41162: अपत्यं पौत्रप्रभृति गोत्रम् ================================== **Padacheda:** अपत्यम् | S | 1 | 1 | पौत्र-प्रभृति | S | 1 | 1 | गोत्रम् | S | 1 | 1 | Sutrartha --------- **पौत्रप्रभृतीनि अपत्यानि गोत्रसंज्ञकानि भवन्ति ।** अनेन सूत्रेण अपत्याधिकारविशिष्टा 'गोत्र' इति संज्ञा पाठ्यते । पौत्रप्रभृतिः यद् अपत्यं, तद् 'गोत्र'संज्ञं भवति - इति अस्य सूत्रस्य आशयः । 'पौत्रप्रभृति' इत्युक्ते पौत्रात् आरभ्य अग्रिमः वंशः - पौत्रः, प्रपौत्रः, प्रप्रपौत्रः - आदयः । उदाहरणमेकं पश्यामश्चेत् स्पष्टं भवेत् - पाण्डोः पुत्रः अर्जुनः । अर्जुनस्य पुत्रः अभिमन्युः । इत्युक्ते , अभिमन्युः पाण्डोः 'पौत्रः' । अतः अभिमन्युः पाण्डोः 'गोत्रापत्यम्' इत्यपि वक्तुं शक्यते (गोत्रसंज्ञकः यः, तस्य 'गोत्रापत्यम्' इति निर्देशः भवति) । अभिमन्योः पुत्रः परीक्षितः, सः पाण्डोः प्रपौत्रः, अतः सः अपि पाण्डोः गोत्रापत्यमेव । तथैव, परीक्षितस्य पुत्रः जनमेजयः अपि पाण्डोः गोत्रापत्यमेव । जनमेजयः तु अर्जुनस्य अभिमन्योः अपि गोत्रापत्यम् । 'गोत्र'संज्ञायाः विषये केचन बिन्दवः ज्ञातव्यः । 1. यत् 'साक्षात्' अपत्यम्, तस्य गोत्रसंज्ञा न भवति । यथा, अर्जुनः पाण्डोः गोत्रापत्यम् न । तथैव, अभिमन्युः अर्जुनस्य गोत्रापत्यम् न । एतादृशं यत् 'साक्षात्' अपत्यम्, तस्य 'अनन्तरापत्यम्' इति काचन संज्ञा व्याख्यानेषु दीयते । अतः 'अर्जुनः पाण्डोः अनन्तरापत्यम्' इत्युच्यते । तथैव, अभिमन्युः अर्जुनस्य 'अनन्तरापत्यम्' । 'यत् साक्षात् अपत्यमस्ति, तत् अनन्तरापत्यम्; यत् पौत्रादयमपत्यम् , तत् गोत्रापत्यम्' इति अस्य आशयः । 2. स्वस्य 'साक्षात् अपत्यस्य पुत्रादयः' एव गोत्रसंज्ञकाः भवन्ति, स्वस्य बन्धोः भगिन्याः वा पुत्रादयः न । यथा, अभिमन्योः पुत्रः परीक्षितः सुभद्रायाः गोत्रापत्यमवश्यमस्ति, परन्तु कृष्णस्य गोत्रापत्यम् न, यतः सः कृष्णस्य स्वस्य पौत्रः नास्ति, अपितु कृष्णस्य भगिन्याः पौत्रः अस्ति । 3. कासुचन स्थितिषु 'गोत्रापत्यम्' इमां संज्ञां बाधित्वा 'युवापत्यम्' इति काचन संज्ञा विधीयते । अस्मिन् विषये **जीवति तु वंशे युवा** (4.1.163) इति अग्रिमसूत्रे विस्तारेण उक्तमस्ति ।यत्र एतादृशी 'युवा'संज्ञा भवति तत्र 'गोत्र'संज्ञायाः बाधः भवति । यथा, परीक्षिते जीविते सति जनमेजयः पाण्डोः 'युवापत्यम्' अस्ति इत्युच्यते । अस्याम् स्थितौ जनमेजयः पाण्डोः गोत्रापत्यम् नास्तीति स्मर्तव्यम् । 'गोत्र'संज्ञायाः प्रयोगः **एको गोत्रे** (4.1.93) तथा **गोत्राद्यून्यस्त्रियाम्** (4.1.94) इत्यत्र कृतः अस्ति । Vasu English Summary -------------------- A descendant being a grandson or a still lower offspring is called गोत्र। Vasu English Translation ------------------------ A descendant being a grandson or a still lower offspring is called गोत्र। When an offspring, with reference to a person, is the son's son of that person or lower than that, it is called *Gotra*. Thus the son of '*Garga*' will be गार्गिः, and the son or grandsons &c of गार्गिः with reference to *Garga* will be गार्ग्यः ॥ Similarly वात्स्यः ॥ Why do we say 'a grandson or a still lower descendant'? The immediate descendants or the son will not be called *Gotra*. Thus कौञ्जिः, गार्गिः ॥ Bhashya ------- अपत्यं पौत्रप्रभृति गोत्रम् (1408) (गोत्रसंज्ञाधिकरणम्) (5314 सूत्रस्य न्यूनताक्षेपे वार्तिकम्॥ 1 ॥) - पौत्रप्रभृतेर्गोत्रसंज्ञायां यस्यापत्यं तस्य पौत्रप्रभृतिसंज्ञाकरणम् - (भाष्यम्) पौत्रप्रभृतेर्गोत्रसंज्ञायां यस्यापत्यविवक्षा तस्य पौत्रप्रभृतेर्गौत्रसंज्ञा भवतीति वक्तव्यम्। गर्गोऽपि हि कंचित्प्रति पौत्रः, कुशिकोऽपि, तत्र मा भूदिति॥ (वार्तिकान्यथासिद्धिपरं भाष्यम्) तत्तर्हि वक्तव्यम्। न वक्तव्यम्। समर्थानां प्रथमाद्वा (4.1.82) इति वर्तते। समर्थानां प्रथमस्य यदपत्यं पौत्रप्रभृतीति विज्ञायते॥ (5315 सिद्धान्तवार्तिकम्॥ 2 ॥) - जीवद्वंश्यञ्ञ्च कुत्सितम् - (भाष्यम्) जीवद्वंश्यं च कुत्सितं गोत्रसंज्ञं भवतीति वक्तव्यम्। गार्ग्यस्त्वमसि जाल्म, वात्स्यस्त्वमसि जाल्म इति। का पुनरिह कुत्सा? पितृतो लोके व्यपदेशवताऽस्वतन्त्रेण भवितव्यम्। य इदानीं पितृमान स्वतन्त्रो भवति स उच्यते गार्ग्यस्त्वमसि जाल्म, वात्स्यस्त्वमसि जाल्म। न त्वं पितृतो व्यपदेशमर्हसीति॥ Kashika ------- पौत्रप्रभृति यदपत्यं तद् गोत्रसंज्ञं भवति। संबन्धिशब्दत्वादपत्यशब्दस्य यस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते। गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः। वात्स्यः। अपत्यमिति व्यपदेशाय पौत्रप्रभृतेः। पौत्रप्रभृतीति किम् ? अन्यस्य मा भूत् — कौञ्जिः। गार्गिः। गोत्रप्रदेशाः — **एको गोत्रे** (४.१.९३) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥ Balamanorama ------------ **अपत्यं पौत्रप्रभृति गोत्रम्** - अपत्यम् । अपत्याधिकारात्सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह — अपत्यत्वेन विवक्षितमिति । एवंच पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसंज्ञेति भावः ।सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ॑ इति कोशतो गोत्रशब्दस्य सन्ततिवाचकत्वात्पुत्रस्यापि गोत्रत्वे प्राप्ते प्रौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननुआत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे॑ इत्यादिकोशादपत्यशब्दस्य पुत्र एव रूढत्वात्कथमम्अपत्यं पौत्रप्रभृती॑ति सामानाधिकरण्यमिति चेत्, मैवम् — अपत्यशब्दो हि नात्मजपर्यायः किंतु पुत्रपौत्रादिसंततिपर्यायः,न पतन्ति नकरे पितरो येन तदपत्य॑मितिपङ्क्तिविंशती॑ति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति 'एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारतादौ जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वादुपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यं, यस्य यः पौत्रादिस्तस्य तद्गोत्रमिति व्याख्यानादित्यलम् । Tattvabodhini ------------- **अपत्यं पौत्रप्रभृति गोत्रम्** - अपत्यवाचकादिति ।तस्यापत्य॑मित्यादिना विहितः प्रत्ययो यथा षष्ठन्तोपग्वादिशब्ददभ्युपगम्यते, तथा अपत्यवाचिकदेवदत्तादिशब्दात्प्रत्ययो भवत्विति शङ्का स्यात्, तद्वारणार्थं प्रथमाद्ग्रहणमावश्यकमिति भावः । ननुउपगोरपत्य॑मिति विग्रहवाक्येऽपत्यवाचकस्याऽप्राथम्येऽपिअपत्यमुपगो॑रिति वाक्ये प्राथम्यात्स्यादेवापत्यवाचकात्प्रत्यय इति चेत् । मैवम् । लक्षणापेक्षं प्राथम्यं नियतत्वादत्राश्रीयते, न तु विग्रहापेक्षमनियतम् । अन्यथाप्रथमादि॑त्येतन्निरर्थकंस्यादिति । षष्ठर्थे मामूदिति । अयमर्थः -यथा इन्द्रो देवता अस्य हविष इति ऐन्द्र॑हविरिति प्रथंमान्तात्प्रत्ययो भवति तथा उपगुरपत्यमस्य देवदत्तस्यऔपगवो देवदत्तः॑देवदत्तोऽपत्यमस्योपगोःदैवदत्तिरुपगु॑रिति माभूदिति । एतच्च कैयटे स्पष्टम्॥ नन्वपवादत्वात्तद्धितः समासं नित्यं बाधेत । न च तद्धितस्य वैकल्पिकत्वात्पक्षे सोऽपि भविष्यतीति वाच्यं,यत्रोत्सर्गापवादौ महाविभाषाया विकल्प्येते, तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते, इतिपारेमध्ये॑इत्यत्र वाग्रहणेन ज्ञापितत्वादित्याशङ्क्याह — अन्यतरस्याङ्ग्रहणानुवृत्तोरिति । जातित्वादिति ।गोत्रं च चरणैः सहेत्येनेने॑ति शेषः । प्राचा तुअणन्तत्वान्ङी॑भित्युक्तम् । तव्द्याख्यातृभिश्चटिड्ढाणञि॑त्यनेने॑त्युक्तम् । तदुभयमपिगोत्राद्यून्यस्त्रियाम्इति सूत्रस्थभाष्यनुरोधेनगोत्रं च चरणै॑रित्यत्र कृत्रिमं गोत्रमेव गृह्रते, न त्वपत्यमात्रमित्याशयेन प्रवृत्तमिति बोध्यमित्याहुः । सूत्रस्थान्महोत्सर्गान्कमेणोदाहरति -आआपत इत्यादि । औत्स इति ।उत्सः प्ररुआवणं वारि प्रवाहो निर्झरो झरः॑इत्यमरः । तस्य टचापत्येन योगस्तुगङ्गेयो भीष्मः॑इतिवति । अपत्यं पौत्रं । नन्वपत्यग्रहणं व्यर्थं, पौत्रादेरपत्यात्वाऽव्यभिचारादित्यत आह — अपत्यत्वेन विवक्षितमिति । विवक्षितमिति किं । वस्तुतः पौत्रप्रभृत्येव यदा शेषत्वेन विवक्ष्यतेगर्गस्येद॑मिति, तदा मा भूदित्याहुः । अन्ये तु — वस्तुतः पौत्रादीनामेव तत्त्वेन विवक्षायां संज्ञा मा भूत्, अपत्यत्वेन विवक्षायामेव यथा स्यादित्येवमर्थं तत् । तेनऔपगव॑इत्यादावप्यणर्थस्य गोत्रसंज्ञा सिद्द्यति । नह्रणः पौत्रत्वादिकं शक्यतावच्चेदकं, किं त्वपत्यत्वमेव । अन्यथा गोत्राधिकारस्थायञाद्यर्थस्यैव गोत्रसंज्ञा स्यादिति । नन्वपत्याधिकारे गोत्रयुवसंज्ञाकरणसामर्थ्यादपत्यमिति लभ्यत एवेति तेनैवोक्तप्रयोजनसिद्धौ किमनेना[त्रा]पत्यग्रहणेनेति चेत् । अत्राहुः — — ॒ते तद्राजाः॑इत्यत्र तच्छब्देनजनपदशब्दात्क्षत्रियादञि॑त्यदिना विहिता येऽञादयस्त एव गृह्यन्ते न तु ततः प्राक्तनप्रत्ययाः, गोत्रयुवसंज्ञाकाण्डेन विच्छिन्नत्वादिति वक्ष्यते । तथा चापत्याधिकारपठनसामर्थ्यस्योपक्षयादपत्यस्याऽसंबन्धशङ्कानिराकरणाय पुनरपत्यग्रहणमिह कृतमिति । पौत्रप्रभृतीति किम् । अनन्तरापत्ये मा भूत् -कोञ्जि; । गार्गिः । न चैवमप्यङ्गिरसः पौत्रे गर्गस्यानन्तरे अतिप्रसङ्ग इति वाच्यं,यस्य पौत्रादि तं प्रत्येव गोत्रसंज्ञे॑ति स्वीकारात् । एवं च गार्गि प्रत्यनन्तरापत्यत्वेन विवक्षायामपि गर्गं प्रति गोत्रत्वं निष्प्रत्यूहमिति स्यादेव गर्गाद्यञिति दिक् । Padamanjari ----------- तद्गोत्रसंज्ञं भवतीति । अपत्यमात्रस्य लोके गोत्रत्वादपत्यविशेषे गोत्रशब्दस्य नियमात्परिभाषेयं युक्ता, न संज्ञेति चेत् ? न; लिङ्गवती परिभाषा भवति, यथा - ठिको गुणवृद्धीऽ इति, विध्यन्तरशेषभूता वा, यथा -'विप्रतिषेधे परं कार्यम्' इति, न चेयं तथा; किञ्च वृद्ध्यादयोऽपि सर्वार्थप्रत्यायनयोग्याः संज्ञिविशेषे शक्त्यवच्छेदेन नियम्यन्ते । अथ च ताः संज्ञास्तथेयमपि भविष्यति । उक्तं च - व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥ वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः । अकृत्रिमो हि सम्बन्धो विशेषणविशेष्यवत् ॥ इति । यदि पौत्रप्रभृतेरपत्यस्य गोत्रसंज्ञा क्रियते, गर्गस्यापि प्राप्नोति, सोऽपि कञ्चित्प्रति पौत्रो भवत्येव, तत्र को दोषः ?'गोत्राद्यौउन्यस्त्रियाम्' इति यूनि प्रत्ययप्रसङ्गः, गार्ग्यादेव तु यूनीष्यते ? नैष दोषः; इहापत्यग्रहणं न कर्तव्यम्, पौत्रस्यापत्यत्वातत्प्रभृतेरपत्यस्यैव ग्रहणं सिद्धम्, तत् क्रियते - अपत्यरूपेण प्रतिभासामानस्य यथा स्यात्, वस्तुतोऽपत्यस्य मा भूदित्येवमर्थम् । अतोऽपत्यरूपेण प्रतिभासमानस्य गर्गस्य न भविष्यति । ननु चासत्यप्यपत्यग्रहणे पौत्रप्रभृतिरूपेण प्रतिभासमानस्य संज्ञाया विज्ञानातेन रूपेणाप्रतिभासमानस्य मर्गस्य न भविष्यतीति किमपत्यग्रहणेन ! यद्येवम्, औपगवस्यापि न स्यात्, सोऽपि ह्यपत्यरूपेण प्रतिभासते, न तु पौत्रप्रभृतिरूपेण, अपत्यमात्रे प्रत्ययविधानाद् गार्ग्यादेरेव तु स्याद् - यत्र गोत्र एव प्रत्ययः । कुतश्चायमर्थो लभ्यते - पौत्रप्रभृतिरूपेण प्रतिभासमानस्येति ? तद्ग्रहणसामर्थ्यादिति चेत्, सर्वस्यापि यत्किञ्चित्प्रतिवस्तुतः पौत्रप्रभृतित्वाव्यभिचारात् पौत्रप्रभृतिग्रहणं न कर्तव्यं भवति । तद्ग्रहणसामर्थ्यादयमर्थो लभ्यत इति ? तन्न; संज्ञिनिर्देशार्थत्वादचेतनव्यावृत्यर्थत्वाच्च ।'गोत्रम्' इत्येतावति ह्युक्ते कस्य संज्ञा स्यात्, रथादीनां च वस्तुतोऽपि पौत्रप्रभृतित्वं नास्ति । अतो वस्तुतः पौत्रप्रभृतेर्गर्गस्य मा भूत्, अपत्यरूपेण प्रतिभासमानस्य यथा स्यादित्येवमर्थं त्वपत्यग्रहणं कर्तव्यम् । सम्बन्धिशब्दत्वाच्च पौत्रप्रभृत्यपत्यशब्दयोर्यं प्रति पौत्रप्रभृतित्वमपत्यत्वं च तमेव प्रति गोत्रसंज्ञा विज्ञायते । तेनाङ्गिरसः पौत्रे गर्गस्यानन्तरे न भवति'गर्गादिभ्यो यञ्' । तदेतत्सर्वमुक्तम् । सम्बन्धिशब्दत्वादित्यादि । यस्य यदपत्यमिति । प्रतिभासत इति भावः । तदयमत्र सूत्रार्थः - वस्तुतः पौत्रप्रभृतिरपत्यरूपेणं प्रतिभासमानोऽर्थो यं प्रत्यपत्यरूपेण प्रतिभासते यं च प्रति वस्तुतः पौत्रप्रभृतिः, तं प्रति गोत्रसंज्ञ इति । अपत्यमिति व्यपदेशायेति । संज्ञिन इति शेषः । अपत्यरूपेण प्रतिभासमानस्य संज्ञिनो व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । इह कस्मान्न भवति - गर्गापत्यस्य तृतीयादेरपत्यमिति, अत्र हि गर्गापत्यशब्देन गर्गं प्रत्यपत्यरूपेण प्रतिभासमानस्य वस्तुतः पौत्रप्रभृतेर्गर्गं प्रति गोत्रसंज्ञायां सत्यां गर्गस्य चतुर्थे जीवद्वंश्ये'गोत्राद्यौउनि' इति गर्गापत्यशब्दात्प्रत्ययः प्राप्नोति ? नैष दोषः; संज्ञाप्रकरण एवास्मिन्कर्तव्येऽपत्यप्रत्ययेषु विधीयमानेषु मध्ये संज्ञाकरणं प्रत्ययवाच्यस्यापत्यस्य परिग्रहार्थम् । यदिदं'तस्यापत्यम्' इत्यारभ्य प्रत्ययार्थत्वेन निर्दिष्टमपत्यं तद्गोत्रसंज्ञमिति, तेनापत्यशब्देन प्रतिभासमानस्यापत्यस्य संज्ञा न भविष्यति । ननु च'ते तद्राजाः' इत्यत्र तच्छब्देनाजादीनामेव परिग्रहो यथा स्यात्पूर्वेषां मा भूदिति मध्ये संज्ञाकरणं स्यात् । यद्येतावत्प्रयोजनं स्याद्, ठञादयस्तद्राजाःऽ इत्येव ब्रूयात्, तस्मादुक्तमेव साक्षात्प्रयोजनमस्मिन् प्रकरणे संज्ञाकरणस्य । स्थिते त्वेवमुक्तमपि प्रयोजनं भवत्येव, अत एव तत्र वक्ष्यति - गोत्रयुवसंज्ञा काण्डेन व्यवहितत्वादिति ॥ Nyaas ----- प्रभृतिशब्द आदिशब्दस्यार्थे। पौत्रः प्रभृतिर्यस्येति बहुव्रीहिः। यदि पौत्रप्रभृति यदपत्यं तद्गोत्रसंज्ञं भवति, गर्गस्यापि गोत्रसंज्ञा प्राप्नोति, सोऽपि कञ्चित् प्रति पौत्रो भवत्येव। सत्याञ्च गोत्रसंज्ञायां गोत्रशब्दादनन्तरापत्ये प्रत्ययो न प्राप्नोतीति चोद्यमाशङ्क्याह - `सम्बन्धिशब्दत्वात्` इत्यादि। गोत्रसंज्ञा ह्रपत्यस् पोत्रप्रभृतेर्विधीयते। ते च यस्चापत्यमिति सम्बन्धिशब्दोऽसौ नियोगतोऽपत्यवन्तमपेक्षत। तेन तस्य यदपत्यं तदपेक्षया गोत्रसंज्ञा विधीयते। न च यस्य गर्गः पोत्रस्तस्यासौ गर्गोऽप्तयमिति शक्यते व्यपदेष्टुम् ; अपत्यत्वस्य तत्राप्रतिभासनात्। अप्रतिभासनं पुस्तस्तस्य द्वतोऽविवक्षितत्वात्। यदपि हि तत्रापत्यत्वं तदप्यविवक्षितस्वरूपेण नाख्यातम्, ततोऽपत्यस्य पोत्रप्रभृतेर्विधीयते। अतः स्वरूपेण प्रतिभासमानो न भवति गर्गस्य गोत्रसंज्ञायाः प्रसङ्गः।`गर्गस्य पौत्रप्रभृति` इति। गर्गसम्बन्धि पौत्राद्यपत्यं गाग्र्य इति गोत्रसंज्ञायां सत्यां **गोत्रे कुञ्जादिभ्यश्च्फञ्** (4.1.98) इत्यतो गोत्र इत्यनुवर्तमाने **गर्गादिभ्यो यञ्** (4.1.105) इतिगोत्रेऽपत्ये यञ् भवति। `अपत्यमिति व्यपदेशोऽयम्` इति। संज्ञिन इति शेषः। तच्चोत्तरसूत्र इत्यभिप्रायः। इह तु पौत्रस्यापत्यत्वाव्यभिचारात् तदपत्यमेव प्रत्ययान्तैः विज्ञायत इति नार्थः संज्ञिव्यपेदशार्थेनापत्यग्रहणेन। उत्तरसूत्रे तु पौत्रप्रभृत्येतत् षष्ठन्तं विपरिणम्य पौत्रप्रभृतेः सम्बन्धिनोऽपत्यस्य युवसंज्ञेष्यते, सा चापत्यग्रहणमन्तरेण न लभ्यते। अन्यदपि ह्रपत्यात् पौत्रप्रभृतेः सम्बन्ध्यस्ति, तत्र न ज्ञायते - कस्येयं संज्ञेति? अतस्तत्र संज्ञिनो व्यपदेशाय युक्तमपत्यग्रहणमित्येके।इह तु संज्ञिव्यपेदशार्थं युक्तमपत्यग्रहणं पश्यामः। असति ह्रपत्यग्रहणे सम्ब्नधिशब्दत्वादपत्यशब्दस्येत्यादि यदुक्तं चोद्यनिरासाय तदघटमानं स्यात्। ततश्च गर्गस्यापि गोत्रसंज्ञा स्यादेव। तस्मादिहापि संज्ञिव्यपेशायापत्यग्रहणं कर्तव्यमेव, अपत्यरूपेण प्रतिभासमानस्य संज्ञा यथा स्यात्।`अन्यस्य मा भूत्` इति। ननु च तस्मादेव तत्प्रकृतमपत्यग्रहणं तदेव संज्ञिव्यदेशाय भविष्यति, तत् किमपरेणापत्यग्रहणेन? नैतदस्ति; तद्धि प्रत्ययार्थतया प्कृतं कथं संज्ञिनो व्यपदेशाय स्यात्; स्यादेतत् यद्यपि तत्प्रत्ययार्थे कृतं तथापि तस्येहानुवृत्तस् तत्प्रयोजनं नास्तीत्यतः संज्ञिव्यपदेशाय विज्ञास्यत इति?एतच्च नास्ति; उत्तरार्थं ह्रधिकाराणामनुवृत्तिर्दृश्यते,व्याख्यानञ्चैवं कर्तव्यं स्यात्, व्याख्यानाच्च वचनमेव लघुतरमित्यपत्यग्रहणं कर्तव्यम्। `कौञ्जि-, गार्गिःर` इति। अनन्तरस्य गोत्रसंज्ञाया अभावात् **गोत्रे कुञ्जादिभ्यश्च्फञ्** (4.1.98) , **गर्गादिभ्यो यञ्** (4.1.105) इति यश्च गोत्रे विधीयमानो न स भवति॥ Vartika ------- यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् ।