः ग्रन्थः - अत्र **कृते ग्रन्थे** (4.3.116) अनेन प्राप्तं अण्-प्रत्ययं बाधित्वा ढञ्-प्रत्ययः भवति । [उ] पुरुषेण कृतः (अग्रन्थः) - अत्र तु अन्यसूत्रैः किमपि प्रत्ययविधानं न कृतमस्ति, अतः विशिष्टरूपेण ढञ्-प्रत्ययः विधीयते । पुरुषस्य बधः पुरुषस्य विकारः / पुरुषाणां समूहः / पुरुषेण कृतम् = पुरुष + ढञ् → पुरुष + एय [**आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम्** (7.1.2) इति एय्-आदेशः] → पौरुष + एय [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → पौरुष् + एय [**यस्येति च** (6.4.148) इति अकारलोपः] → पौरुषेय एतेषु चतुर्षु अपि अर्थेषु यथायोग्यम् समर्थविभक्तिः स्वीक्रियते इति स्मर्तव्यम् । विशेषः - अत्र वार्त्तिके 'तेन कृतम्' इति विशिष्टरूपेण 'तेन' इति तृतीयासामर्थ्यम् निर्दिष्टमस्ति । अतः अन्येषु अर्थेषु - यथा 'तस्मै कृतम्' इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः नास्तीति स्मर्तव्यम् । Vasu English Summary -------------------- The affixes ण and ढञ् come in the sense of 'good for that' after the words सर्व and पुरुष। Vasu English Translation ------------------------ The affixes ण and ढञ् come in the sense of 'good for that' after the words सर्व and पुरुष। This debars '*chha*'. Thus सर्वस्मै हितं = सार्वम्. So also पौरुषेयम् ॥ Vart:- The affix ण comes optionally after सर्व, as, सर्वीयम् or सार्वम् ॥ Vart:- The affix ढञ् comes after पुरुष when the word so formed means: 'slaughter', 'modification', 'a crowd', or 'made by him'. As पौरुषेयो वधः &c. 'man-slaughter', 'a crowd of men', 'human action', 'made by man'. e.g. पौरुषेयो ग्रन्थः 'a book written by man' contra. अपौरुषेया वेदाः 'The Vedas are non-human'. Bhashya ------- सर्वपुरुषाभ्यां णढञ्ञौ (1892) (छप्रत्ययापवादणढञ्ञोरधिकरणम्) (5603 विकल्पवार्तिकम्॥1॥) सर्वाण्णस्य वेति वक्तव्यम्। सार्वः, सर्वीयः। (5604 अर्थविधायकवार्तिकम्॥2॥) पुरुषाद्वधे॥ पुरुषाद्वध इति वक्तव्यम्। पौरुषेयो वधः। अत्यल्पमिदमुच्यते - पुरुषाद्वध इति । पुरुषाद्वधविकारसमूहतेनकृतेष्विति वक्तव्यम्। पौरुषेयो वधः। पौरुषेयो विकारः। पौरुषेयस्समूहः। तेन कृतं पौरुषेयम्। Kashika ------- सर्वपुरुषाभ्यां यथासंख्यं णढञौ प्रत्ययौ भवतः तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। सर्वस्मै हितं सार्वम्। पौरुषेयम्॥ सर्वाद् णस्य वा वचनम्॥ सर्वीयम्॥ पुरुषाद् वधविकारसमूहतेनकृतेष्विति वक्तव्यम्॥ पौरुषेयो वधः, पौरुषेयो विकारः, पौरुषेयः समूहो वा। तेन कृते — पौरुषेयो ग्रन्थः॥ Siddhanta Kaumudi ----------------- । (वार्तिकम्) ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥ (वार्तिकम्) ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । तस्येदम्-(SK1500)इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । प्राणिरजतादिभ्योऽञ् (SK1532) इत्यञि प्राप्ते समुहैऽप्यणि प्राप्ते । एकाकिनोऽपि परितः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ॥ Balamanorama ------------ **सर्वपुरुषाभ्यां णढञौ** - सर्वपुरुषाभ्याम् । सर्व, पुरुष आभ्यां चतुथ्र्यन्ताभ्यां क्रमाण्णढञौ स्तो हितमित्यर्थे इत्यर्थः । सर्वाण्ण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् ।पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ्स्यात्, न हितार्थे इत्यर्थः । ननुतेन कृत॑मिति समुदायस्य असुबन्तत्वात्कथं समासे निवेश इत्यत आह — भाष्येति । अणि प्राप्ते इति ।अनेन ढ॑ञिति शेषः । प्राणीति । रजतादित्यादञि प्राप्ते अनेन ढञित्यर्थः । समूहेऽप्यणि प्राप्ते इति । पुरुषाणां समूह इत्यर्थे 'तस्य समूहः' इत्यणि प्राप्ते अनेन ढञित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परित आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे 'कृते ग्रन्थे' इत्यणि प्राप्ते,पुरुषेण कृतः प्रासाद॑ इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढञित्यर्थः । माणव । आभ्यां चतुथ्र्यन्ताभ्यां हितमित्यर्थे खञ्स्यादित्यर्थः । Tattvabodhini ------------- **सर्वपुरुषाभ्यां णढञौ** - सर्वपुरुषाभ्याम् । आभ्यां शब्दाभ्यां यथासङ्ख्यं णढञौ स्तस्तस्मै हितमित्यर्थे,प्राक्क्रीता॑दिति छस्यापवाद इति सूत्रार्थः ।सर्वाण्णो वेति वक्तव्यम् । सर्वादिति । अनुकरणत्वात्सर्वनामकार्याऽभावः ।पुरुषाद्वधविकारसमूहतेनकृतेषु । पुरुषाद्वधविकारेति । योग्यताबलादिह षष्ठी समर्थविभक्तिर्लभ्यते,तेन कृते॑त्यत्र थु उपात्तैव तृतीया । तदाह — — पुरुषस्य वध इति । समूहेऽप्यणीति ।तस्य समूहः॑इत्यनेन । ग्रन्थेऽणीति ।कृते ग्रन्थे ॑इत्यनेन । अप्राप्ते इति ।पौरुषेयः प्रासाद॑इत्यादौ न कस्याप्यपवादोऽयं ढञिति भावः । Padamanjari ----------- अनुकरणत्वात्सर्वनामकार्याभावः, सर्वनामानिऽ इत्यन्वर्थसंज्ञाविज्ञानात्'प्रकृतिवदनुकरणम्' इत्यपि सर्वनामत्वं न भवति; अनाश्रितार्थस्य शब्दरूपस्यानुकरणात्। पुरुषाद्वधेति। प्रत्ययार्थसामर्थ्येन षष्ठीसमर्थविभक्तिर्लभ्यते, कृते तु तेनत्युपातैव तृतीया। भाष्यकारप्रयोगाच्च द्वन्द्वमध्येऽपि तेनेत्यस्य निवेशः, तत्र वधे-ठ्तस्येदम्ऽ इत्यणोऽपवादः, विकारे -'प्राणिरजतादिभ्यो' ञ्ऽ इत्यञः, समूहेऽपि'तस्य समूहः' इत्यण एव, तेन कृतेऽपि ग्रन्थात्मके -'कृते ग्रन्थे' इत्यण एव। पौरुषेयः प्रासाद इत्यत्र न कस्यचिदपवादः ॥ Nyaas ----- `सर्वाण्णस्य वावचनम्` इति। अभिधानेऽभिधेयोपचाराद्वेति विकल्प्माह। इहापि विभाषाग्रहणानुवृत्तेरेव वेदितव्यम्। न च सर्वपुरुषाभ्यां विकल्प आशङ्का; व्यवस्थितविभाषात्वात्। `पुरुषाद्वध` इति। तत्र वधे - **तस्येदम्** (4.3.120) इत्यणोऽपवादः, विकारे - **प्राणिरजतादिभ्योऽञ्** (4.3.154) इत्यञः, समूहेऽपि - **तस्य समूहः** (4.2.37) इत्यणः। `तेन कृते ग्रन्थे` [`कृते ग्रन्थे` इत्येव पाणिनीयं सूत्रम्] (4.3.116) इत्यण एव॥ Prakriyasarvasvam ----------------- सर्वस्मै हितः सार्वः । अस्माच्छोऽपि सर्वीयः । 'पुरुषाद्वितवधविकारावयव- समूहतेनकृतेषु ढञ् वाच्यः' (वा० ५-१-१०) ॥ 'नो पौरुषेयमयमिच्छति पौरुषेये सक्तो वधे पिशितमत्ति च पौरुषेयम् । द्राक् पौरुषेयगलभिन्न च पौरुषेयै- र्जय्यो विनिन्दति च वाचमपौरुषेयीम् ॥ २९० ॥ Vartika ------- सर्वाण्णो वेति वक्तव्यम् । Sutra Prayogas -------------- * **पौरुषेयवृता** (शिशुपालवधम्): `सर्वपुरुषाभ्यां णढञौ` इति ढञ्प्रत्ययः। * **सार्व** (शिशुपालवधम्): `सर्वपुरुषाभ्यां णढञौ` इति णप्रत्ययः।