43155: ञितश्च तत्प्रत्ययात् =========================== **Padacheda:** ञितः | S | 5 | 1 | च | S | 0 | 0 | तत्-प्रत्ययात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अञ् comes in the sense of 'product or part' after a word which ends in an affix having an indicatory ञ् , such affix denoting 'its product or part'. Vasu English Translation ------------------------ The affix अञ् comes in the sense of 'product or part' after a word which ends in an affix having an indicatory ञ् , such affix denoting 'its product or part'. The affixes having indicatory ञ denoting product or part, are अञ् (4.3.139), टलञ् (4.3.142), अञ् (4.3.154) वुञ् (4.3.157), ढञ् (4.3.159), अञ्, यञ् (4.5.168). When a tertiary derivative of a word ending with these affixes is to be made, the affix अञ् is used. Thus दैवदारवस्य विकारोऽवयवो वा = दैवदारवम्; so also दाधित्थम्, पालाशम्, शामीलम्, कापोतम् औष्ट्रकम्, ऐणेयम्, कांस्यम्, पारशवम् ॥ Why do we say ञितः ? Witness बैल्वमयं. Here मयट् is used after बैल्व and the derivative is formed by अण् of (4.3.136). So also बैदमयम् ॥ Bhashya ------- ञ्ञितश्च तत्प्रत्ययात् (1724) (अञ्ञोऽधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? (5539 समाधानवार्तिकम्॥ 1 ॥) - विकारावयवयोर्विकारावयवयुक्तत्वान्मयट्प्रतिषेधार्थं ञ्ञितश्च तत्प्रत्ययादञ्ञो विधानम् - (भाष्यम्) विकारो विकारेण युज्यते, अवयवेनावयवः। विकारावयवयोर्विकारावयवयुक्तत्वान्मयट् प्राप्नोति। इष्यते चाञ्ञेव स्यादिति। तच्चान्तरेण यत्नं न सिद्ध्यतीति मयट्प्रतिषेधार्थं ञ्ञितश्च तत्प्रत्ययादञ्ञो विधानम्। एवमर्थमिदमुच्यते॥ (5540 समाधानाक्षेपवार्तिकम्॥ 2 ॥) - न वा दृष्टो ह्यवयवे समुदायशब्दो विकारे च प्रकृतिशब्दस्तस्मान्मयडभावः - (भाष्यम्) न वैतत्प्रयोजनमस्ति। किं कारणम्? दृष्टो ह्यवयवे समुदायशब्दः, तद्यथा -पूर्वे पञ्ञ्चालाः। उत्तरे पञ्ञ्चालाः। तैलं भुक्तम्। घृतं भुक्तम्। शुक्लः, नीलः, कृष्ण इति। विकारे च प्रकृतिशब्दः। विकारे च प्रकृतिशब्दो दृश्यते। तद्यथा -शालीन् भुङ्क्ते मुद्गैः, शालिविकारं मुद्गविकारेणेति। (प्रत्याक्षेपभाष्यम्) नैतद्विवदामहे -अवयवे समुदायशब्दोऽस्ति नास्तीति, विकारे वा प्रकृतिशब्द इति। किं तर्हि? विकारावयवशब्दोऽपि त्वस्ति, तत उत्पत्तिः प्राप्नोति॥ (5541 प्रत्याक्षेपनिराकरणवार्तिकम्॥ 3 ॥) - विकारावयवशब्दात्प्रसङ्ग इति चेन्न तेनानभिधानात् - (भाष्यम्) विकारावयवशब्दात् प्रसङ्ग इति चेत्तन्न। किं कारणम्? तेनानभिधानात्। न हि विकारावयवशब्दादुत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं स्यात्। अनभिधानात्तत उत्पत्तिर्न भविष्यति॥ तच्चावश्यमनभिधानमाश्रयितव्यम्॥ (5542 आक्षेपवार्तिकम्॥ 4 ॥) - अभिधाने ह्यन्यतोऽपि मयट्प्रसङ्गः - (भाष्यम्) अभिधाने सत्यन्यतोऽपि मयट् प्रसज्येत। बैल्वस्य विकार इति॥ (5543 सिद्धान्त्येकदेशिवार्तिकम्॥ 5 ॥) - तस्मात्तत्प्रत्ययान्ताल्लुग्वचनम् - (भाष्यम्) तस्मात्तत्प्रत्ययान्ताल्लुग्वक्तव्यः॥ (सिद्धान्तभाष्यम्) यदि लुगुच्यते, कथं गौमयं भस्म, द्रौवयं मानम्, कापित्थो रसः? इति। अन्यत्र गोमयाद् द्रुवयात् फलाच्च लुग्वक्तव्यः॥ इह तर्हि -औष्ट्रकी, अञ्ञन्तादितीकारो न प्राप्नोति। इष्टमेवैतत्संगृहीतम्, औष्ट्रिकेत्येव भवितव्यम्। इह हि सौनागाः पठन्ति -वुञ्ञश्चाञ्ञ्कृतप्रसङ्ग इति॥ इह तर्हि -पालाशी समिदित्यनुपसर्जनलक्षण ईकारो न प्राप्नोति। मा भूदेवम् -अञ्ञ् योऽनुपसर्जनमिति, अञ्ञन्तादनुपसर्जनादित्येवं भविष्यति। नैवं शक्यम्। इह हि दोषः स्यात् -काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी तामधीते काशकृत्स्ना ब्राह्मणीति, अणन्तादितीकारः प्रसज्येत। तस्मादस्तु न तेनानभिधानादित्येव॥ इह तर्हि कापोतो रस इति -प्राणिशब्दो नोपपद्यते। नैष दोषः। इदं तावदयं प्रष्टव्यः -योऽसावाद्यः कपोतः सलोमकः सपक्षः, न संप्रति प्राणिति, कथं तत्र प्राणिशब्दो वर्तते? इति। अथ मतमेतत् -प्रकृत्यन्वया विकारा भवन्तीति। इहापि न दोषो भवति॥ Kashika ------- अञित्येव। तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः। ञिद् यो विकारावयवप्रत्ययः, तदन्तात् प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरेव। मयटोऽपवादः। **ओरञ्** (४.३.१३९), **शम्याष्ट्लञ्** (४.३.१४२), **प्राणिरजतादिभ्योऽञ्** (४.३.१५४) **उष्ट्राद् वुञ्** (४.३.१५७), **एण्या ढञ्** (४.३.१५९), **कंसीयपरशव्ययोर्यञञौ०** (४.३.१६८) इत्येते प्रत्यया गृह्यन्ते। दैवदारवस्य विकारोऽवयवो वा दैवदारवम्। दाधित्थस्य दाधित्थम्। पालाशस्य पालाशम्। शामीलस्य शामीलम्। कापोतस्य कापोतम्। औष्ट्रकस्य औष्ट्रकम्। ऐणेयस्य ऐणेयम्। कांस्यस्य कांस्यम्। पारशवस्य पारशवम्। ञित इति किम् ? बैल्वमयम्। तत्प्रत्ययादिति किम् ? बैदमयम् ॥ Siddhanta Kaumudi ----------------- ञिद्योविकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । ञितः किम् । बैल्वमयम् ॥ Balamanorama ------------ **ञितश्च तत्प्रत्ययात्** - ञितश्च तत्प्रत्ययात् । तयोः= विकारावयवयोः प्रत्ययः-तत्प्रत्ययः । तदाह — ञिद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या विकारोऽवयवो वा शामीलम् ।शम्याः ष्यञ् । शामीलस्य विकारोऽवयवो वेत्यर्थे अञि शामीलमिति भवतीत्यर्थः ।नित्यं वृद्धे॑ति मयटोऽपवादः । दाधित्थमिति । दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम् । मयडपवादोऽञ् । बैल्वमयमिति ।बिस्वादिभ्यो॑णिति बिल्वशब्दादणि बैल्वः । तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो ञित्त्वाऽभावादिति भावः । भाष्ये तुविकारावयवप्रत्ययान्तात्पुनस्तत्प्रत्यया अनभिधानान्ने॑त्याश्रित्या सूत्रमिदं प्रत्याख्यातम् । Tattvabodhini ------------- **ञितश्च तत्प्रत्ययात्** - शामीलमिमि । शामीलशब्दःशम्याः ष्ल॑ञिति ष्लञन्तः । दधित्थात्अनुदात्तादेश्चे॑त्यञ् । दाधित्थस्य दाधित्थम् । बैल्वमयमिति । बिल्वशब्दोऽणन्तः । Padamanjari ----------- तयोर्वाचकत्वेन यः सम्बन्धी प्रत्यः स तत्प्रत्ययः षष्ठीसमासः । विकारावयवयोरेवेति । यदि तु ञित्प्रत्ययान्तः प्राण्योषधिवृक्षवाची सम्भवति ततोऽवयवेऽपि भवति; द्वयोः प्रकृतत्वात् । लक्ष्यमनपेक्ष्यैवमुक्तम् । ननु च पूर्वे पञ्चालाः, पटो दग्ध इत्यवयवे समुदायशब्दो दृष्टः, विकारे च प्रकृतिशब्दः - शालीन्भुङ्क्ते मुद्गैरिति शालिविकारान्मुद्गविकारैरित्यर्थः; ततश्च देवदार्वाद्यवयवविकारवृतेर्देअवदार्वादिशब्दातद्विकारावयवयोस्तेन तेनाञादयो भविष्यन्ति, नार्थोऽनेनेत्याशङ्क्याह - मयटोऽपवाद इति । सत्यमस्ति यथाकथञ्चिदिष्टसिद्धः, तथापि वृद्धलक्षणो मयण्मा भूदित्येवमर्थमेवाञ्विधेयः । अन्यथा येनैव हेतुनैतद्वाक्यं भवति - दैवदारवस्य विकारः, शामलस्य विकारः, तेनैव मयडपि स्यात्, विकार्यातेनैव हेतुना मयडपि प्राप्नोति ? अनभिदानान्न भविष्यति, तदेव तर्ह्यनभिधानं विधानेन प्रतिपाद्यते । यद्येवम्,'तस्य विकारः' , ठुष्ट्राद् वुञ्ऽ, औष्ट्रकं चर्म, तस्य विकार औष्ट्रिकोपानदिति,'टिड्ढाणञ्' इति ङीप्प्राप्नोति, न चेष्यते, एवं हि सौनागाः पठन्ति -'वुञश्चाञ ईतः प्रसङ्गः' इति । तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्द इति तेन तेन लक्षणेनाञादयो भविष्यन्ति । अनभिधानातु विकारावयवप्रत्ययान्तान्न मयड् भविष्यतीत्येतदेव साम्प्रतम् । बैल्वमयमिति ।'ञितो यत्नेन मयट्ंअ सूत्रकारो निवर्तयन् अन्यतो वष्टि मयटम्' इति वृत्तिकृतो मतम् । भाष्यवातिककारौ पुनराहतुः -'तच्चानभिदानमाश्रयितव्यम्, अभिधाने ह्यन्यतो' पि मयटः प्रसङ्गः - बैल्वस्य विकारःऽ इति ॥ Prakriyasarvasvam ----------------- विकारावयवार्थञित्प्रत्ययान्तात् पुनस्तयोरेवार्थयोरञ् स्यात् । दलञि— शामीलं दारु । तद्विकारोऽपि शामीलम् । एवम् 'एण्या ढञ्' (४-३-१५९) इत्यैणेयं चर्म । तद्विकारोऽप्यैणेयम् ।।