41009: टाबृचि ============= **Padacheda:** टाप् | S | 1 | 1 | ऋचि | S | 7 | 1 | Sutrartha --------- **'पाद' इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण विद्यते, तेन समस्तपदेन वेदस्य ऋचः निर्देशः भवति चेत् तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः भवति ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु **टाप्** इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **येन समस्तपदेन वेदस्य ऋचः निर्देशः क्रियते, तस्य अन्ते "पाद" इति शब्दः विद्यते चेत् तस्मात् स्त्रीत्वं द्योतयितुम् **पादोऽन्यतरस्याम्** (4.1.8) इत्यनेन विकल्पेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा टाप्-प्रत्ययः एव भवति** — इति अस्य सूत्रस्य अर्थः । यथा — 1. "द्वौ पादौ अस्याः ऋचः" इत्यत्र **अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण टाप्-प्रत्ययः भवति । प्रक्रिया इयम् — .. code-block:: text द्वौ पादौ अस्याः ऋचः → द्वि + पाद + टाप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः । **पादोऽन्यतरस्याम्** (4.1.8) इति ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा **टाबृचि** (4.1.9) इति टाप्-प्रत्ययः] → द्वि + पाद् + आ [**संख्यासुपूर्वस्य** (5.4.140) इति पाद-शब्दस्य अकारस्य लोपः] → द्वि + पद् + आ [**पादः पत्** (6.4.130) इति पाद्-शब्दस्य पद्-आदेशः] → द्विपदा ऋक् एवमेव "त्रयः पादाः अस्याः ऋचः = त्रि + पाद + टाप् → त्रिपदा ऋक्" इति शब्दः अपि सिद्ध्यति । 3. "चत्वारः पादाः अस्याः ऋचः" इत्यत्र प्रक्रिया इयम् — .. code-block:: text चत्वारः पादाः अस्याः ऋचः → चतुर् + पाद + टाप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः ।**पादोऽन्यतरस्याम्** (4.1.8) इति ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा **टाबृचि** (4.1.9) इति टाप्-प्रत्ययः] → चतुर् + पाद् + आ [**संख्यासुपूर्वस्य** (5.4.140) इति पाद-शब्दस्य अकारस्य लोपः] → चतुर् + पद् + आ [**पादः पत्** (6.4.130) इति पाद्-शब्दस्य पद्-आदेशः] → चतुः + पदा [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → चतुष्पदा [**इदुदुपधस्य चाप्रत्ययस्य** (8.3.41) इति षत्वम्] → चतुष्पदा ऋक् **बाध्यबाधकभावः** प्रकृतसूत्रं **पादोऽन्यतरस्याम्** (4.1.8) इति सूत्रेण प्राप्तस्य ङीप्-प्रत्ययस्य अपवादरूपेण प्रवर्तते । तत्र **पादोऽन्यतरस्याम्** (4.1.8) इत्यनेन यद्यपि वैकल्पिकः ङीप्-प्रत्ययः विधीयते, तर्ह्यपि प्रकृतसूत्रे तादृशं वैकल्पिकविधानं नास्ति । अत्र निर्दिष्टः टाप्-प्रत्ययः नित्यमेव विधीयते, अतः "द्वौ पादौ अस्याः ऋचः" इत्यत्र "द्विपदा ऋक्" इत्येव प्रयोगः भवति । पाद-शब्दान्त-समस्तपदेन ऋचः निर्देशे कर्तव्ये स्त्रीत्वं द्योतयितुम् अवश्यं प्रकृतसूत्रस्य प्रयोगः करणीयः । Vasu English Summary -------------------- The affix ङीप् is used in the feminine after a प्रातिपदिक (Nominal Stem) ending with the word पाद् when the word denotes a verse of the ऋग्वेद। Vasu English Translation ------------------------ The affix ङीप् is used in the feminine after a प्रातिपदिक (Nominal Stem) ending with the word पाद् when the word denotes a verse of the ऋग्वेद। This debars ङीप् ॥ Thus द्विपदा ऋक् 'a *Rik* verse consisting of two quarter verses'; similarly त्रिपदा ऋक्, चतुष्पदा ऋक् ॥ Why do we say "when denoting a ' *Rik*' verse" ? Observe द्विपदी देवदत्ता '*Devadatta* (a woman) having two feet'. Kashika ------- पाद इत्येव। ऋचीत्यभिधेयनिर्देशः। ऋचि वाच्यायां पादन्तात् प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। ङीपोऽपवादः। द्विपदा ऋक्। त्रिपदा ऋक्। चतुष्पदा ऋक्। ऋचीति किम्? द्विपदी देवदत्ता॥ Siddhanta Kaumudi ----------------- ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । न षट्स्वस्रादिभ्यः (SK308) ॥ पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षट् (SK369) इति षट्संज्ञां प्रति न लोपः सुप्स्वर (SK353) इति नलोपस्यासिद्धत्वात् न षट्स्वस्रादिभ्यः (SK308) इति न टाप् ॥ Balamanorama ------------ **टाबृचि** - टाबृचि । पादन्तादिति ।प्रातिपदिका॑दिति शेषः ।पादोऽन्यतरस्या॑मित्यतोऽनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः ।पादोऽन्यतरस्या॑मिति ङीपोऽपवादोऽयम् । द्विपदा ऋगिति । द्वौ पादौ यस्या इति विग्रहः । एकपदेति । एकः पाटो यस्या इति विग्रहः । उभयत्रापि टापि,पादः पत् ।ङ्याप्प्रातिपदिकात् इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दमवष्टभ्य प्रत्याख्यातमेतत् । नच ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्त्ये एतत्सूत्रमिति वाच्यम्, एतद्भाष्यप्रामाण्येन तथाविधप्रयोगस्याऽपीष्टत्वादित्यसम् । न षडिति । इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम् । पञ्चेति । इहान्तरङ्गत्वान्नन्तलक्षणङीपि प्राप्ते षट्त्वान्निषिद्धे 'षड्भ्यो लुक्' इति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वसंज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात् । ननुन षट्स्वरुआआदिभ्यः॑ इति न टाबित्यन्वयः ।अदन्तलक्षणष्टा॑बिति शेषः । नान्तलक्षणङीपि प्रतिषिद्दे सति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वस्संज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात् । ननुन षट्स्वरुआआदिभ्यः॑ इत्यत्र सत्यामपि टाबनुवृत्तौ कथमिह षट्संज्ञानिबन्धस्तन्निषेधः, नलोपे कृते षट्संज्ञाविरहात् । नच टाब्निषेधे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं, टाब्निषेधस्य सुप्स्वरसंज्ञातुग्विधिष्वनन्तर्भावादित्यत आह — नलोपे कृतेऽपीत्याद्यसिद्धत्वादित्यन्तम् । टाब्निषेधविधिरयं षट्संज्ञामपि विधत्ते, कार्यकालपक्षाश्रयणात् । ततश्च तस्मिन् कर्तव्ये नवोपस्याऽसिद्धत्वेन षट्संज्ञाया निर्बाधतया षट्संज्ञानिबन्धनष्टाप्प्रतिषेधोऽत्र निर्बाध इति बावः । वस्तुतस्तु नलोपस्याऽसिद्धत्वेऽपि बूतपूर्वषट्संज्ञामाश्रित्य टाब्निषेध उपपद्यते । अत एव षट्संज्ञायां नलोपाऽसिद्धत्वस्य न फलमितिनलोपः सुप्स्वरे॑ति सूत्रभाष्ये उक्तमित्याहुः । Tattvabodhini ------------- **टाबृचि** - टाबृचि । पूर्वेण प्राप्तस्य ङीपोऽपवादः । यद्यपिपदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॑इति कोशात्पादसमानार्थकः पदशब्दोऽस्तीति तेनैवद्विपदा॒॑एकपदे॑ति रूपं सिध्यति, तथापि ऋचि वाच्यायांद्विपदी॒॑द्विपा॑दिति प्रयोगनिवृत्तये सूत्रारम्भोऽयमावश्यकः । असिद्धत्वादिति । एतच्चाऽसिद्धत्वेपवर्णनं कार्यकालपक्ष एवोपयुज्यते, न तु यथोद्देशपक्षे, सकृत्कृतायाः संज्ञायाः सर्वार्थत्वेन तस्याः पुनरपक्षाऽभावात् । न च॒पञ्च॑न्निति नान्तस्य कृतायामपि संज्ञायांपञ्चे॑त्यदन्तस्य न कृतेति शङ्क्यम्, एकदेशविकृतस्याऽनन्यत्वादित्याहुः । तदसत् । एकदेशविकृतस्योपसङ्ख्यानं हिस्थानिवदादेशोऽनल्विधा॑वित्यत्र पठते, तच्चाऽल्विधौ न प्रवर्तत एवेति यथोद्देशपक्षेऽप्यसिद्धत्ववर्णनस्य युक्तत्वात् । Padamanjari ----------- ऋचीत्यभिधेयनिर्देश इति । व्याप्तेः । विषयनिर्देशे हि ऋग्वेदविषय एव प्रयोगे स्यात्, नान्यत्र ॥ Nyaas ----- `ऋचीत्यभिधेयनिर्देशः` इति। विषयनिर्देशाशङ्कां निराकरोति। यदि हि विषयनिर्देशः स्यात्, तत ऋचि विषय ऋग्ग्रन्थे यः पाच्छब्दस्तदन्तात् प्रातिपदिकाट्टाब्भविष्यतीत्येषोऽर्थः स्यात्, तथा च ऋग्वेद एव स्यात्, नान्यत्र। अभिधेयनिर्देशे तु सर्वत्र भवतीति भावः॥ Praudhamanorama --------------- पूर्वेण प्राप्तस्य ङीपोऽपवादः। **असिद्धत्वादिति।** कार्यकालपक्षेणेदम्। यदि तु यथोद्देशं षट्संज्ञा, यदि वा उपदेशकाले ष्णान्तेति व्याख्यानं तदा असिद्धत्वोपवर्णनं नोपयुज्यत इत्याहुः। वस्तुतस्तु यथोद्देशपक्षेऽपि असिद्धत्वमुपयुक्तमेव एकदेशविकृतस्योपसंख्यानं हि स्थानिवत्सूत्रे पठ्यते। आदेशग्रहणसामर्थ्यात् 'सर्वे सर्वपदादेशा' इत्याश्रित्य आनुमानिकोऽप्यादेशः स्थानिवदिति वा व्याख्यायते। उभयथाऽपि अल्विधौ न तत्प्रवृत्तिः। एतच्च आकरे स्पष्टम्। Prakriyasarvasvam ----------------- ऋचि वाच्यायां पादान्ताट्टाप् स्यात् । पद्भावः । द्विपदा ।।