51008: अजाविभ्यां थ्यन् ======================= **Padacheda:** अज-अविभ्याम् | S | 7 | 1 | थ्यन् | S | 1 | 1 | Sutrartha --------- **'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् 'अज'शब्दात् 'अवि'शब्दात् च थ्यन्-प्रत्ययः भवति ।** चतुर्थीसमर्थात् 'अज'शब्दात् तथा 'अवि' (= सूर्यः / ईश्वरः) शब्दात् 'हितम्' अस्मिन् अर्थे थ्यन्-प्रत्ययः भवति । 1. अजाय हितमजथ्यम् पुष्पम् । अज + थ्यन् → अजथ्य । स्त्रीत्वे टाप् - अजथ्या यूथिः (jasmine flower). 2. अवये हितमविथ्यम् चन्दनम् । अवि + थ्यन् → अविथ्य । ज्ञातव्यम् - प्रत्यये विद्यमानः इत्संज्ञकः नकारः स्वरार्थः अस्ति । नित्-प्रत्ययान्तशब्दाः **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन आद्युदात्ताः भवन्ति । Vasu English Summary -------------------- The affix थ्यन् comes in the sense of 'good for that' after the words अज and अवि। Vasu English Translation ------------------------ The affix थ्यन् comes in the sense of 'good for that' after the words अज and अवि। This debars '*chha*.' Thus अजथ्या यूथिः 'the yellow jasmine called *yuthi*' अविथ्या यूथिः ॥ Kashika ------- अज अवि इत्येताभ्यां थ्यन् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। अजथ्या यूथिः। अविथ्या॥ Siddhanta Kaumudi ----------------- अजथ्यायूथिः । अविथ्या ॥ Balamanorama ------------ **अजाविभ्यां थ्यन्** - अजाविभ्यां थ्यन् । अजश्च अविश्चेति द्वन्द्वः । अविशब्दस्य धित्वेऽपिअजाद्यदन्त॑मित्यजशब्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्योऽजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्यपरिभाषा अजाशब्दादपि थ्यन् ।तसिलादिष्वि॑ति पुंवत्त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्त्रीत्वं लोकात् । Tattvabodhini ------------- **अजाविभ्यां थ्यन्** - अजादिभ्याम् । अजशब्द इह पुंलिङ्ग उपात्तः । अतएवद्वन्द्वे घी॑त्यविशब्दस्य पूर्वनिपातं बाधित्वाअजाद्यदन्त॑मिति अजशब्दस्य पूर्वनिपातः कृतः ।प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापी॑ति स्त्रीलिङ्गादपि थ्यन् । तसिलादिषु थ्यनः परिगणनात्पुंवद्भावे रूपं तुल्यम् । अजथ्येति । अजेभ्यो आजाङ्यो वा हितेति विग्रहः । Padamanjari ----------- अजशब्दोऽयमिह पुंल्लिङ्ग उपातः, अत एव'द्वन्द्वे घि' इत्यविशब्दस्य पूर्वनिपातं बाधित्वा ठजाद्यदन्तम्ऽ इत्यजशब्दस्य पूर्वनिपातः कृतः,'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति स्त्रीलिङ्गादपि थ्यन्भवत्येव - अजायै हितमजथ्यम्,'तसिलादिषु थ्यन्तालौ' इति परिगणनात्पुंवद्भावः ॥ Nyaas ----- अजशब्दोऽयमिह पुंल्लिङ्ग उपात्तः; अविशब्दस्य ध्यन्तशब्दस्यापूर्वनिपातात्। आबन्तस्य ग्रहणे हृदिशब्दस्य पूर्वनिपातः स्यात्। अदन्तस्य ग्रहणे `द्वन्द्वे धि` (2.2.32) इत्येतस्य बाधितत्वात्? `अजाद्यदन्तम्` (2.2.33) इत्यजब्दस्य पूर्वनिपातो युज्यते। तस्मात्? पुंल्लिङ्गस्य ग्रहणम्। तथा व `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इति स्त्रीलिङ्गादपि प्रत्ययो भवत्येव-अजाभ्यो हितमजथ्यम्। **तसिलादिष्वाकृत्वसुचः** (6.3.35) इति पुंवद्भावः। परिसंख्यायन्ते हि तत्र तसिलादयः, तेषाञ्च मध्ये परिसंख्यातौ Prakriyasarvasvam ----------------- अजाय हितं अजथ्यम् । अविथ्यम् । थ्यनि पुंवत्वमिष्टम् । अजायै हितमप्यजथ्यम् ॥