41174: ते तद्राजाः ================== **Padacheda:** ते | S | 1 | 3 | तद्राजाः | S | 1 | 3 | Sutrartha --------- **क्षत्रियवाचीनि यानि जनपदनामानि, तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे प्रयुक्ताः प्रत्ययाः 'तद्राज'संज्ञकाः भवन्ति ।** Vasu English Summary -------------------- These (viz. the affixes अञ् -- जनपदशब्दात् क्षत्रियादञ् (4.1.168) etc.) are called तद्राजा 'the king thereof' affixes. Vasu English Translation ------------------------ These (viz. the affixes अञ् -- जनपदशब्दात् क्षत्रियादञ् (4.1.168) etc.) are called तद्राजा 'the king thereof' affixes. The affixes treated of in these six *sutras* (4.1.168) to (4.1.173) are called *Tadraja*. The pronoun ते refers to these only and not to all the affixes treated or before S. (4.1.168); for they have the special designation of *Gotra* and *Yuvan* see (2.4.62). The illustrations of these have already been given under each of the above six aphorisms. Kashika ------- **जनपदशब्दात् क्षत्रियादञ्** (४.१.१६८) इत्येवमादयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते न तु पूर्वे, गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्। तेऽञादयस्तद्राजसंज्ञा भवन्ति। तथा चैवोदाहृतम्। तद्राजप्रदेशाः — **तद्राजस्य बहुषु तेनैवास्त्रियाम्** (२.४.६२) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- अञादय एतत्संज्ञाः स्युः ॥ Laghu Siddhanta Kaumudi ----------------------- अञादयस्तद्राजसंज्ञाः स्युः॥ Balamanorama ------------ **ते तद्राजाः** - ते तद्राजाः । ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते । तदाह — अञादय इति । Tattvabodhini ------------- **ते तद्राजाः** - ते तद्राजाः । अञादय इति । ततः प्राचीनास्तु त्तच्छब्देन न परामृश्यन्ते, गोत्रयुवसंज्ञाकाण्डेन विच्छेजात् । एतदर्थमेव तत्काण्डं मध्ये कृतमाचार्येणेत्याहुः । वस्तुतस्तुतद्राजे॑त्यधिकृत्यजनपदशब्दात्क्षत्रियाद॑ञित्यादिसूत्राणामारम्भे गोत्रयुवसंज्ञाकाण्डस्य मध्ये पाठाऽभावेऽपि न क्षतिरित्यन्ये । Padamanjari ----------- तथा चैवोदाहृतमिति । तत्र'तद्राजस्य बहुषु तेनैवास्त्रियाम्' मित्यत्र कार्याश्रयमुदाहृतम्, इह तु प्रकरणे रूपाश्रयम् ॥ Nyaas ----- `गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्` इति।गोत्रयुवसंज्ञाप्रकरणं हि यदन्तरा व्यवधायं कृतं तस्यैतदेव प्रयोजनम्। तेन ये व्यवहिताः पूर्वेऽणादयस्तेषां `ते तद्राजाः` इत्यत्र सर्वनाम्ना प्रत्यवमर्शो मा भूदिति। `तथा चैवोदाहृतम्` (इति)। `तद्राजस्य बहुषु तेनैवास्त्रियाम्` (2.4.62) इत्यत्र कार्याश्रयमुदाहृतम्। इह तु प्रकरणे रूपाश्रयम्॥ Prakriyasarvasvam ----------------- एतेऽञादयस्तद्राजाख्याः । तेन 'तद्राजस्य बहुषु—' (२-४-६२) इत्यञादेर्लुक् । वैदेहः वैदेहौ विदेहाः । आङ्गः आङ्गौ अङ्गाः । एवं सौवीराः । अवन्तयः । कुन्तयः । कुरवः निषधाः । 'कौरव्याः पशव' इति वेणीसंहारोक्ति- र्ब्राह्मणत्वारोपात् । तत्र ण्यस्यातद्राजत्वात् अस्त्रियामित्युक्तेः स्त्रीलिङ्गे बहुत्वेऽपि लुग् न । वैदेह्यः स्त्रियः । अपत्यार्थैरेव सह द्वन्द्वेन कृते बहुत्वेऽप्यं लुक् स्यात् । यादवः कौरव्यो मागधश्च यदुकुरुमगधाः ॥