41177: अतश्च ============ **Padacheda:** अतः | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **'अ' इति तद्राजप्रत्ययस्य स्त्रीत्वे विवक्षिते लुक् भवति ।** Vasu English Summary -------------------- In forming the feminine of a word which ends in the masculine in the तद्राजा affix अ , the affix is लुक् elided. Vasu English Translation ------------------------ In forming the feminine of a word which ends in the masculine in the तद्राजा affix अ , the affix is लुक् elided. Thus m. शौरसेनः, f. शूरसेनी; m. माद्रः j. मद्री ॥ The word अतः of the *sutra* should not be construed by the rule of *tadanata* *vidhi* (1.1. 72). If so construed it will mean "a *Tadraja* affix ending in अ is elided". There have been taught five *Tadraja* affixes, namely '*an* अ)', '*an* (अ)', 'nyan (य)', 'nya (य)' and 'in (इ)'. Of these the first four all end in अ; therefore all these four affixes should be elided in the feminine. But this is not the meaning of the author; for had it been so, there would have been no necessity of the previous *sutra*, for then the present *sutra* would have covered the case of '*Avanti*', '*Kunti*' and '*Kuru*'. But the very fact of this *sutra* (4.1.176) indicates by ज्ञापक, that the *tadanta* *vidhi* does not apply here. Therefore, the feminine of आम्बष्ठ्यः is आम्बष्ठ्या, of सौवीर्यः is सौवीर्या ॥ Bhashya ------- 1423 अतश्च (अलक्ष्यवारणपरभाष्यम्) इह कस्मान्न भवति -आम्बष्ठ्या, सौवीर्या? अत इत्युच्यते, नैषोऽकारः। तदन्तविधिना प्राप्नोति। अत उत्तरं पठति - (5331 तदन्ताग्रहणवार्तिकम्॥ 1 ॥) - अत इति तदन्ताग्रहणमवन्त्यादिभ्यो लुग्वचनात् - (भाष्यम्) अत इति तदन्तस्याग्रहणम्। किं कारणम्? अवन्त्यादिभ्यो लुग्वचनात्। यदयमवन्त्यादिभ्यो लुकं शास्ति, तज्ज्ञापयत्याचार्यः -नात्र तदन्तविधिर्भवतीति॥ (सूत्रांशपूरकभाष्यम्) पर्श्वादिभ्यो लुग्वक्तव्यः। पर्शूः,रक्षाः, असुरी॥ (5332 अन्यथासिद्धिसाधकवार्तिकम्॥ 2 ॥) - यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वादिलुकः - (भाष्यम्) यदयं न प्राच्यभर्गादियौधेयादिभ्यः (4.1.178) इति प्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः -भवति पर्श्वादिभ्यो लुगिति॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्॥ पादश्च समाप्तः॥ Kashika ------- स्त्रियामित्येव। अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायां लुग् भवति। तकारो विस्पष्टार्थः। शूरसेनी। मद्री। दरत्। अवन्त्यादिभ्यो लुग्वचनात् तदन्तविधिरत्र नास्ति, तेनेह न भवति — आम्बष्ठ्या। सौवीर्या॥ Siddhanta Kaumudi ----------------- तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुतौ इति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥ Balamanorama ------------ **अतश्च** - अतश्च । तद्राजस्याकारस्येति । 'अत' इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शूरसेनीति । अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वान्ङीष् ।न लुमते॑ति निषेधस्तु न, ङीष्विधेरङ्गकार्यत्वाऽभावात् । एवं मद्री । Tattvabodhini ------------- **अतश्च** - अतश्च । इद तद्राजेन अकारो विशेष्यते, न त्वकारेण तद्राजः । विशेषणेन तदन्तविधौ ञ्यङ्ण्यादीनामप्यदन्ततद्राजत्वादनेनैव लुकि सिद्धे अवन्तिकुन्तिकुरुभ्यो लुग्विधायकस्यस्त्रियामवन्ती॑ति सूत्रस्य वैयथ्र्यापत्तेः । न चेष्ट#आपतिः, कौसल्येति रूपाऽसिद्धिप्रसङ्गादतो व्याचष्टे । Padamanjari ----------- तकारो विस्पष्टार्थं इति । असति हि तस्मिन् ठस्यऽ इति निर्देशः स्यात्, ततश्च सन्देहः स्यात् - किमयं वर्णनिर्देशः ? आहोस्विदिदम इति ? इदमश्च निर्देशेऽनन्तरस्येञो लुक् प्रसज्येत, तकारे सत्येष दोषो न भवति, तपरनिर्देशस्य भूयसा वर्णेष्वेव प्रसिद्धत्वात्'तपरस्तत्कालस्य ' इति संज्ञाकरणाच्च । कथं'माद्रीसुतौ पुष्पफले समृद्धे' इति ? स्वच्छन्दवाच ऋषयः, मद्रीसुतावित्येव वा पाठ।ल्म् । अवन्त्यादिभ्यो लुग्वचनादिति । यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्याद्; अनेनैव सिद्धत्वात् । तदन्तविधौ त्वसति अकारमात्रस्य ग्रहणेन सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमर्थवद् भवति ॥ Nyaas ----- `तकारो विस्पष्टार्थः` इति। तकारे ह्रसति `अस्य` इति निर्देशेन भवितव्यम्, ततश्च समानत्वान्निर्देशस्य सन्देहः स्यात् - किमयवमवर्णस्य निर्देशः? आहोस्तवित् इदमः? इति। तकारे तु सत्येष दोषो न भवति; तपरस्य वणष्वेव प्रसिद्धत्वात्। दीर्घनिवृत्त्यर्थस्तु तकारो न भवति, दीर्घस्यासम्भवात्। `सूरसेनी। मद्री` इति। सूरसेनाशब्दाद्योऽञ्, म्दरशब्दाद्यो द्व्यज्लक्षणोऽण् - तयोर्लुकि कृते `जातेरस्त्रीविषयादयोपधात्` (4.1.63) इति ङीष्। `दरत्` इति। दरच्छब्दाद् द्व्यञ्मगधलक्षणस्याणो (4.1.168) लुक्।यदि `अतः` इति वर्णस्येदं ग्रहणम्, एवंसति वर्णग्रहमं तदन्तविधिं प्रयोजयतीतीहापि प्राप्नोति - आम्बषष्ठआ, सौवीर्या इति? अत आह - `अवन्त्यादिभ्य लुक्` इत्यादि। यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्। तदन्तविधावसत्यकारग्रहणमात्रेण न सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमनर्थवद्भवति॥ Prakriyasarvasvam ----------------- स्त्रीलिङ्गेऽकाररूपस्य तद्राजप्रत्ययस्य लुक् स्यात् । शूरसेनी । अत्राञो लुक् । मद्री । अत्र द्व्यचत्वादण् । माद्री तु चिन्त्या ॥