42028: छ च ========== **Padacheda:** छ | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **'सा अस्य देवता' अस्मिन् अर्थे 'अपोनप्तृ' तथा 'अपान्नप्तृ' शब्दाभ्याम् 'छ'-प्रत्ययः भवति ।** 'अपोनप्तात्' तथा 'अपान्नप्तात्' एते द्वे देवतयोः नाम्नि ।**सा अस्य देवता** (4.2.24) अस्मिन् अर्थे **अपोनप्त्रपान्नप्तृभ्यां घः** (4.2.27) इत्यनेन एताभ्याम् घ-प्रत्यये प्राप्ते; वर्तमानसूत्रेण ताभ्यां छ-प्रत्ययः अपि विधीयते । तथा एतयोः 'अपोनप्तृ' तथा 'अपान्नप्तृ' इत्यपि परिवर्तनं अपि भवति । अपान्नपात् अस्य देवता = अपान्नप्तृ + छ → अपान्नप्तृ + ईय् [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इत्यनेन छकारस्य ईय्-आदेशः] → अपान्नप्त्रीय [**इको यणचि** (6.1.77) इति यणादेशः] अस्मिन् विषये वात्तिकद्वयं ज्ञातव्यम् - 1. - पैङ्गाक्षीपुत्र, तार्णबिन्दव - एताभ्यां शब्दाभ्यामपि **सा अस्य देवता** (4.2.28) अस्मिन् अर्थे छ-प्रत्ययः भवति । पिङ्गाक्षीपुत्रः अस्य देवता सः = पैङ्गाक्षीपुत्रीयः । तृणबिन्दुः अस्य देवता सः = तार्णबिन्दवीयः । 2. - 'शतरुद्र'शब्दात् **सा अस्य देवता** (4.2.28) अस्मिन् अर्थे छ तथा घ - द्वौ अपि प्रत्ययौ भवतः । शतरुद्रः अस्य देवता सः = शतरुद्र + छ → शतरुद्रीय / शतरुद्र + घ → शतरुद्रिय । अत्र यद्यपि 'शतरुद्र' शब्दः द्विगुसमासेन निर्मितः अस्ति, तथाप्यत्र प्रत्ययविधानसामर्थ्यात् **द्विगोः लुक् अनपत्ये** (4.1.88) इत्यनेन प्रत्ययलुक् न भवति । अस्मिन् विषये कौमुदीकारः वदति - घच्छयोः विधानसामर्थ्यात् 'द्विगोर्लुगनपत्ये' इति न लुक् । ज्ञातव्यम् - अत्र **छ च** (4.2.28) एतत् सूत्रम् पृथक् किमर्थमुच्यते? 'अपोनप्तृ-अपान्नप्तृभ्याम् घच्छौ' इति किमर्थं न उक्तमस्ति? कौमुद्यामस्मिन् विषये उच्यते - 'योगविभागो यथासंख्यनिवृत्त्यर्थः ' । इत्युक्ते, यदि आचार्यः अपोनप्तृ-अपान्नप्तृभ्याम् घच्छौ इति अवदिष्यत्, तर्हि यथासङ्ख्यत्वात् अपोनप्तृ-शब्दात् 'घ' तथा अपान्नप्तृ-शब्दाय् 'छ' प्रत्ययविधानमभविष्यत् । परन्तु अत्र द्वाभ्यामपि शब्दाभ्यामुभावपि प्रत्ययौ उक्तौ स्तः । अतः स्पष्टनिर्देशार्थमत्र योगविभागः कृतः अस्ति । Sutrartha (English) ------------------- The words 'अपोनप्तात्' and 'अपान्नप्तात्' get the छ-प्रत्यय in the meaning of सा अस्य देवता, and they also get converted to 'अपोनप्तृ' and 'अपान्नप्तृ' respectively. Vasu English Summary -------------------- Also छ is added to the words 1. अपोनप्तृ and 2. अपन्नप्तृ in the sense of 'that its deity'. Vasu English Translation ------------------------ Also छ is added to the words 1. अपोनप्तृ and 2. अपन्नप्तृ in the sense of 'that its deity'. The affix छ also comes in the sense of "that its deity" after the word *Aponaptri* and *Apannaptri*. This debars अण् ॥ Thus अपोनपत्रीयं or अपान्नप्त्रीयम् 'oblation sacred to *Aponapat* or *Apannapat*'. This is made a separate *sutra*, in order to prevent the application of rule (1.3.10). For if it was included in the last, the *sutra* would have run thus: "The affixes घ and छ come after *Aponaptri* and *Apannaptri*", the meaning of which according to maxim I.3.10 would have been "the affix घ comes after *Aponaptri*, and छ after *Apannaptri*". But this is not what the author intended. Hence two distinct *sutras*. Vart:- The affix छ comes after the words पैंगाक्षीपुत्र &c. As, पैंगाक्षीपुत्रीयम्, तार्णबिन्दवीयम् ॥ Vart:- The word शतरुद्र takes घ and छ both : e. g. शतरुद्रीयम् and शतरुद्रियं ॥ Bhashya ------- छ च ( 1451) (छाधिकरणम्) (5345 सिद्धान्तवार्तिकम्॥ 1 ॥) - छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् - (भाष्यम्) छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानं कर्तव्यम्। पैङ्गाक्षीपुत्रीयम्, तार्णबिन्दवीयम्॥ (5346 सिद्धान्तवार्तिकम्॥ 2 ॥) - शतरुद्राद् घ च - (भाष्यम्) शतरुद्राद् घप्रत्ययो वक्तव्यः, छश्च वक्तव्यः। शतरुद्रियम्, शतरुद्रीयम्॥ Kashika ------- अपोनप्तृ अपांनप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सा अस्य देवता इति यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रीयं हविः, अपांनप्त्रीयम्। योगविभागः सङ्ख्यातानुदेशपरिहारार्थः। छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम्। पैङ्गाक्षीपुत्रीयम्। तार्णबिन्दवीयम्। शतरुद्राच्छश्च घश्च। शतरुद्रीयम्, शतरुद्रियम्। Siddhanta Kaumudi ----------------- योगविभागो यथासंख्यनिवृत्त्यर्थः अपोनप्त्रीयम् । अपान्नप्त्रीयम् । (वार्तिकम्) ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्यात्द्विगोर्लुगनपत्ये (SK1080) इति न लुक् ॥ Balamanorama ------------ **छ च** - छ च । उक्तविषये छोऽपीत्यर्थः ।ननु अपोनप्त्रपांनप्तृभ्यां॑ घच्छौ इत्येवास्तु । तत्राह — योगविभाग इति । पैङ्गाक्षीपुत्रीयमिति । पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः । तार्णविन्दवीयमिति । तार्णविन्दुर्देवता अस्येति विग्रहः ।शतरुद्राद्धश्चेति । वार्तिकमिदम् । शतरुद्रियमिति । घस्य इयादेश । शतरुद्रीयमिति । छस्य ईयादेशः । उभयत्र 'तद्धितार्थ' इति द्विगुसमासः । 'द्विगोर्लुगपत्ये' इति लुकमाशङ्क्याह — घच्छयोरिति । Padamanjari ----------- योगविभाग इत्यादि । पूर्वसूत्र एव च्छग्रहणे सति घच्छौ द्वौ प्रत्ययौ, प्रकृती अपि द्वे इति स्यात्सङ्ख्यातानुदेशः । शतरुद्रीयमिति । शतशब्दोऽनन्तवचनः, शतं रुद्रा देवताऽस्येति घच्छौ, तयोविधानसामर्थ्याद्'द्विगोर्लुगनपत्ये' लुग्न भवति ॥ Nyaas ----- अथ किमर्थं योगविभागः क्रियते, न `अपोनप्तृ - अपान्नप्तृभ्यां घच्छौ` इत्येकयोग एव क्रियते? इत्याह - `योगविभागः` इत्यादि। एकयोगे हि द्वे प्रकृती, प्रत्ययावपि द्वावेव, समसंख्यत्वात् संख्यातानुदेशः स्यात्, अतस्तन्निवृत्तये योगविभागः क्रियते।`छ प्रकरणे` इत्यादि। पैङ्गाक्षीपुत्रादिभ्यश्छप्रकरणे छस्योपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः , तेन पैङ्गाक्षीपुत्रादिभ्यश्छो भवतीति॥ Prakriyasarvasvam ----------------- ताभ्यां छ च स्यात् । अपोनप्त्रीयम् । अपान्नप्त्रीयम् । 'पैङ्गाक्षपुत्रादिभ्यश्च वाच्यम्' । पैङ्गाक्षपुत्रीयं तद्देवतम् । (वा० ४-२-२८) शतरुद्रीयं, शतरुद्रियम् ॥ Vartika ------- छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् ।