41047: भुवश्च ============= **Padacheda:** भुवः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ङीष् is always used in the छन्दस् (Vedas) in forming the feminine after the word भु। Vasu English Translation ------------------------ The affix ङीष् is always used in the छन्दस् (Vedas) in forming the feminine after the word भु। Thus विभ्वी, प्रभ्वी, सुभ्वी, शम्भ्वी ॥ But why not so in the case of स्वयभूः? Because it ends in long ऊ, while विभ्वी &c. are feminine of विभु &c. ending in short उ ॥ In fact the word उतः "after a word ending in short उ" of *Sutra* (4.1.44) governs this also. The word भुवः is the ablative case of भु irregularly formed by the substitution of उवङ्; this form being confined to *sutras* only. Kashika ------- छन्दसि विषये स्त्रियां भुवो नित्यं ङीष् प्रत्ययो भवति। वि॒भ्वी (ऋ० ५.३८.१) च। प्र॒भ्वी (ऋ०१.१८८.५) च। संभ्वी च। इह कस्माद् न भवति — स्वयम्भूः? उत इति तपरकरणमनुवर्तते। ह्रस्वादेवेयं पञ्चमी। भुव इति सौत्रो निर्देशः॥ Siddhanta Kaumudi ----------------- ङीष् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसंभ्य (SK3160) इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः । (वार्तिकम्) ॥ ङीषो लित्त्वामानुक् चागमः । लित्स्वरः । रथीरभून्मुद्गलानी (र॒थीर॑भून्मुद्ग॒लानी॑) ॥ Padamanjari ----------- विभ्वी, प्रभ्वीति ।'विप्रसंभ्यो ड्वसंज्ञायाम्' इति डुप्रत्ययान्ताद् ङीष् । स्वयंभूरिति । भवतेः क्विप् । ह्रस्वादेवेयमिति । यद्येवं'घेर्ङिति' इति गुणे कृते'भोः' इति निर्देशः प्राप्नोति तत्राह - सौत्रोऽयं निर्देश इति । गुणस्यैव कृतस्य छान्दस उवङदेश इत्यर्थः ॥ Nyaas ----- `प्रभ्वी` इत्यादि। `भुवः संज्ञान्तरयोः` (3.2.179) इत्यतः `भुवः` इत्यनुवर्तमाने `विप्रंशभ्यो ड्वसंज्ञायाम्` (3.2.180) इतिप्रत्ययः, तदन्तान्ङीष्। `स्वयम्भूः` इति। भवतेः क्विबन्तस्य रूपम्। ननु च `भुवः` इति भूशब्दाद्दीर्घादियं पञ्चमी, , ततश्च दीर्घादेव प्रत्ययेन भवितव्यम्, न ह्रस्वादित्यत आह - `ह्रस्वादेवेयं पञ्चमी ` इति। तर्हि `भुवः`इति निर्देशो नोपपद्यते, **घेर्ङिति** (7.3.111) इति गुणे कृते `भोः` इति निर्देशेन भवितव्यम्? इत्यत आह - `सौत्रो निर्देशः`इति। छन्दसि वर्णव्यत्यय उक्तः। तेन तस्य गुणेऽकृत उवङादेशः कृत इति दर्शयति॥ Prakriyasarvasvam ----------------- उदन्तात् भुवश्छन्दसि नित्यं ङीप् । विभ्वीः । प्रभ्वीः । ‘मुद्गलाच्छन्दस्यानु- गागमो ङीप् च्लिङ् वाच्यः’ (वा. ४-१-४९) रथीरभून्मुद्गलानी) । क्तान्ता- दन्तोदात्ताद् बहुव्रीहेर्ङीष् विधाने ‘बहुलं संज्ञाछन्दसोरिति वाच्यम् (वा. ४-१- ५२) । प्रवृद्धा विलूना च प्रवृद्धविलूनीत्यबहुव्रीहावपि ।