41052: बहुव्रीहेश्चान्तोदात्तात् ================================ **Padacheda:** बहुव्रीहेः | S | 5 | 1 | च | S | 0 | 0 | अन्तोदात्तात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ङीष् is used in the feminine after that बहुव्रीहि समास which ending with a word formed by the affix क्त has an acute accent on the last syllable. Vasu English Translation ------------------------ The affix ङीष् is used in the feminine after that बहुव्रीहि समास which ending with a word formed by the affix क्त has an acute accent on the last syllable. The word क्तात् of the last aphorism governs this also. This *sutra* applies to those *Bahuvrihi* compounds in which the first member is a *svanga* word. But if the antecedent member is not a *svanga word*, then the application of the rule is optional. As शंखभिन्नी 'having a rent on the temporal bone', ऊरुभिन्नी 'having a rent on the thigh'. गलकोत्कृन्नी (गलमुत्कृत्तमस्या), केशलूनी ॥ By (2.2.36) * Vart * जातिकालसुखादिश्यः परवचनम्, the *Nishtha* stands in the second place, otherwise by (2.2.36) it ought to have formed the first member of the compound. The words शंख &c. are *jati* words, and by (6.2.170), the acute is on the final. Why do we say "after a *Bahuvrihi* compound ?" Observe पादपतिता which is an Ablative *Tatpurusha* compound (2.2.38). The compounding is by (2.1.32), and it has acute on the final by (6.2.144). Vart:- Prohibition must be stated in the case of the participle जात 'born', which is also acutely accented on the final. Thus दन्तजाता 'a female who has cut her teeth;' स्तनजाता 'a female whose breast has been developed'. See (2.2.36) *Vart*. Vart:- In the case of words पाणिगृहीती &c, the affix is employed in certain senses only. Thus पाणिगृहीती 'a wife'; (अग्निसाक्षिकं यस्याः पाणिर्गृह्यते); but पाणिगृहीता 'a woman whose hands have been taken, but not before the sacred fire, a concubine &c.' Vart:- Exception must be stated in the case of compounds, the antecedent member of which is any one of the following words :- बहु, नञ, सु, words denoting time, सुख &c. Thus बहुकृता, अकृता, सुकृता, मासजाता, संवत्सरजाता, सुखजाता or दुःखजाता &c. *Bahuvrihi* compounds get acute accent on the final syllable when they fall under the rules (6.2.170) and the following. Bhashya ------- बहुव्रीहेश्चान्तोदात्तात् (1306) (ङीषधिकरणम्) (5188 अतिव्याप्तिवारकवार्तिकम्॥ 1 ॥) - अन्तोदात्ते जातप्रतिषेधः - (भाष्यम्) अन्तोदात्ते जातस्य प्रतिषेधो वक्तव्यः। दन्तजाता, स्तनजाता॥ (5189 नियमवार्तिकम्॥ 2 ॥) - पाणिगृहीत्यादीनां विशेषे - (भाष्यम्) पाणिगृहीत्यादीनां विशेष इति वक्तव्यम्। पाणिगृहीती भार्या चेत्। यस्या हि यथाकथंचित्पाणिर्गह्यते पाणिगृहीता सा भवति॥ (5190 अनियमवार्तिकम्॥ 3 ॥) - बहुलं तणि - (भाष्यम्) बहुलं तणीति वक्तव्यम्। किमिदं तणीति? संज्ञाच्छन्दसोर्ग्रहणम्। किं प्रयोजनम्? (5191 प्रयोजनवार्तिकम्॥ 4 ॥) - प्रबद्धविलून्याद्यर्थम् - (भाष्यम्) प्रबद्धविलूनी, प्रबद्धविलूना॥ (5192 अतिव्याप्तिवारकवार्तिकम्॥ 5 ॥) - अन्तोदात्तादबहुनञ्ञ्सुकालसुखादिपूर्वात् - (भाष्यम्) अन्तोदात्तादबहुनञ्ञ्सुकालसुखादिपूर्वादिति वक्तव्यम्॥ बहु -बहुकृता। नञ्ञ् -अकृता। सु -सुकृता। काल -मासजाता, संवत्सरजाता। सुखादि -सुखजाता, दुःखजाता, क्षिप्रजाता॥ (5193 अन्तोदात्तेतिवार्तिकप्रत्याख्यानवार्तिकम्॥ 6 ॥) - जातिपूर्वाद्वा - (भाष्यम्) अथ वा जातिपूर्वादिति वक्तव्यम्॥ Kashika ------- क्तादित्येव। बहुव्रीहिर्योऽन्तोदात्तः, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। स्वाङ्गपूर्वपदो बहुव्रीहिरिहोदाहरणम्। **अस्वाङ्गपूर्वपदाद्०** (४.१.५३) विकल्पं वक्ष्यति। शङ्खभिन्नी। ऊरुभिन्नी। गलोत्कृत्ती। केशलूनी। बहुव्रीहेरिति किम्? पादपतिता॥ अन्तोदात्ताज् जातप्रतिषेधः॥ दन्तजाता, स्तनजाता॥ पाणिगृहीत्यादीनामर्थविशेषे॥ पाणिगृहीती भार्या। यस्यास्तु कथंचित् पाणिर्गृह्यते पाणिगृहीता सा भवति॥ अबहुनञ्सुकालसुखादिपूर्वादिति वक्तव्यम्॥ बहुकृता। नञ् — अकृता। सु — सुकृता। काल — मासजाता। संवत्सरजाता। सुखादिः — सुखजाता। दुःखजाता। **जातिकालसुखादिभ्योऽनाच्छादनात्०** (६.२.१७०) इत्येवमादिना बहुव्रीहेरन्तोदात्तत्वम् ॥ Siddhanta Kaumudi ----------------- बहुव्रीहेः क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् ॥ (वार्तिकम्) ॥ तेन बहुनञ्सुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता । (वार्तिकम्) ॥ दन्तजाता । (वार्तिकम्) ॥ पाणिगृहीतान्या ॥ Balamanorama ------------ **बहुव्रीहेश्चान्तोदात्तात्** - बहुव्रीहेश्च । क्तादिति अत इति चानुवर्तते । तदाह — बहुव्रीहेरिति । क्तान्तादिति । क्तान्तान्तादित्यर्थः । तेनेति । जातिपूर्वादिति विशेषणेन बह्वादिपूर्वान्न ङीषित्यर्थः ।सुखादिभ्यः कर्तृवेदनाया॑मित्यत्र सुखादिगणः पठितः । जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः॑ इति,नञ्सुभ्या॑मितिबहोर्नञ्वदुत्तरपदभूम्नी॑ति च क्तान्तबहुव्रीहावन्तोदात्तविधायकानि । अत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वस्यान्तोदात्तत्वेऽप्यर्थात् पर्युदास इति भावः ।ऊरुभिन्नीति । ऊरू भिन्नौ असंयुक्तौ यस्या इति विग्रहः । 'निष्ठा' इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति,जातिकालसुखादिभ्यः परा निष्ठा वाच्या॑ इति वार्तिकात् । 'जातिकालसुखादिभ्यः' इत्यादिसूत्रेणान्तोदात्तमिदम् । जातिलक्षणं तुजातेरस्त्रीविषया॑दित्यत्र वक्ष्यते । बहुकृतेति । बहवः कृता यायेति विग्रहः । अकृता, सुकृता, मासयाता, सुखयाता, दुःखयाता इति च भाष्ये प्रत्युदाहृतम् ।जातान्तान्न-इति वार्तिकम् ।बहुव्रीहेश्चे॑त्युक्तो ङीष् नेत्यर्थः । दन्तजातेति । दन्ता जाता यस्या इति विग्रहः । ऊरुभिन्नीतिवत् परनिपातः ।पाणिगृहीती भार्यायामिति । इदमपि वार्तिकम् । विधिवदूढा भार्या , तदस्यां विद्यमानादेव पाणिगृहीतशब्दान्ङीषित्यर्थः । विवाहकाले विधिवत् पाणिर्गृहीतो यस्या इति विग्रहः । अन्येति । दास्यादिरित्यर्थः । Tattvabodhini ------------- **बहुव्रीहेश्चान्तोदात्तात्** - तेन बह्विति । अयं भावः — ॒बहोर्नञ्वदुत्तरपदभूम्नि॒॑नञ्सुभ्यां॒॑जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः॑इति ह्रन्तोदात्तविधायकानि । तत्रजातिपूर्वा॑दित्युक्ते बह्वादिपूर्वकस्यांर्थाद्व्युदास इति ।जातिपूर्वादिति वक्तव्यम् । सुखादिपूर्वान्नेति ।सुखादिभ्यः कर्तृवेदनाया॑मित्यत्र ये पठिताः सुखदुःखकृच्छ्रादयस्तेऽत्र गृह्यन्ते । सुखायाता । सुखं दुःखं वा आयातं प्राप्तमनयेति विग्रहः ।अस्वाङ्गपूर्वपदाद्वे॑ति विकल्पस्य वक्ष्यमाणत्वादिह स्वाङ्गपूर्वपद एवोदाहरणामाह — ऊरुभिन्नीति । भिन्नौ ऊरु यस्या इति बहुव्रीहौस भिन्नशब्दस्यनिष्ठे॑ति पूर्वनिपाते प्राप्तेजातिकालसुखादिभ्यः परा निष्ठा वाच्ये॑ति परनिपातः । बहुकृतेति । बहूनि कृतानि यया सा ।जातान्तान्न । जातान्तान्नेति ।वर्णादनुदात्ता॑दितिवत् — -॒बहुव्रीहेरुदात्ता॑दित्येव सिद्धेऽन्तग्रहणं नित्यत्वप्रतिपत्त्यर्थम् ।वा जाते॑इति तु वैकल्पिक उदात्तो न तु नित्यमिति भावः ।पाणिगृहीति भार्यायाम् । पाणिगृहीतीति । यस्याः पाणिरग्निसाक्षिकं गृह्रते तस्यां वाच्यायां पाणिगृहीतशब्दान्ङीष्वक्तव्य इत्यर्थः । अन्येति । कौतुकादिना पाणिर्गृहीतो यस्या दास्यादेः सापाणिगृहीता॑ । Padamanjari ----------- बहुव्रीहिर्योऽन्तोदाक्त इति । अत्र'क्तात्' इत्यनुवृत्तिसामर्थ्यात्प्रत्ययग्रहणपरिभाषा, कृद्ग्रहणपरिभाषा च न प्रवर्तते इति बहुव्रीहेः क्तान्तत्वम् । शङ्खभिन्निति ।'निष्ठा' इति पूर्वनिपातो न भवति;'जातिकालसुखादिभ्यः परवचनम्' इति वचनात् । शङ्खादयो हि जातिवचनाः, अत एव'जातिकालसुखादिभ्यः' इत्यन्तोदातत्वं भवति । गलोत्कृतीति ।'कृती छेदने' , उत्पूर्वात् क्तः । गलमुत्कृतमस्या इति विग्रहः । पादपतितेति ।'कर्तृकरणे कृता बहुलम्' इति समासः, थाथादिस्वरेणान्तोदातत्वम् । अन्तोदाताज्जातप्रतिषेध इति । अन्तोदाताद्वहुब्रीहेर्ङीष्विधाने जातशब्दान्तात्प्रतिषेधो वक्तव्यः, स त्वन्तग्रहणादेव सिद्धः । कथम् ? इहान्तग्रहणं न कर्तव्यम्, वर्णादनुदातादितिवद् उदातान्तादिति विज्ञास्यते, तत् क्रियते नित्ययोगे यथा बहुव्रीहिर्विज्ञायेत । दन्तजातादौ तु'वा जाते' इति विकल्पेनान्तोदातत्वम् । पाणिगृहीत्यादीनां विशेष इति । सिद्धये इति शेषः । अग्निसाक्षिकं यस्याः पाणिर्गृह्यते सा पाणिगृहीतीति भवति । कथञ्चिदिति । यथोक्तात्प्रकारादन्येन प्रकारेणेत्यर्थः । अबहुनञित्यादि । बह्वादिपूर्वपदाद्वहुव्रीहेर्ङीष् न भवतीति वक्तव्यमित्यर्थः । बहुकृतेति । बहुनि कृतान्यनयेति विग्रहः,'बहोर्नञ्वदुतरपदभूम्नि' इत्यन्तोदातत्वम् । अकृता, सुकृतेति । न विद्यते कृतमनया, शोभनं कृतमनयेति विग्रहः,'नञ्सुभ्याम्' इत्यन्तोदातत्वम् । मासजातेति । मासो जातोऽतीतोऽस्याः । सुखं जातं प्राप्तमनया, दुः खं जातमनयेति विग्रहः । सुखादयः'सुखादिभ्यः कर्तृवेदनायाम्' इत्यत्र पठिता गृह्यन्ते । अथ वा - बहुव्रीहेश्च जातिपूर्वादिति वक्तव्यम्, बहुव्रीहावन्तोदातनिमितेष्वन्येषु प्रतिषिद्धेषु जातिरेवान्तोदातनिमितं क्तान्तस्यावशिष्यते इति जातिग्रहणमेवात्र कर्तव्यमित्यर्तः ॥ Nyaas ----- `शङ्खभिन्नी` इति। `रदाभ्याम्` (8.2.42) इति नत्वम्। निष्ठान्तस्य `निष्ठा` (2.2.36) इति पूर्वनिपाते प्राप्ते `जातिकालसुखादिभ्यः परवचनम्` (वा।116) इति स न भवति। शङ्खादिशब्दा हि जातिवचनाः। अत एव हि **जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः** (6.2.170) इत्यन्तोदात्तत्वं भवति। `गलकोत्कृती` इति। `कृती छेदने` (धातुपाठः-1435) इत्यस्मात् क्तः। `केशलूनी` इति। केशान् लुनातीति। **ल्वादिभ्यः** (8.2.44) इति नत्वं चोदयति।`पादपतिता` इति। **कर्तृकरणे कृता बहुलम्** (2.1.32) इति तत्पुरुषसमासेऽन्तोदात्तत्वम्।`अन्तोदात्ताज्जातप्रतिषेधः` इति। अन्तोदात्ताद्बहुव्रीहेर्ङीषो विधाने जातशब्दान्तात् प्रतिषेधः, स चान्तग्रहणादेव लभ्यत इति न वक्तव्यम्। इहान्तग्रहणं न कर्तव्यमेव, विनाऽपि तेन यथा `वर्णाअदनुदात्तात्` (4.1.39) इत्यत्रानुदात्तान्तादिति विज्ञायते, तथेहाप्यन्तोदात्तन्तादिति विज्ञास्यते? तदेवमर्थं क्रियते - अन्तोदात्त एव यो नित्यं बहुव्रीहिस्ततो यथा स्यात्, विकल्पेन योऽन्तोदात्तस्ततो मा भूदिति। इह च दन्ताजाता, स्तनजातेत्यत्र **वा जाते** (6.2.171) इति विकल्पेनान्तोत्तत्वम्, अतोऽयं विधिर्न भविष्यति। अथ वा - उत्तरसूत्रे वाग्रहणमुभयोरपि योगयोः शेषः, व्यवस्थितविभाषा च, तेन जातशब्दान्तान्न भविष्यति। अस्मस्तु व्याख्यानेऽन्तग्रहणं विस्पष्टार्थमेवेति वेदितव्यम्।`पाणिगृहीत्यादीनामर्थविशेषे`इति। `सिद्धये` इति शेषः। पाणिगृहीतीत्यादीनां सिद्ध्यर्थं विशेष एव ङीब्भवति, न सर्वत्र। एतदपि व्यवस्थितविभाषया लभ्यते। विशेषस्तु पाणिग्रहणस्य वेदितव्यः। आग्निसाक्षिपूर्वकं भार्यार्थं यस्या पाणिग्रहणं क्रियते सा पाणिगृहीतीति भवति। `यथाकथञ्चित्` इति। यथोक्तात् प्रकारादन्येन केनापि प्रकारेणेत्यर्थः।`अबहुनञ्` इत्यादि। बह्वादिपूर्वान्ङीष् न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तस्यैव वाग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। `जातिकालसुखादि` इत्यादि। `बहुकृते` इत्यत्र **बहोर्नञ्वदुत्तरपदभूम्नि** (6.2.175) इत्यन्तोदात्तत्वम्। `अकृता, सकृता` इत्यत्र `नञ्सुभ्याम्` इति। `मासजातः` इत्यादिषु **जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः** (6.2.170) इति॥ Praudhamanorama --------------- **तेन बह्विति।** अयं भावः— 'बहोर्नञ्वदुत्तरपदभूम्नि' 'नञ्सुभ्याम्' 'जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमित-प्रतिपन्नाः' इति ह्यन्तोदात्तताविधायकानि। तत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वकस्यार्थाद् व्युदास इति। अस्वाङ्गपूर्वपदाद्विकल्पस्य वक्ष्यमाणत्वादिह स्वाङ्गपूर्वपदमेवोदाहरणमित्याह— **जातान्तादिति।** 'वर्णादनुदात्तात्' इतिवद् 'बहुव्रीहेरुदात्तात्' इत्येव सिद्धेऽन्तग्रहणं नित्यत्वप्रतिपत्त्यर्थम्। 'वा जाते' इति तु वैकल्पिक उदात्तो न तु नित्य इति भावः। Vartika ------- जातान्तान्न ।