42027: अपोनप्त्रपान्नप्तृभ्यां घः ================================= **Padacheda:** अपोनप्तृ-अपान्नप्तृभ्याम् | S | 5 | 2 | घः | S | 1 | 1 | Sutrartha --------- **'सा अस्य देवता' अस्मिन् अर्थे 'अपोनप्तृ' तथा 'अपान्नप्तृ' शब्दाभ्याम् 'घ'-प्रत्ययः भवति ।** 'अपोनप्तात्' तथा 'अपान्नप्तात्' एते द्वे देवतयोः नाम्नि । **सा अस्य देवता** (4.2.24) अस्मिन् अर्थे एताभ्याम् घ-प्रत्ययः भवति, तथा एतयोः 'अपोनप्तृ' तथा 'अपान्नप्तृ' इत्यपि परिवर्तनं भवति । अपोनपात् अस्य देवता = अपोनप्तृ + घ → अपोनप्तृ + इय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इत्यनेन घकारस्य इय्-आदेशः] → अपोनप्त्रिय [**इको यणचि** (6.1.77) इति यणादेशः] अपान्नपात् अस्य देवता = अपान्नप्तृ + घ → अपान्नप्तृ +इय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इत्यनेन घकारस्य इय्-आदेशः] → अपान्नप्त्रिय [**इको यणचि** (6.1.77) इति यणादेशः] Sutrartha (English) ------------------- The words 'अपोनप्तात्' and 'अपान्नप्तात्' get the घ प्रत्यय in the meaning of सा अस्य देवता, and they also get converted to 'अपोनप्तृ' and 'अपान्नप्तृ' respectively. Vasu English Summary -------------------- The affix घ comes after the words 1. अपोनप्तृ and 2. अपन्नप्तृ in the sense of 'that its deity'. Vasu English Translation ------------------------ The affix घ comes after the words 1. अपोनप्तृ and 2. अपन्नप्तृ in the sense of 'that its deity'. This debars अण् ॥ Thus अपोनप्त्रियं हविः or अपांनप्त्रियम् ॥ The words अपोनपात् and अपांनपात् are the names of two deities; these words irregularly assume the form ending in नप्तृ when the affix is to be added. Bhashya ------- अपोनप्त्रपांनप्तृभ्यां घः (1450) (घप्रत्ययाधिकरणम्) (प्रैषविचारकभाष्यम्) अथ यदपोनप्त्रियम्, अपांनप्त्रियं हविः, कथं तस्य संप्रैषः कर्तव्यः? अपोनपातेऽनुब्रूहि, अपांनपातेऽनुब्रूहि। अपोनप्त्रपांनप्तृभावः कस्मान्न भवति? प्रत्ययसन्नियोगेन ऋकारान्तत्वमुच्यते, तेनासति प्रत्यये न भवितव्यम्॥ Kashika ------- अपोनप्तृ अपान्नपतृ इत्येताभ्यां घः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रियं हविः (का०श्रौ० २३.४.१४)। अपांनप्त्रियम्। अपोनपाद्, अपांनपादिति देवताया नामधेये एते। तयोस्तु प्रत्ययसन्नियोगेन रूपमिदं निपात्यते॥ Siddhanta Kaumudi ----------------- अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥ Balamanorama ------------ **अपोनप्त्रपान्नप्तृभ्यां घः** - अपोनप्त्रपांनपतृभ्यां घः । प्रत्ययसंनियोगेनेति । घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः । अत एवेति । घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाऽभावान्नोक्तादेशाविति भावः । Tattvabodhini ------------- **अपोनप्त्रपान्नप्तृभ्यां घः** - उक्तं रुपमिति ।नपात्इत्यस्यनृप्त॑इति रूपमित्यर्थः ।शतरुद्राद्धश्च । शतं रुद्रा इति । शतशब्दोऽनन्तवचनः । सौमिति ।हलस्तद्धितस्ये॑ति यलोपः । Padamanjari ----------- अपोनपात् अपांनपादिति देवतानामधेये इति । पृषोदरादित्वादनयोः साधुत्वम् । तयोस्तु प्रत्ययसन्नियोगेनेति । एवं च अपोनपाते अनुब्रूहि, अपांनपातेऽनुब्रूहि, अपोनपातं यज, अपां नपातं यजेति सम्प्रैषः । वेदे तु अपोनप्त्रे स्वाहेति छान्दसः प्रयोगः ॥ Nyaas ----- अपोनपात्, अपान्नपादिति यद्येते देवतानामधेयेतत् कथमेतद्विलक्षणं प्रकृतिरूपं सूत्रे श्रूयते? इत्याह -`तयोस्तु प्रत्ययसन्नियोगेन` इत्यादि॥ Prakriyasarvasvam ----------------- अपोनप्त्रियम् । अपान्नप्त्रियं हविः । घघनोः स्वरे भेदः ॥