41007: वनो र च ============== **Padacheda:** वनः | S | 6 | 1 | र | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **वन्-प्रत्ययः यस्य अन्ते अस्ति तादृशात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति, तथा च प्रक्रियायाम् वन्-प्रत्ययस्य नकारस्य रेफादेशः भवति ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु **ङीप्** इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । अस्मिन् सूत्रे विद्यमान: "वन्" इति शब्दः "ङ्वनिप्, क्वनिप् तथा वनिप्" इति त्रयाणाम् कृत्-प्रत्ययानाम् ग्रहणं करोति । **ङ्वनिप्, क्वनिप्, वनिप्-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति, तथा च प्रक्रियायाम् प्रत्ययान्त-नकारस्य रेफादेशः भवति** — इति अस्य सूत्रस्य अर्थः । वस्तुतः एते त्रयः अपि प्रत्ययाः नकारान्ताः सन्ति, अतः ङीप्-प्रत्ययः तु **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेनैव भवितुम् अर्हति; परन्तु तत्सन्नियोगेन रेफादेशस्य विधानार्थम् इदं पृथक् सूत्रं रचितं वर्तते । अपि च, **प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्** इत्यनया परिभाषया अत्र तदन्तविधिः अपि अवश्यं प्रवर्तते । क्रमेण उदाहरणानि एतानि — 1. ङ्वनिप्-प्रत्ययः — **सुयजोर्ङ्वनिप्** (3.2.103) इति सूत्रेण सु-धातोः, यज्-धातोः च भूते कर्त्रर्थे ङ्वनिप्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः अपि भवति । प्रक्रिया इयम् — .. code-block:: text सु + ङ्वनिप् [**सुयजोर्ङ्वनिप्** (3.2.103) इति ङ्वनिप्] → सु + वर् + ङीप् [**वनो र च** (4.1.7) इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः] → सु तुक् + वर्+ ई [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः] → सुत्वरी 2. क्वनिप्-प्रत्ययः — **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इत्यनेन धा-धातोः क्वनिप्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः भवति । प्रक्रिया इयम् — .. code-block:: text डुधाञ् (धारणपोषणयोः, (3.11)) → धा + क्वनिप् [**अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति ङ्वनिप्] → धा + वर् + ङीप् [**वनो र च** (4.1.7) इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः] → धी + वर् + ई [**घुमास्थागापाजहातिसां हलि** (6.4.66) इति ईकारादेशः] → धीवरी 3. वनिप्-प्रत्ययः — **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इत्यनेन शॄ-धातोः वनिप्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः भवति । प्रक्रिया इयम् — .. code-block:: text शॄ (हिंसायाम्, (9.21)) → शॄ + वनिप् [**अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति वनिप्] → शॄ + वर् + ङीप् [**वनो र च** (4.1.7) इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः] → शर् + वर् + ई [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः] → शर्वरी **वार्त्तिकम् — ** **हश्-प्रत्याहारस्य वर्णः (इत्युक्ते, मृदुव्यञ्जनम्) यस्य धातोः अन्ते विद्यते, तस्मात् धातोः वन्-प्रत्यये कृते प्रकृतसूत्रं नैव प्रवर्तते (इत्युक्ते, ङीप्-प्रत्ययः, रेफादेशश्च नैव भवतः)** — इति अस्य वार्त्तिकस्य अर्थः । यथा — 1. "ओण्"-धातोः **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इत्यनेन वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं नैव प्रवर्तते, यतः अस्य धातोः अन्ते णकारः (हश्-व्यञ्जनम्) अस्ति । प्रक्रिया इयम् — .. code-block:: text ओणितवती इति = ओणृ (अपनयने, (1.523)) → ओण् + वनिप् [**अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति वनिप्] → ओ आ + वन् [**विड्वनोरनुनासिकस्यात्** (6.4.41) इति आकारादेशः] → अवावन् [**एचोऽयवायावः** (6.1.78) इति अवादेशः] अनेन प्रकारेण सिद्धः "अवावन्"-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव "अवावा ब्राह्मणी" इति प्रयोगः साधुत्वं प्राप्नोति । 2. "युध्"-धातोः **राजनि युधिकृञः** (3.2.95) इत्यनेन क्वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं नैव प्रवर्तते, यतः अस्य धातोः अन्ते धकारः (हश्-व्यञ्जनम्) अस्ति। प्रक्रिया इयम् — .. code-block:: text राजानम् योधितवती इति = युधँ (सम्प्रहारे, (4.69)) → राजन् + युध् + क्वनिप् [**राजनि युधिकृञः** (3.2.95) इति क्वनिप्-प्रत्ययः, **उपपदमतिङ्** (2.2.19) इति उपपदसमासः, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्] → राज + युध् + वन् [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] → राजयुध्वन् अनेन प्रकारेण सिद्धः "राजयुध्वन्"-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव "राजयुध्वा ब्राह्मणी" इति प्रयोगः साधुत्वं प्राप्नोति । 3. "यज्"-धातोः **सुयजोर्ङ्वनिप्** (3.2.103) इत्यनेन ङ्वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः न भवति, यतः अस्य धातोः अन्ते जकारः (हश्-व्यञ्जनम्) अस्ति । प्रक्रिया इयम् — .. code-block:: text इष्टवती सा = यज् (देवपूजासङ्गतिकरणदानेषु, (1.1157)) → यज् + ङ्वनिप् [**सुयजोर्ङ्वनिप्** (3.2.103) ] → यज्वन् अनेन प्रकारेण सिद्धः "यज्वन्"-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव "यज्वा ब्राह्मणी" इति प्रयोगः साधुत्वं प्राप्नोति । **वार्त्तिकम् — ** **बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानस्य वन्-प्रत्ययान्तशब्दस्य विषये स्त्रीत्वं द्योतयितुम् विकल्पनैव प्रकृतसूत्रस्य प्रयोगः भवति** — इति अस्य वार्त्तिकस्य आशयः । **अनो बहुव्रीहेः** (4.1.12) इति सूत्रेण अन्नन्त-बहुव्रीहिसमस्तपदस्य विषये ङीप्-प्रत्ययस्य निषेधे कृते, वन्नन्त-बहुव्रीहिसमस्तपदस्य विषये तस्य विकल्पेन पुनर्विधानं कर्तुम् इदं वार्त्तिकम् पाठितम् अस्ति । यथा, "बहवः धीवानः यस्याः सा" इत्यत्र "बहु + धीवन्" इत्यस्मात् अनेन वार्त्तिकेन विकल्पेन ङीप्-प्रत्ययः, तदनुषङ्गेन च नकारस्य रेफे कृते "बहुधीवरी" इति शब्दः सिद्ध्यति । पक्षे **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इत्यनेन विकल्पेन डाप्-प्रत्यये कृते "बहुधीवा" इति शब्दः अपि साधुत्वम् प्राप्नोति, तथा च पक्षे स्त्रीप्रत्ययं विना "बहुधीवन्" इत्येव स्त्रीलिङ्गवाचीशब्दः अपि सिद्ध्यति । इति वार्त्तिकं तदा एव प्रयुज्यते तदा **अनो बहुव्रीहेः** (4.1.12) इति सूत्रेण अन्नन्त-बहुव्रीहिसमस्तपदस्य विषये ङीप्-प्रत्ययस्य निषेधः कृतः वर्तते । यदि इति वार्त्तिकेन ङीप्-प्रत्ययस्य निषेधः भवति, तर्हि तत्र इति वार्त्तिकं नैव प्रवर्तते । अतएव "बहवः यज्वानः यस्याः सा" इत्यत्र इति वार्त्तिकं नैव प्रयुज्यते । ** तदन्तविधिः** प्रकृतसूत्रे "वन्" इत्यनेन प्रत्ययस्य निर्देशः क्रियते, अतः **प्रत्ययग्रहणे यस्मात् स विहितः तदादेः तदन्तस्य च ग्रहणम्** इति परिभाषया अत्र तदन्तविधिः अवश्यं प्रवर्तते । परन्तु; "वनः" इति शब्दः अत्र "प्रातिपदिकात्" इत्यस्य विशेषणरूपेण अपि प्रयुक्तः अस्ति, अतः **ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति** इत्यनेन (अथवा, अस्याः परिभाषायाः मूले विद्यमानेन **समासप्रत्ययविधौ प्रतिषेधः** इति वार्त्तिकेन) अत्र तदन्तविधेः निषेधः अपि सम्भवति । अतः अत्र तदन्तविधिः भवेद् उत न भवेद् - इति प्रश्ने जाते; **अजाद्यतष्टाप्** (4.1.4) इत्यत्र भाष्यकारेण दत्तः निर्णयः अत्र उपयुज्यते । **अजाद्यतष्टाप्** (4.1.4) इत्यत्र निर्दिष्टे अजादिगणे विद्यमाने इति वार्त्तिके / गणसूत्रे उपस्थितम् "अमहत्पूर्वा" इति पदम् आश्रित्य भाष्यकारः तत्र **स्त्रीप्रत्ययप्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधिः अवश्यम् भवति** इति निर्णयति । एनं निर्णयम् अनुसृत्य **प्रकृतसूत्रस्य विषये अपि **प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्** इत्यनया परिभाषया तदन्तविधिः अवश्यम् प्रवर्तते**। अतएव, यथा ङ्वनिप्-प्रत्ययान्तस्य "सुत्वन्"-शब्दस्य स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं उपयुज्य "सुत्वरी" इति शब्दः सिद्ध्यति, तथैव "सुत्वानम् अतिक्रान्ता" इत्यत्र इति वार्त्तिकेन तत्पुरुषसमासे कृते "अति + सु + ङ्वनिप्" इत्यस्याम् अवस्थायाम् अपि प्रकृतसूत्रेणैव ङीप्-प्रत्ययः, तदनुषङ्गेन नकारस्य रेफादेशः भवति, येन "अतिसुत्वरी" इति शब्दः सिद्ध्यति । अनेनैव प्रकारेण "धीवानम् अतिक्रान्ता = अति + धा + क्वनिप् + ङीप् → अतिधीवरी" इत्यत्र, तथा च "परलोकं दृष्टवती = परलोक + दृश् +क्वनिप् + ङीप् → परलोकदृश्वरी" इत्यत्रापि ङीप्-प्रत्ययेनैव रूपं सिद्ध्यति । Vasu English Summary -------------------- The affix ङीप् is added, in forming the feminine to the stems that end in the syllable वन् , and र् is the substitute of the final such syllable. Vasu English Translation ------------------------ The affix ङीप् is added, in forming the feminine to the stems that end in the syllable वन् , and र् is the substitute of the final such syllable. Thus धीवन् (*Unadi* IV. 115) f. धीवरी 'a female artisan'; पीवन् f. पीवरी 'a young woman, a stout woman', शर्वन् f. शर्वरी 'night' (शृ + वनिप् (3.2.75)) lit. that which destroys light. So also परलोकदृश्वरी ॥ Words ending in वन् are formed by the affixes ङ्वनिप्, (3.2.103) क्वनिप् and वनिप् (3.2.74) These words end in न् and consequently would have taken ङीप् even by (4.1.5); the necessity of the present *sutra* arose in order to teach the change of न् into र् in case of words ending in वन् ॥ Vart:- If the affix वन् is ordained to be added to a word ending in हश्, (a letter of हश् *pratyahara*), and is thus immediately preceded by a soft consonant then this rule does not apply, that is to say, there is neither the application of the affix ङीप् nor the change of म् into र् ॥ Thus सहयुध्वन् is both masculine and feminine as, सहयुध्वा ब्राह्मणः or ब्राह्मणी 'a *Brahman* brother or sister in arms'. In शर्वन् the वन् is preceded by र् which is a letter of हश् class, but as वन् is not ordained to be applied to शर् but to शृ, and we get the र् indirectly by *guna*, the *vartika* does not apply to such a case. Hence शर्वरी ॥ Bhashya ------- वनो र च (1281) (अतिव्याप्तिपरिहारभाष्यम्) इह कस्मान्न भवति -निःशुनी, अतियूनीति? अर्थवद्ग्रहणे नानर्थकस्येति। एवमपि मघोनी -अत्र प्राप्नोति। मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकम्॥ (5130 सिद्धान्तपूरकवार्तिकम्॥ 1 ॥) - वनो न हशः - (भाष्यम्) वनो र चेत्यत्र हशन्तान्न भवतीति वक्तव्यम्। इह मा भूत् -सहयुध्वा ब्राह्मणीति॥ यदि न हश इत्युच्यते -शर्वरीति न सिध्यति। विहितविशेषणं हश्ग्रहणम् -हशन्ताद्यो विहित इति। एवमपि प्रेर्त्वरीति न सिध्यति। कथं चात्र तुगागमः? छान्दसत्वात्। ङीब्रावपि तर्हि छान्दसत्वादेव भविष्यतः॥ बहुलं छन्दसि ङीब्रौ वक्तव्यौ -यज्वरीरिषः। यज्वनीरिषः॥ (5131 पूर्वपक्षवार्तिकम्॥ 2 ॥) - रविधाने बहुव्रीहेरुपसंख्यानं प्रतिषिद्धत्वात् - (भाष्यम्) रविधाने बहुव्रीहेरुपसंख्यानं कर्तव्यम् -बहुधीवरी, बहुपीवरी॥ किं पुनः कारणं न सिध्यति? प्रतिषिद्धत्वात्। अनो बहुव्रीहेः (4.1.12) इति प्रतिषेधः प्राप्नोति॥ (5232 पूर्वपक्षायसमाधानवार्तिकम्॥ 3 ॥) - अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वावचनम् - (भाष्यम्) अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वेति वक्तव्यम्॥ (समाधानाक्षेपभाष्यम्) अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहारः। यथोपसंख्यानं चोदितं तथा नित्याभ्यां ङीब्राभ्यां भवितव्यम्। यथा परिहारः, तथा विभाषया भवितव्यम्॥ (सिद्धान्तभाष्यम्) यथोपसंख्यानं चोदितमेवमपि विभाषया भवितव्यम्, न ह्यत्र ङीब् दुर्लभः। सिद्धोऽत्र ङीप् -अन उपधालोपिनोन्यतरस्याम् (4.1.28) इति। ङीप्संनियोगेन र उच्यमानोऽन्येन सति न स्यादित्येवमर्थमुपसंख्यानं चोद्यते॥ (सिद्धान्ताक्षेपभाष्यम्) किं पुनः कारणं ङीप्संनियोगेन र उच्यते? इह मा भूत् -सुपर्वा, चारुपर्वेति। तत्तर्ह्युपसंख्यानं कर्तव्यम्? न कर्तव्यम्॥ (सिद्धान्तभाष्यम्) वक्ष्यति -डाबुभाभ्यामन्यतरस्यामित्यत्रान्यतरस्यां ग्रहणस्य प्रयोजनं डाप्प्रतिषेधाभ्यां मुक्ते ङीब्रावपियथा स्यातामिति॥ Kashika ------- वन्नन्तात् प्रातिपदिकाद् स्त्रियां ङीप् प्रत्ययो भवति, रेफश्चान्तादेशः। धीवरी। पीवरी। शर्वरी। परलोकदृश्वरी। **ऋन्नेभ्यः०** (४.१.५) इत्येव ङीपि सिद्धे तत्सन्नियोगेन रेफविधानार्थं वचनम्॥ वाने न हशः॥ प्राप्तौ ङीब्रावुभावपि प्रतिषिध्येते। सहयुध्वा ब्राह्मणी॥ Siddhanta Kaumudi ----------------- वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । [(परिभाषा - ) प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्] । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी । (वार्तिकम्) ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । विड्वनोः (SK2982) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥ (वार्तिकम्) ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥ Balamanorama ------------ **वनो र च** - वनोर च । वनः र चेति च्छेदः ।र॑इति लुप्तप्रथमाकम्, अकार उच्चारणार्थः । चकारात्ङीप्समुच्चीयते ।वन॑इति पञ्चम्यन्तम् । तेन वन्प्रत्ययान्तं तदन्तं च विवक्षितम् ।प्रातिपदिका॑दित्यधिकृतम् । तदाह-वन्नन्तादित्यादिना । अन्तादेश इति ।प्रकृते॑रिति शेषः । नान्तत्वादेव ङीप्प्राप्तः, तत्संनियोगेन रेफमात्रमिह विधेयम् । सामान्येति । अनुबन्धविनिर्मुक्तवन॑ग्रहणस्य त्रिष्वपि साधारणत्वादिति भावः ।ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह-प्रत्ययग्रहणे इति । यस्मात्प्रकृतिभूताच्छब्दाद्यः प्रत्ययो विहितः तदादेः=स प्रकृतिभूतः शब्द आदिर्यस्य तस्य , तदन्तस्य=स प्रत्ययोऽन्तो यस्य समुदायस्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः ।तिड्डतिङ॑इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम् ।यस्मात्प्रत्ययविधि॑रिति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वन्नन्तेन प्रातिपदिकादित्यधिकृतस्य विशेषणात्पुनस्तदन्तविधिलाभावादिति भावः । नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यं,यनविधिस्तदन्तस्ये॑त्यत्रस्वं रूप॑मित्यतः॒स्व॑मित्यनुवर्त्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भानः । तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्त्वेन वन्नन्तान्तमिति केचित् ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तुस्त्रिया॑मित्यस्मिन्नधिकारे न प्रवर्तते,शूद्रा चामहत्पूर्वा जातिः॑इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नान्तान्तमुदाहरति-सुत्वानमिति । 'षुञ् अभिषवे' 'सुजयोङ्र्वनिप्'ह्रस्वस्य पिति कृती॑ति तुक् । सुत्वन्शब्दः । सुत्वानमतिक्रान्ता इति विग्रहेअत्यादयः॑इति समासः । सुब्लुकि, ङीप्, नकारस्य रत्वम्, इतिसुत्वरीति रूपम् । अतिधीवरीति ।डुधाञ्धारणपोषणयोः॑,अन्येभ्योऽपि दृश्यते॑इति भाषायामपि क्वनिप् ।घुमास्था॑इति ईत्त्वम् । धीवानमतिक्रान्ता इति विग्रहे 'अत्यादयः' इति समासः । ङीब्राश्च, अतिधीवरीति रूपम् । भाष्ये तुध्यायतेः क्वनिपि संप्रसारणे 'हलः॑इति दीर्घ' इति स्थितम् । शर्वरीति ।शृ हिंसायाम्,आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यते॑ इति भाषायामपि वनिप्,सार्वधातुकार्धधातुकयोः॑ इति गुणः,वनो र चे॑ति ङीब्राश्च । वन्नन्तस्योदाहरणमेतत् ।अतिशर्वरी॑ति पाठे तु इदमपि वन्नन्तातन्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरीति वन्नन्तस्योदाहरणानि । वनो नेति । पूर्ववद्वन्नन्तं वन्नन्तान्तं च गृह्रते । 'हश' इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेवनाऽऽक्षिप्तं धातोरित्येतद्विशेष्यते, तदन्तविधिः । ङीबिति रश्चेति चानुवर्तते । तदाह — हशन्तादित्यादिना । विहितविशेषणस्य प्रयोजनं दर्शयन्वन्नन्तोदाहरणं दर्शयितुमाह — ओणृ इत्यादिना । वनिबिति ।अन्येभ्योऽपि दृश्यते इत्यनेने॑ति शेषः । आवावेति । ओण् इत्यस्मद्वनिपिविड्वनोरनुनासिकस्या॑दिति णकारस्य आत्त्वे ओकारस्यावादेशे 'अवावन्' शब्दः । स्त्रीत्वस्फोरणायब्राआहृणी॑ति विशेष्यम् । अत्र ओण् इति धातोर्हशन्ताद्वन् विहितः, तदन्तत्वान्न ङीब्रात्वे, किंतु राजवद्रूपम् ।हशन्ताद्धातोः परो यो व॑न्निति व्याख्याने तु आत्वे सति वनो हशः परत्वाऽभावान्निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरति-राजयुध्वेति । राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्तमाने 'राजनि युधिकृञः' इति क्वनिप् । कर्मीभूते राजनि उपपदे युधेः कृञ्श्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुकि राजयुध्वन्शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्राआदेशावित्यर्थः । बहुव्रीहौ वा । इदं वार्तिकम् ।वनो र चे॑ति विधिर्वहुव्रीहौ वा स्यादित्यर्थः ।अनो बहुव्रीहे॑रिति निषेधस्यापवादः । बहुधीवरीति । बहवो धीवानो यस्या इति विग्रहः । बहुधीवेति । ङीब्रात्वयोरभावे राजवद्रूपम् । नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि हीब्रात्वविकल्पः स्यादिति वाच्यम्, 'अल्लोपोऽनः' इति उपधालोपयोग्यस्थल एवैतद्वार्तिकस्य प्रवृत्तेर्भाष्ये उक्तत्वात् । बहुपर्वन्शब्दे चन संयोगाद्वनमन्ता॑दित्यचल्लोपनिषेधात् । पक्षे इति । ङीब्रात्वाऽभावपक्षेडाबुभाभ्या॑मिति डाब्वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन्-आ इति स्थिते 'टेः' इति टिलोपे बहुधीवाशब्दात्सोर्हल्ङ्यादिलोपेबहुधीवे॑ति रमावद्रूपम् । ङीब्रात्वयोर्डापश्चऽभावेसौ बहुधीवेत्येव रूपम् । ङीब्रात्वयोर्बहुधीवरीति । औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहूधीवानौ इत्यादि रूपत्रयमिति भावः । Padamanjari ----------- 'वनः' इति क्वनिब्वनिब्ङ्वनिपां प्रत्ययानां सामान्येन ग्रहणम्, न'वन षण संभक्तौ' ,'वनु याचेन' इति धात्वोर्विजन्तयोः, कुतः ?'प्रत्ययाप्रत्ययोः प्रत्ययस्यैव ग्रहणम्' इति । अत एव शुनो निष्क्रान्ता युवानमतिक्रान्ता निः शुनी अतियूनीत्यत्रापि न भवति, अनर्थकत्वाद्वा । शर्वरीति ।'शृ हिंसायाम्' , ठन्येभ्योऽपि दृश्यन्तेऽ इति वनिप् । परलोकदृश्वरीति ।'दृशेः क्वनिप्' । वनो न हश इति । विहितविशेषणं हश्ग्रहणम्, हशन्ताद्धातोर्यो वन्विहितस्तदन्तात्प्रातिपदिकान् ङीब्रौ न भवत इत्यर्थः, तेन 'सर्वरीत्यत्र प्रतिषेधाभावः । तथा ठोणृ अपनयेनऽ वनिपि'विड्वनोरनुनासिकस्यात्' इत्यात्वे अवादेशेअवावन्नित्यत्र संप्रति हशः । परत्वाभावेऽपि हशन्ताद्विहितत्वात् प्रतिषेधो भवत्येव - अवावा ब्राह्मणीति । तष एव स्थितः सिद्धान्तः । बहुलं च्छन्दसि ङीब्रौ वक्तव्यौ - यज्वरीरिषः । प्रैइरिशवोस्तुट् च - प्रेर्त्वरी ॥ Nyaas ----- `वनः` इति क्वनिब्वनिपोः प्रत्ययोग्र्रहणम्। अथ `बन षण सम्भवक्तौ` (धातुपाठः-463,464) `वनु याचने` (धातुपाठः-1470) इत्याभ्यां **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति विचि कृते यद्रूपं वन्निति निष्पद्यते तत्कस्मान्न गृह्रते यदि ताभ्यां विज् दृश्येत स तु न दृश्यते; अनभिधानात्। `शर्वरी` इति। `शृ? हंसायाम्` (धातुपाठः-1488), **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति वनिप्,गुणः रपरत्वम्। `परलोकदृआरी` इति। दृशस्तेनैव सूत्रेण (3.2.75) क्वनिप्।`वनोन हशः` इति। क्वचिदिति शेषः। हशः परो यो वनिप् हशन्ताद्धातोर्विहितस्तदन्तात् प्रातिपदिकात् क्वचिन्ङीब्रोफश्चान्तादेशो न भवति। `सहयुध्वा` इति। `युध सम्प्रहारे` (धातुपाठः-1173), `दृशेः क्वनिप्` (3.2.94) , **राजनि युधिकृञः** (3.2.95) , `सहे च` (3.2.96) इति क्वनिप्, **नोपधायाः** (6.4.7) , `सर्वनामस्थाने` (6.4.8) इति दीर्घः, **नलोपः प्रातिपदिकान्तस्य** (8.2.7) । क्वचित्तु प्रतिषेधो न भवत्येव - शर्वरीति, अतर् रेफाद्धशः परो वनिप्; अवावरीति, अत्रापि हशन्ताद्धातोर्वनिब्विहितः, तथापि प्रतिषेधो न भवति। `ओणृ अपनयने` (धातुपाठः-454), **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति वनिप्, `विड्वनोरनुनासिकस्यात्` (6.4.41) इत्यात्त्वम्, अवादेशः। न च वनो न हश इत्येव {वक्तव्यं कर्तव्यम्` इति मुद्रितः पाठः। } वक्तव्यम्; यस्मात् **पादोऽन्यतरस्याम्** (4.1.8) इत्यन्तरस्यांग्रहणमस्यापि योगस्य शेषः। सा च व्यवस्थितविभाषा विज्ञायते। तेन यत्र ङीब्रोफौ नेष्येते तत्र न भविष्यतः॥ Praudhamanorama --------------- **सुत्वानमिति।** शृ़धातोर्वनिप्। गुणे कृते हशन्तात्परत्वेऽपि हशन्ताद्विहितत्वाभावाद् ङीब्रयोर्निषेधो न। **अवावेति।** न्यासकारस्तु प्रायिकोऽयं निषेधस्तेन अवावरीत्याह। न त्वेतद्भाष्यादौ दृष्टम्। **पक्षे डाबिति।** तथा च द्विवचने बहुधीवर्यौ, बहुधीवानौ, बहुधीवे इति रूपत्रयम्भवतीति भावः। Prakriyasarvasvam ----------------- वन्नन्तात् स्त्रियां ङीप् स्याद्, रश्चान्तादेशः । क्वनिपि धीवरी । पारदृश्वरी । बहुव्रीहेर्वेष्यते । बहुधीवा । बहुधीवरी । न हशन्ताद् वनो ङीब्रौ सहयुध्वा चमूरिति । इष्टौ णान्तात्तु कौमुद्यामोणेर्वनिबवावरी ॥ ४७५ ॥ Vartika ------- वनो न हश इति वक्तव्यम् । Sutra Prayogas -------------- * **यमाऽऽस्य-दृश्वरी** (भट्टिकाव्यम्): `वनो र च` इति ङीफौ।