34008: उपसंवादाशङ्कयोश्च ======================== **Padacheda:** उपसंवाद-आशङ्कयोः | S | 7 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- Where a contingent promise (a reciprocal agreement) or apprehension is implied, the affix लेट् (Vedic Subjunctive) is used after a root in the छन्दस् (Vedas) Literature. Vasu English Translation ------------------------ Where a contingent promise (a reciprocal agreement) or apprehension is implied, the affix लेट् (Vedic Subjunctive) is used after a root in the छन्दस् (Vedas) Literature. The word उपसम्वाद means 'reciprocal agreement, contracting to do'. Thus यदि मे भवानिदं कुर्य्याद् अहमपि भवत इदं दास्यामि 'If you do this for me, I will give this to you'. Agreements like these are called उपसम्वाद; while guessing or inferring the result from a cause is called आशङ्का 'apprehension or fear'. Thus अहमेव पशूनामीशै ॥ मदग्रा एव वो ग्रहा गृह्यान्तै ॥ मद्देवत्यान्येव वः पात्राण्युच्यान्तै ॥ नेज्जिह्यायन्तो (or नेज्जिह्यायन्त्यो) नरकं पताम ॥ (*Nir*. I.II.Bohtlingk) = जिह्माचरणेन नरकपात आशङ्कयते ॥ All the above examples have the sense of Potential, but the Subjunctive (*Let*) must be employed necessarily in these senses and not optionally, which *anuvritti* was understood in the last *sutra*. Bhashya ------- उपसंवादाशङ्कयोश्च (1169) (594 लेड्प्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 आ.5) (5033 आक्षेपवार्तिकम्॥ 1 ॥) - उपसंवादाशङ्कयोर्वचनानर्थक्यं लिङर्थत्वात्- (भाष्यम्) उपसंवादाशङ्कयोर्वचनार्थकम्। किं कारणम्?। लिङर्थत्वात्। लिङर्थे लेट् इत्येव सिद्धम्॥ कः पुनर्लिङर्थः?। केचित्तावदाहुः - हेतुहेतुमतोर्लिङ् इति। अपर आहुः - वक्तव्य एतैतस्मिन्विशेषे लिङ्। प्रयुज्यते हि लोके यदि मे भवानिदं कुर्याद्र, अहमपि त इदं दद्यामिति। उपसंवादा॥ 8 ॥ Kashika ------- उपसंवादः परिभाषणम्, कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्याद् अहमपि भवत इदं दास्यामीति। कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा, आशङ्का। उपसंवाद आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति। उपसंवादे — अहमेव पशूनामीशै (काठ०सं० २५.१)। म॑द॒ग्रा ए॒व॑ वो॒ ग्र॑हा॒ गृह्यान्तै॒ (मै०सं० ४.५.८) इति। मद्देव॒त्या॑न्ये॒व वः॒ पात्रा॑ण्युच्यान्तै॒ (तै०सं० ६.४.७.२)। आशङ्कायां च — नेज्जि॒ह्माय॒न्त्यो न॑र॒कं प॑ताम (ऋ०खिल १०.१०६.१)। जिह्माचरणेन नरकपात आशङ्क्यते। लिङर्थ एवायं नित्यार्थं तु वचनम्। पूर्वसूत्रेऽन्यतरस्यामिति वर्तते॥ Siddhanta Kaumudi ----------------- पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेज्जिह्मा यन्तौ नरकं पताम (नेज्जि॑ह्मा य॒न्तौ नरकं॒ प॑ताम) । हलः श्नः शानज्झौ - (SK2557) ॥ Padamanjari ----------- यदि मे भवानित्यादिनोपसंवादस्य स्वरूपं दर्शयति । कारणत इत्यादिना । शङ्कायाः अनुसरणमनुगमनमित्यर्थः । अहमेवेत्यादि । त्रिपुरविजये देवैः प्रर्थितस्य देवस्यैतद्वचनम् । ठीश ऐश्वर्येऽ, उतमैकवचनमिट्, टेरेत्वम्,'वैतोन्यत्र' इत्यैकारः । पशवो द्विपादश्चतुष्पादश्च ।'वायुं देवा अब्रुवन्सोमं राजानं हनामेति, सो' ब्रवीदूरं वृणै, मदग्रा एव वो ग्रहा गृहायान्तै इति । मद्ग्रहोऽग्रं प्रथमं येषां ते तथोक्ताः, ग्रहेः कर्मण्यात्मनेपदं यक्, ग्रहिज्यादिना सम्प्रसारणम्, झस्याडागमः, पूर्ववदैत्यम् ।'देवाः सोममघ्नन्, सो' पूयदशक्यतामागमत्, ते वायुमब्रुवन् इमं नः स्वदयेति, सोऽब्रवीद्वरं वृणै, मद्देवतान्येव वः पात्राण्युच्यान्तै इति । अहं देवता येषां तानि तथोक्तानि । उच्यान्तै इति वचेः'वचिस्वपि' इत्यादिना सम्प्रसारणम्, शेषं पूर्ववत् । नेज्जिह्यायन्त इति । इच्छब्द आशङ्कां द्योतयति । जिह्मचरणेन नरकपातः सम्भाव्यते, स मा भूदित्यर्थः । जिह्ममुकुटिलं पापम्,'च्छन्दसि परेच्छायाम्' इति क्यच्, ठश्वाघस्यात्ऽ इति योगविभागोनात्वम् । वृतौ तु वस्तुमात्रं दर्शितम् । जिह्माचरणेनेति । न पुनराचारे उपमानादन्यत्र क्यजस्ति । हेतौ शतृप्रत्ययः । लिर्ङ्थ एवायमिति । हेतुहेतुमद्भावे, कथम् ? उपसंवादे तावत्करणं हेतुः, दानं हेतुमत्; अन्यथा यदि मे भवानिदं कुर्यादिति लिङ् न स्यात्, विभाषा तु लिङिति । अहमपि ते इदं दास्यामीति लृट् । भाष्ये तु ददातेरपि लिङ् प्रयुक्तः । आशङ्कापि कारणतः कार्यानुसरणम्, तत्र कारणं हेतुः, कार्यं हेतुमत् । अथापि करणमवधिः, दानमवधिमदित्यवध्यवधिमद्भाव उपसंवादे प्रतीयते, न हेतुहेतुमद्भावः, आशङ्कायामपि निश्चितो हेतुहेतुमद्भावो नास्तीत्युच्येत, तथापि लिङ्प्रयोगसिद्धयेऽवश्यं वक्तव्योऽत्र हेतुहेतुमद्भावः, अतो लिर्ङ्थ एवायमित्यर्थः । नित्यार्थं तु वचनमिति । च्छन्दसि नित्योऽत्र लिङ् दृश्यत इति मन्यते, तथापि व्यवस्थितविभाषया सिद्धमिति चेतदेव तर्हि वचनेन ज्ञाप्यते ॥ Nyaas ----- `उपसंवादः परिभाषणम्; कर्तव्ये पणबन्धः` इति। उपसंवादशब्दस्येमौ पर्यायौ। `यदि मे भवान्` इत्यादिनोसवादस्य स्वरूपं दर्शयति। कारणत इत्यादिनाप्याशङ्कायाः। `अनुसरणम्` इति। अनुगमनम्, अनुमानमित्यर्थः। `तर्क उत्प्रेक्षा` इति। आशङ्काया इमौ प्र्यायौ। `अहमेव` इत्यादि। देवैः पशुपतिरुक्तस्त्रिपुरं जहीति, तेनोक्तम् - `अहमेव पशूनामीशै` इति। ब्राहृहत्याभागं गृहाणेत्युक्ते आदित्य इदमुक्तवान् `मदग्रा एव वो ग्रहा गृह्रान्तै। मद्देवतान्येव वः पात्राण्युच्यान्तै। `ईशै`इति - `ईश ऐआर्ये` (धातुपाठः-1020), उत्तमपुरुषैकवचनम्, इट्, टेरेत्वम्, `एत ऐ` (3.4.93) । `गृह्रान्तै` इति - ग्रह उपादाने` (धातुपाठः-1533), **झोऽन्तः** (7.1.3) , कर्मणि **सार्वधातुके यक्** (3.1.67) , ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणम्। शेषं पूर्ववत् साधनम्। `उच्यान्तै` इति - `वच परिभाषणे` (धातुपाठः-1063), वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। शेषं पूर्ववत्। `पताम` इति - `पत्लृ गतौ` (धातुपाठः-845), मस्, **लेटोऽडाटौ** (3.4.94) इत्याट्। `जिहृआचरणेन` इत्यादिना पूर्वोक्तमाशङ्कालक्षणमुदाहरणे दर्शयति। `लिङर्थ एवायम्` इति। हेतुहेतुमद्भावः। कथम्? उपसंवादे तावत् - यदि मे भवानिदं कुर्यादहमपि त इदं दास्यामीत्येवंविधं परिभाषणलक्षणम्। तत्र च करणं हेतुः, दानं हेतुमदिति युक्त उपसंवादो लिङर्थः। आशङ्कापि कारणतः कार्यानुसरणम्। तत्रापि कारणं हेतुः, कार्यानुसरणं हेतुमदित्याशङ्कापि लिङर्थ एव। यद्येवम्म, पूर्वेणैव सिद्धम्, तत्किमर्थमिदमुच्यते? इत्याह - `नित्यार्थ वचनम्` इति। स्यादेतत् पूर्वेणैव नित्यं भविष्यतीत्याह - `पूर्वसूत्रे` इत्यादि॥