41163: जीवति तु वंश्ये युवा =========================== **Padacheda:** जीवति | S | 7 | 1 | तु | S | 0 | 0 | वंश्ये | S | 7 | 1 | युवा | S | 1 | 1 | Sutrartha --------- **पौत्रप्रभृतेः यद् अपत्यम्, तस्य पित्रादौ जीवति सति गोत्रसंज्ञां बाधित्वा युवसंज्ञा भवति ।** अस्य सूत्रस्य शब्दशः अर्थं ज्ञातुमादौ पदपरिचयं पश्यामः । 'वंश्य' इत्युक्ते पितराः (पित्रादयः) । 'जीवति वंश्ये' इति सतिसप्तमी - 'वंश्यः जीवितः अस्ति चेत्' इत्यर्थः । अतः अस्य सूत्रस्य अर्थः जायते - ' पौत्रप्रभृतेः यत् अपत्यम्, तस्य पितरेषु कोऽपि जीवितः अस्ति चेत् तस्य 'युवा' संज्ञा भवति । इत्युक्ते, 'प्रपौत्र/प्रप्रपौत्र/प्रप्रप्रपौत्र/...' एतेषां सर्वेषाम् **अपत्यं पौत्रप्रभृति गोत्रम्** (4.1.162) इत्यनेन गोत्रसंज्ञायां प्राप्तायाम्; यदि तेषाम् पिताप्रभृतिः जीवितः अस्ति, तर्हि अनेन सूत्रेण गोत्रसंज्ञां बाधित्वा युवसंज्ञा विधीयते - इति अस्य आशयः । यथा - अर्जुनस्य अपत्यमभिमन्युः । अभिमन्योः अपत्यम् परीक्षितः । परीक्षितस्य अपत्यम् जनमेजयः । अतः **अपत्यं पौत्रप्रभृति गोत्रम्** (4.1.162) इत्यनेन जनमेजयः अर्जुनस्य 'गोत्रापत्यम्' अस्तीति वक्तुं शक्यते । परन्तु यदि अर्जुनः / अभिमन्युः / परीक्षितः - एतेषु कोऽपि जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य 'युवापत्यम्' अस्ति इत्युच्यते । अत्र गोत्रसंज्ञां बाधित्वा युवसंज्ञाविधानम् भवति । युवसंज्ञायाः विषये केचन बिन्दवः स्मर्तव्याः - 1. 'युव'संज्ञाविधानम् नित्यम् गोत्रसंज्ञां बाधित्वा एव भवति । इत्युक्ते, यदि अर्जुनः / अभिमन्युः / परीक्षितः - एतेषु कोऽपि जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य 'युवापत्यम्' अस्ति इत्येव वक्तव्यम्, न हि 'गोत्रापत्यम्' इति । अस्मिन् सूत्रे 'तु' इति ग्रहणम् एतत् स्पष्टीकर्तुमेव कृतमस्ति । 'वंश्ये जीवति पौत्रप्रभृतेः अपत्यम् (गोत्रं न, परन्तु तत्) तु युवा' इति आशयः । 2. अनेन सूत्रेण 'प्रपौत्रादीनाम्' एव युवसंज्ञा भवितुमर्हति, 'पौत्रस्य' न । अतः, यद्यपि अर्जुनः जीवितः अस्ति तथापि परीक्षितः अर्जुनस्य युवापत्यम् न भवितुमर्हति, यतः परीक्षितः अर्जुनस्य 'पौत्रः' अस्ति, प्रपौत्रः न । 3. अस्मिन् सूत्रे **अपत्यं पौत्रप्रभृति गोत्रम्** इत्यस्मात् 'पौत्रप्रभृति' इति अनुवर्तते, तत् षष्ठ्या च विपरिणम्यते । अतः 'पौत्रप्रभृतेः' इति प्रयोगः सम्पूर्णसूत्रे क्रियते । 'युवा'संज्ञायाः प्रयोगः **गोत्राद्यून्यस्त्रियाम्** (4.1.94) इत्यत्र कृतः अस्ति । Vasu English Summary -------------------- But when one in a line of descent beginning with a father (and reckoning upwards) is alive, the descendant of a grandson or still lower descendant is called युवन् only. Vasu English Translation ------------------------ But when one in a line of descent beginning with a father (and reckoning upwards) is alive, the descendant of a grandson or still lower descendant is called युवन् only. The word वंश means an uninterrupted series of family descent-or 'a line'. One who occurs in such a line, like father &c, is called वंश्य ॥ When such a *vansya* is alive, then the descendant of a grandson &c is called *Yuvan*. The phrase पौत्रप्रभृतपत्य in the *sutra* should be construed as पौत्रप्रभृतेर् यद् अपत्यम्. 'He who is the descendant of a grandson &c' In the last *sutra*, however, this phrase पौत्रप्रभृत्यपत्यं was properly construed by putting the word पौत्रप्रभृति in the case of apposition with अपत्यम् meaning "a descendant being a grandson &c." Thus the word *Yuvan* will be applied to a person who is at least fourth in the order of descent, from the propositus with reference to whom the derivative is made. Thus गर्गः being the head, we have गर्गः - अपत्यम् - गार्गिः (son or *putra*) - अपत्यम् - गार्ग्यः (*Gotra*) - अपत्यम् - गार्ग्यायणः (*Yuvan*) (if *Garga* or *Gargi* &c be alive). The force of the word तु, in the *sutra* is that it will be called *Yuvan* only, and not *Gotra* as well. Bhashya ------- जीवति तु वंश्ये युवा (1409) (युवसंज्ञाधिकरणम्) (5316 अनुवृत्तिसूचकवार्तिकम्॥ 1 ॥) - जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं च - (भाष्यम्) जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं चेति वक्तव्यम्॥ तत्तर्हि वक्तव्यम्। न वक्तव्यम्, पौत्रप्रभृतीति वर्तते। एवं तर्हि अन्वाचष्टे पौत्रप्रभृतीति वर्तत इति। किमेतस्यान्वाख्याने प्रयोजनम्? (5317 अनुवृत्तिफलप्रदर्शकवार्तिकम्॥ 2 ॥) - तच्च दैवदत्त्यर्थम् - (भाष्यम्) देवदत्तस्यापत्यं दैवदत्तिरिति, अनन्तरं यदपत्यं तत्र युवसंज्ञा मा भूदिति। (अनुवृत्तौ दोषनिरासभाष्यम्) देवदत्तस्य तर्हि पौत्रे युवसंज्ञा प्राप्नोति, एतदपि पौत्रप्रभृति भवति। न पौत्रप्रभृतीत्यनेनापत्यमभिसंबध्यते -पौत्रप्रभृति यदपत्यमिति। किं तर्हि? वंश्योऽभिसंबध्यते -पौत्रप्रभृति वंश्ये जीवति यदपत्यमिति। एवमपि देवदत्तस्य द्वौ पुत्रौ, तयोः कनीयसि युवसंज्ञा प्राप्नोति -भ्रातरि च ज्यायसि (4.1.164) इति। एवं तर्ह्यपत्यमेवाभिसंबध्यते न तु पौत्रप्रभृतिसमानाधिकरणमपत्यम्। नैवं विज्ञायते -पौत्रप्रभृति यदपत्यमिति। कथं तर्हि? पौत्रप्रभृतेर्यदपत्यमिति॥ (5318 युवसंज्ञाविधिवार्तिकम्॥ 3 ॥) - वृद्धस्य च पूजायाम् - (भाष्यम्) वृद्धस्य च पूजायां युवसंज्ञा वक्तव्या। तत्र भवन्तो गार्ग्यायणाः, तत्रभवन्तो वात्स्यायनाः। का पुनरिह पूजा? युवत्वं लोके इर्प्सितं पूजेत्युपचर्यते। तत्रभवन्तश्च युवत्वेनोपचर्यमाणाः पूजिता भवन्ति॥ (5319 पूर्ववार्तिकप्रत्याख्याने वार्तिकम्॥ 4 ॥) - आपत्यो वा गोत्रम् - (भाष्यम्) अथवा -आपत्यो गोत्रसंज्ञो भवतीति वक्तव्यम्॥ (5320 प्रत्याख्यानोपयोगिवार्तिकम्॥ 5 ॥) - परमप्रकृतेश्चापत्यः - (भाष्यम्) परमप्रकृतेश्चापत्यो भवतीति वक्तव्यम्। (5321 प्रत्याख्यानोपयोगिवार्तिकम्॥ 6 ॥) - आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयो युवसंज्ञः - (भाष्यम्) आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयः प्रत्ययः स च युवसंज्ञो भवतीति वक्तव्यम्॥ (5322 प्रत्याख्यानोपयोगिवार्तिकम्॥ 6 ॥) - स चास्त्रियाम् - (भाष्यम्) स चास्त्रियां भवतीति वक्तव्यम्॥ (5323 लाघवबोधकवार्तिकम्॥ 7 ॥) - एको गोत्रग्रहणानर्थक्यं च - (भाष्यम्) एवं च कृत्वा एको गोत्रग्रहणमनर्थकं भवति॥ (5324 प्रत्याख्यानेनेष्टसाधकं वार्तिकम्॥ 8 ॥) - बहुवचनलोपिषु च सिद्धम् - (भाष्यम्) बहुवचनलोपिषु च सिद्धं भवति। तत्र बिदानामपत्यं माणवक इति विगृह्य बिदशब्दाद् द्व्येकयोरुत्पत्तिर्भविष्यति -बैदः, बैदौ॥ बैदस्यापत्यानि बहवो माणवका इति विगृह्य बिदशब्दाद्वहुषूत्पत्तिर्भविष्यति -बिदा इति॥ Kashika ------- अभिजनप्रबन्धो वंशः। तत्र भवो वंश्यः पित्रादिः। तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति। पौत्रप्रभृतीति च न सामानाधिकरण्येनापत्यं विशेषयति। किं तर्हि? षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर्यदपत्यमिति। तेन चतुर्थादारभ्य युवसंज्ञा विधीयते। गार्ग्यायणः। वात्स्यायनः। तुशब्दोऽवधारणार्थः — युवैव न गोत्रमिति॥ Siddhanta Kaumudi ----------------- वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव न गोत्रसंज्ञम् ॥ Laghu Siddhanta Kaumudi ----------------------- वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥ Balamanorama ------------ **जीवति तु वंश्ये युवा** - जीवति । वंशः — उत्पादकपित्रादिपरम्परा । तत्र भवो वंश्यः । दिगादित्वाद्यत् । तदाह — वंश्ये पित्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौत्रप्रभृति इत्यनुवृत्तं षष्ठआ विपरिणम्यत इति भावः । यदपत्यमिति ।तस्यापत्य॑मित्यतस्तदनुवृत्तेरिति भावः । तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः । तदाह — युवसंज्ञमेनेति । तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन्न समावेश इति भावः । युवसञ्ज्ञया सहगोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलङ्कुः कश्चित्, तस्य गोत्रापत्यं शालङ्किः । इञ् । पैलादिगणे शालङ्कीति पाठात्प्रकृतेः शलङ्कादेशश्च । शालङ्केरपत्यं युवापि शालङ्किरेव ।यञिञोस्चे॑ति फक् ।पैलादिभ्यश्चे॑ति तस्य लुक् । शालङ्केर्यूनछात्रा इत्यर्थेइञश्चे॑त्यणि 'शालङ्का' इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । 'पीलाया वा' इत्यण् । पैलस्यापत्यं युवापि पैल एव । 'अणो द्व्यचः' इति फिञ् ।पैलादिभ्यश्चे॑ति तस्य लुक् । पैलस्य यूनश्छात्र इत्यर्थे वृद्धाच्छः । 'पैलीया' इति रूपम् । युवगोत्रसंज्ञयोः समावेशे तु 'गोत्रेऽलुगचि' इति फक्फिञोरलुक्प्रसज्येतेत्यलम् । Tattvabodhini ------------- **जीवति तु वंश्ये युवा** - जीवति तु वंश्ये । पितृपितामहाद्युत्पादकप्रबन्धो वंशः । तत्र भवो वंश्यः । दिगादित्वाद्यत् ।पौत्रप्रभृती॑त्यनुवृत्तं षष्ठआ विपरिणम्यते, व्याख्यानात्,गोत्राद्यून्यस्त्रिया॑मिति लिङ्गाच्चेत्याह -पौत्रादेरिति । तुशब्दोभिन्नक मो युवेत्यस्मात्परो बोध्यः । स च एवकारार्थ इति व्याचष्टे । Padamanjari ----------- अभिजनप्रबन्धो वंश इति । अभिजनाःउपित्रादयः, अभिजायन्ते येभ्यः पुत्रादय इति कृत्वा । प्रबन्धःउसन्तानः । तत्र भवो वंश्य इति । दिगादित्वाद्यत् । पौत्रप्रभृत्यपत्यमिति षष्ठीसमासः, यद्यत्रापि पूर्ववत्'पौत्रप्रभृति' इत्येतत्सामानाधिकरण्येनापत्यं विशेषयेत्, तृतीयस्यापि जीवद्वंश्यस्य युवसंज्ञा स्यात्; तत्र को दोषः ? युवसंज्ञया गोत्रसंज्ञाया बाधितत्वाद्गर्गादिभ्यो यञ् स्यात्, न कश्चिदपत्यप्रत्ययः । किं कारणम् ? गोत्रादेव यूनीति नियमात्, नानन्तरान्न मूलप्रकृतेः । तस्माद्वाक्येनैवाभिधानं प्राप्नोति - गर्गस्यापत्यं गार्गेरपत्यमिति । एतेनोपगोस्तृतीयो जीवद्वंश्यो व्याख्यातः, तस्माद्वैयधिकरण्येन विशेषणमित्याह - पौत्रप्रभृतीति । षष्ठी विपरिणम्य इति । अत्र च व्याख्यानमेव शरणम् । तुशब्दोऽवधारणार्थ इति । अनेकार्थत्वान्निपातानां भिन्नक्रमो युवशब्दानन्तरं द्रष्टव्य इत्याह - युवैव भवति, न गोत्रमिति । असत्यवधारणे एकसंज्ञाधिकारादन्यत्र संज्ञायां समावेशाभ्युपगमात्कृत्यप्रत्ययसंज्ञानामिव गोत्रयुवसंज्ञयोः समावेशः स्यात् । अस्तु, को दोषः ? यस्कस्यापत्यं गोत्रम्'शिवादिभ्यो' ण्ऽ तदन्ताद्यौउनि ठणो द्व्यचःऽ इति फिञ्, वृद्धौ, यस्येति लोपे कृते यास्कायनिरिति । बहुषु'यस्कादिभ्यो गोत्रे' इति फिञो लुक् प्रसज्येत; एकदेशविकृतस्यानन्यत्वात् । यस्कादिभ्योऽनन्तरस्य गोत्रप्रत्ययस्थ लुगुच्यते, न चात्रानन्तरः फिञ् । शिवाद्यणो यस्येति लोपः, तस्य पूर्वस्मादपि विधौ स्थानिवद्भावाद्यस्कादिभ्योऽनन्तरस्य विहितस्येति वा विज्ञास्यते । इह च कण्वस्यापत्यं काण्व्यः, तस्यापत्यं युवा काण्व्यायनः, तस्यच्छात्त्राः काण्वायनीया इति,'कण्वादिभ्यो गोत्रे' इत्यण् न भवति, कण्वादिभ्यः परो योऽनन्तरो यो वा तेभ्यो गोत्रे विहितस्तदन्तादित्याश्रयणात् । इह च औपगवस्यापत्यमौपगविरिति'गोत्राद्यौउनि' इति प्रतिपदविधानात्, ठेको गोत्रेऽ इति नियमो बाधिष्यते । यदि बाध्यते, औपगवेर्यूनोऽपत्यमिति चतुर्थस्य यूनो गोत्रत्वात्पञ्चमे यूनि फक् प्राप्नोति ? नैष दोषः; पञ्चमे यूनि विवक्षिते उत्पन्नस्येञः यूनि'लुक्' इति लुकि कृते औपगवशब्दादणन्तात्पुनरपीञेव भविष्यति । इह तर्हि दाक्षेरपत्यं दाक्षायणस्यापत्यमित्यर्थविवक्षायाम्'फक्फिञोरन्यतरस्याम्' इति फको लुगभावपक्षे तदन्तादिञ् प्राप्नोति ? किञ्च औपगवेरपत्यमित्यत्रापि लुप्तेऽपीञि प्रत्ययलक्षणेन फक्प्राप्नोति ? एवं तर्हि'गोत्राद्यौउनि' इत्यत्र एकग्रहणनुवर्तिष्यते, तेनानेकः प्रत्ययो न भविष्यति । यस्तर्हि'गोत्रे' लुगचिऽ इत्युलक् सोऽत्रीणां यूनां छात्र इत्यादौ प्राप्नोति, यूनोऽपि गोत्रत्वात् ? प्राप्नोतु, तं बाधित्वा परत्वाद्यौउनि लुग्भविष्यति ? नैवं शक्यम्, फक्फिञोर्हि दोषः स्यात् - शालङ्केरपत्यं शालङ्किः, पैलादिषु पाठादिञ् शलङ्कादेशश्च, ततः शालङ्केरपत्यं युवा'यञिञोश्च' इति फक्,'पैलादिभ्यश्च' इति लुक्, ततः शालङ्केर्यूनश्छात्रा इति प्राग्दीव्यतीयार्थविवक्षायाम्'गोत्रे' लुगचिऽ इति पैलादिषु लुकः प्रतिषेधे सति'यूनिलुक्' इति लुकि नित्ये प्राप्ते'फक्फिञोरन्यतरस्याम्' इति पक्षे फकः श्रवणप्रसङ्गः । असत्यां तु यूनो गोत्रसंज्ञायाम्'गोत्रे' लुगचिऽ इत्यस्याप्रवृतौ पैलादिषु लुग्भवत्येव ।'फक्फिञोरन्यतरस्याम्' इत्ययं तु विकल्पोः यूनि'लुक्' इत्यस्यानन्तरस्य, न तु पैलादिषु लुको व्यवहितस्यान्तरङ्गस्य, तत ठिञश्चऽ इत्यण् - शालङ्का इति भवति । तथा पीलाया अपत्यम्,'पीलाया वा' इत्याण्, पैलः, तस्यापत्यं युवा, ठणो द्व्यचःऽ इति फिञ्, तस्य'पैलादिभ्यश्च' इति लुक्, ततः पैलस्य यूनश्छात्त्राः पैलीया इति ॥ Nyaas ----- `अभिजनप्रबन्धः` इति। अभजनाः = पितामहादयः, प्रबन्धः = सन्तानः, तत्र भवो वंश्य इति दिगादित्वाद्यत्। `पौत्रप्रभृत्यपत्यम्` इति। षष्ठीसमासः। `पौत्रप्रभृतीति च` इत्यादि। यदि पौत्रप्रभृतीत्येतत् सामानाधिकरण्येनापत्यं विशेषयेत् पौत्रप्रभृति यदपत्यमिति तदारभ्य युवसंज्ञा स्यात्, तच्चानिष्टम्। तस्मान्नैतत् सामानाधिकरण्येनापत्यस्य विशेषणम् किं तर्हि? अर्थाद्विभवनक्तविपरिणामे कृते षष्ठन्ततामापन्नं वैयधिकरण्येन पौत्रप्रभृर्यदपत्यमिति, तथा सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह - `तेन` इत्यादि। यत एवं विभक्तिविपरिणामे कृते पौत्रप्रभृतीत्यनेन षष्ठन्तेनापत्यं विशेष्यते तेन चतुर्थादारभ्य युवसंज्ञा विधीयते, तस्य च विभक्तपरिणामस्यापत्यं हेतुः। अपत्यशब्दो हि सम्बन्धिशब्दत्वनाद्धेत्वाद्यपेक्षते,तत्र षष्ठआ हेतुर्भवति। सन्निहितत्वाच्च। पौत्रप्रभृति तस्येत्येतदेवापेक्षते, ततस्तत्रैव षष्ठीं प्रकल्पयति।यदि तह्र्रपत्यग्रहमसामर्थ्यात् पौत्रप्रभृतेः षष्ठीविपरिणामो भवति, पूर्वसूत्रेऽपि कस्मान्न भवति? तत्र प्रथमाया अनवकाशत्वात्। पूर्वसूत्रे ह्रकृतार्था प्रथमा, ततो न शक्यते तस्याः षष्ठीं विपरिणमयितुम्। इह तु कृतार्था शक्यते षष्ठीभावेन विपरिणमयितुम्। `गाग्र्यायणः` इति। इह युवसंज्ञायां सत्यां **गोत्राद्यून्यस्त्रियाम्** (4.1.94) इति गोत्रप्रत्ययान्ताद्यूनि प्रत्ययो भवति। `तु शब्दोऽवधारणार्थः` इति। कः पुनः संज्ञासमावेशे दोषः कथ्यते? शालङ्केरपत्यं युवा **यञिञोश्च** (4.1.101) इति फक्, पैलस्यापत्यं युवा **अणो द्व्यचः** (4.1.156) इत फिञ्,तयोः **पैलादिभ्यश्च** (2.4.59) इति लुगुच्यते - शालङ्किर्युवा, पैलो युवेति। यदि च गोत्रयुवसंज्ञयोः समावेशः स्यात् तदा शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायां प्राग्दीव्यतीयेऽजादौ प्रत्यये विषयभूते गोत्रादयः **गोत्रेऽलुगचि** (4.1.89) इत्यलुक् स्यात्। ततस्तस्माद्यूनो गोत्रसंज्ञा मा भूदित्यवधारणार्थस्तुशब्दः क्रियते॥ Prakriyasarvasvam ----------------- sutra_text: जीवति तु वंश्ये युवा वंश्ये पित्रादौ जीवति पौत्रादेरपत्यं चतुर्थादि युवसंज्ञं न गोत्रसंज्ञम् ॥ Vartika ------- वृद्धस्य च पूजायाम् ।