42031: वाय्वृतुपित्रुषसो यत् ============================ **Padacheda:** वायु-ऋतु-पितृ-उषसः | S | 5 | 1 | यत् | S | 1 | 1 | Sutrartha --------- **'सा अस्य देवता' अस्मिन् अर्थे 'वायु', 'ऋतु', 'पितृ' तथा 'उषस्' शब्दात् यत् प्रत्ययः भवति ।** **सा अस्य देवता** (4.2.24) इत्यस्मिन् अर्थे एतेभ्यः शब्देभ्यः अण्-प्रत्ययस्य अपवादरूपेण यत्-प्रत्ययः विधीयते । यथा - 1. वायुः अस्य देवता सः = वायु + यत् → वायो + यत् [**ओर्गुणः** (6.4.146) इति गुणादेशः] → वायव्य [**वान्तो यि प्रत्यये** (6.1.79) इति अवादेशः] 2. ऋतुः अस्य देवता सः = ऋतु + यत् → ऋतो + यत् [**ओर्गुणः** (6.4.146) इति गुणादेशः] → ऋतव्य [**वान्तो यि प्रत्यये** (6.1.79) इति अवादेशः] 3. पिता अस्य देवता सः = पितृ + यत् → पित् रीङ् + य [**रीङ् ऋतः** (7.4.27) इति ऋकारस्य रीङ्-आदेशः । ङित्वात् **ङिच्च** (1.1.53) इति अन्त्यादेशः] → पित् री + य [इत्संज्ञालोपः] → पित् र् + य [**यस्येति च** (6.4.148) इति ईकारलोपः] → पित्र्य 4. उषाः अस्य देवता सः = उषस् + यत् → उषस्य Sutrartha (English) ------------------- The words 'वायु', 'ऋतु', 'पितृ' and 'उषस्' get the प्रत्यय यत् in the meaning of 'सा अस्य देवता'. Vasu English Summary -------------------- The affix यत् comes after the names 1. वायु 2. ऋतु 3. पितृ and 4. उषस् in the sense of 'this its deity'. Vasu English Translation ------------------------ The affix यत् comes after the names 1. वायु 2. ऋतु 3. पितृ and 4. उषस् in the sense of 'this its deity'. This debars अण् ॥ As, वायव्यम्, ऋतव्यम्, पित्र्यम् and उषस्यम् ॥ The form पित्र्यम् is thus evolved पितृ + यत् = पित् + रीङ् + यत् (7.4.27) = पित्र्यम् (6.4.148). The पित्र्य has *udatta* on the first syllable by (6.1.213). Kashika ------- वाय्वादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। वायुर्देवतास्य वायव्यम्। ऋतव्यम्। पित्र्य॒म् (ऋ०८.२०.१३)। उषस्यम्॥ Siddhanta Kaumudi ----------------- वायव्यम् । ऋतव्यम् ॥ Laghu Siddhanta Kaumudi ----------------------- वायव्यम्। ऋतव्यम्॥ Balamanorama ------------ **वाय्वृतुपित्रुषसो यत्** - वाय्वृतुपित्रुषसो यत् । वायु, ऋतु, पितृ,उषस् एभ्यो यदित्यर्थः । वायव्यमिति । वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः ।वान्तो यी॑त्यवादेशः । ऋतव्यमिति । ऋतुर्देवता अस्येति विग्रहः । Padamanjari ----------- वायव्यमिति । ठोर्गुणःऽ,'वान्तो यि प्रत्यये' पित्र्यमिति । रीण्ःóतःऽ इति रीङ्, यस्येति लोपः ॥ Nyaas ----- `वायव्यम्। ऋतव्यम्` इति। **ओर्गुणः** (6.4.146) ,**वान्तो यि प्रत्यये** (6.1.79) इत्यवादेशः। `पित्र्यम्` इति। `रीङृतः` (7.4.27) इति रीङ्, यस्येति (6.4.49) लोपः॥ Prakriyasarvasvam ----------------- ओर्गुणः । 'वान्तो यी—' (६-१-७९) त्यवादेशः । वायव्यम् । ऋतव्यम् ॥ Sutra Prayogas -------------- * **पित्र्यम्** (रघुवंशम्): `वाय्वृतुपित्रुषसो यत्` इति यत्प्रत्ययः।