43011: कालाट्ठञ् ================ **Padacheda:** कालात् | S | 5 | 1 | ठञ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ठञ् comes in the remaining senses after the words denoting time. Vasu English Translation ------------------------ The affix ठञ् comes in the remaining senses after the words denoting time. This debars अण् ॥ The affix छ which comes after *Vriddha* words is prohibited by this *sutra*. Thus मासिकः 'monthly' आर्द्धमासिकः 'bi-monthly', सांवत्सरिकः 'annual'. The words which denote time even indirectly, also take this affix. As कादम्बपुष्पिकं, व्रैहिपलालिकम् ॥ The word काल governs all the subsequent *sutras* upto 25. (तत्र जातः). Kashika ------- कालविशेषवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। अणोऽपवादः। वृद्धात् तु छं परत्वाद् बाधते। मासिकः। आर्धमासिकः। सांवत्सरिकः। यथाकथंचिद् गुणवृत्त्यापि काले वर्तमानात् प्रत्यय इष्यते। कादम्बपुष्पिकम्। ब्रैहिपलालिकम्। **तत्र जातः** (४.३.२५) इति प्रागतः कालाधिकारः॥ Siddhanta Kaumudi ----------------- कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि-शार्वरस्य तमसो निषिद्धये-इति कालिदासः, अनुदितौषसराग -इति भारविः, समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः । तत्र जातः (SK1393) इति यावत्कालाधिकारः ॥ Laghu Siddhanta Kaumudi ----------------------- कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। **अव्ययानां भमात्रे टिलोपः** (वार्त्तिकम्) । सायम्प्रातिकः। पौनःपुनिकः॥ Balamanorama ------------ **कालाट्ठञ्** - कालाट्ठञ् ।कालशब्दस्यैव न ग्रहणं, किन्तु कालशब्दस्य, कालविशेषवाचकानां च ग्रहण॑मिति 'तदस्य परिमाणं' 'सङ्ख्यायाः' इति सूत्रभाष्ये स्पष्टम् । तदाह — कालवाचिभ्य इति । सायंप्रातिकः पौनःपुनिक इति । 'अव्ययानां भमात्रे' इति टिलोपः ।सायञ्चिर॑मिति ठ्युठ्युलौ तु न भवतः, 'नस्तद्धिते' इति सूत्रभाष्ये तथा प्रयोगदर्शनात् । शार्वरस्येति । समानकालिकं प्राक्रालिकमिति भाव्यमित्यर्थः । प्रामाणिका इति । केचित्तु अमुकः पुरतः परेद्युरित्यादिवदेतेऽपि शब्दा अव्युत्पन्नाः, पृष्टोदरादयो वा साधव इत्याहुः । इति यावदिति । व्याख्यानादिति भावः । Tattvabodhini ------------- **कालाट्ठञ्** - कालाट्ठञ् । स्वरूपस्यैव न ग्रहणं, संधिवेलादिसूत्रेण संधिवेलात्रयोदशीचतुर्दशी — प्रभृतिभ्योऽवृद्धेभ्योऽपि ठञ्वाधनार्थमण्विधानात् । किं तु सर्वेषामपि कालवाचिनां ग्रहणमित्याशयेनाह -कालावाचिभ्य इति । यत्तुस्वरूपस्य पर्यायाणां च न ग्रहण ॑मिति पदमञ्जर्यादिषु स्थितम् । तदसत् ।कालिकः संबन्धः॑,कालिकी व्याप्ति॑रित्यादिप्रयोगाऽनापत्तेः । न च विशेषाणामेव सन्धिवेलादिसूत्रेण सन्धिवेलादिभ्योऽण्विधानं ज्ञापकमिति वाच्यं, तस्य स्वरूपमात्रग्रहणनिरासकत्वेनापि साफल्यात् । गौणमुख्यन्यायस्त्विह नाश्रीयते । तेन कदम्बपुष्पसाहचर्यात्कदम्बपुष्पः कालः, व्रीहिपलालसाहचर्याद्व्रीहिपलालः कालः, तत्र भवं कादम्बपुष्पिकं व्रैहिपलालिकमित्याकरः । अत्रहि प्रमाणं सन्धिवेलादिसूत्रे अनेन कालग्रहणेन नक्षत्राणां विशेषणमेवेत्याहुः । न च पुष्पदिशब्दानां कालो मुख्य एवार्थः,लुबविशेषे॑इति व्युत्पादनात्, तथा च कालविशेषणमुक्तार्थे न प्रमाणमिति वाच्यं, पुष्यादिसमीपस्थचन्द्रमसा युक्ते काले पुष्यादिशब्दानां गौणत्वात् ।लुबविशेषे॑इति शास्त्रमपि गौणवृत्तित्वान्वाख्यायकमेवेति दिक् । एवं स्थितेकालवाचिभ्य॑इति मूलस्यकालप्रतिपादकेभ्यः॑इति फलितोऽर्थः । Padamanjari ----------- कालविशेषवाचिन इति । स्वरूपस्य च पर्यायाणां च ग्रहणं न भवति; सन्धिवेलादिसूत्रेण सन्धिवेलात्रयोदशीप्रभृतिभ्योऽवृद्धेभ्योऽण्विधानात् । तद्धि ठञो बाधनार्थः, अर्थग्रहणे च तेभ्यष्ठञः प्रसङ्गः । इह'गौणमुख्ययोर्मुख्ये सम्प्रत्ययः' इति न्यायान्मुख्यया वृत्या ये काले वर्तन्ते मासोऽर्द्धमास इति, तत एवायं प्रत्ययः स्याद्; न तु गौणवृत्या कालवृतेः, कदम्बपुष्पसाहचर्यात्कदम्ब कालः, व्रीहिपलालसाहचर्याद् व्रीहिपलालं काल इत्यादेरित्याशङ्क्याह - यथाकथञ्चिदिति । येन केनचित्प्रकारेण । एतदेव स्पष्टयति - गुणवृत्यापीति । परत्र परशब्दप्रवृतेर्यन्निबन्धनं स गुणः, तन्निबन्धना वृत्तिर्गुणवृत्तिः । एतच्च सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन नक्षत्राणि यद्विशिनष्टि ततो लभ्यते । न हि मुख्याथः कालशब्दोऽस्ति नक्षत्राणां सम्भवति । पुष्पादिसमीपस्थेन हि चन्द्रमसा योगाल्लक्षितलक्षणया पुष्पादिशब्दानां काले वृत्तिः । सैव च'लुबविशेषे' इति लुब्विधानेनाप्यन्वाख्यायते पौषादिनिवृत्यर्थम्, न त्वेतावता कालस्तेषां मुख्योऽर्थः ॥ Nyaas ----- `कालविशेषवाचिनः` इति। अनेन कालादित्यर्थग्रहणम्, न स्वरूपस्येति। यदि हि स्वरूपगर्हणं स्यात्, सन्धिवेलादि (4.3.16) सूत्रेणाणो विधानमनर्थकं स्यात्; **प्राग्दीव्यतोऽण्** (4.1.83) इत्यनेनैव सिद्धत्वात्। इह त्वर्थग्रहणे ठञ्बाधनार्थत्वात् तस्यानर्थक्यं भवति। तस्मादर्थग्रहणमेतत्।इह केचिच्छब्दा मुख्यया वृत्त्या काले वर्तन्ते - मासोऽर्धमास इति,केचिद्गौण्या वृत्त्या - कदम्बपुष्पसाहचर्यात् कालः कदम्बपुष्पः,व्रीहिपलालेन साहचर्यात् कालो व्रीहिपलाल इति; तेषामिहोभयेषामपि ग्रहणम्। अत एवाह - `यथा कथञ्चित्` इति। येन केनचित्प्रकारेणेत्यर्थः। `गुणवृत्त्याऽपि` इति। अनेन यथाकथञ्चिदित्यस्यार्थं विस्पष्टीकरोति। औपचारिकी, वृत्तिः, अप्रधानभूता वृत्तिरित्यर्थः। अपिशब्दान्मुख्यायपि वृत्त्या। ननु च मुख्ये सति गौणस्य ग्रहणमयुक्तम्, गौणमुख्ययोर्मुख्ये, कार्यसम्प्रत्ययात् (व्या।प।4)? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति - गौणस्यापि कालस्य ग्रहणमिति, यदयं सन्धिवेलादिसूत्रे (4.3.16) प्रकृतेन कालग्रहणेन नक्षत्राणि विशिनष्टि। न हि मुख्यार्थः कालो नक्षत्राणां विशेषणमुपपद्यते। तेषु मुख्यस्य कालत्वस्यासम्भवात्॥ Prakriyasarvasvam ----------------- कालवाचिभ्यः शेषे ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । लक्षणया कालवृत्तिभ्योऽपीष्टम् ' कदम्बपुष्पमिति लक्षणया प्रावृट् । तत्र भवं, कादम्ब- पुष्पिकम् । एवं शरद्भवं, व्रीहिपलालिकम् ॥ कार्त्तिकेयो विवस्वानित्यस्ति कार्त्तिकमासजे । तत्र कालाट्ठञि प्राप्ते ढो मृग्य इति वामनः ॥ २३९ ॥ शार्वरं तम इत्याद्यप्यसाध्वेवेति सोऽब्रवीत् । वस्तुतश्चेत् कार्त्तिकिको भानुः शार्वरिकं तमः ॥ २४० ॥ एवं पाविक इत्येव पार्वणश्चन्द्र इत्यसत् । स्याद् वा चातुर्दशं रक्ष इतिवच्छेष इत्यणि ॥ २४१ ॥ Sutra Prayogas -------------- * **प्रास्थानिकं** (रघुवंशम्): `कालाट्टञ्` इति ठञ्प्रत्ययः। * **शाश्वतः** (कुमारसम्भवम्): `कालाट्ठञ्` इति ठञपवादः।