33167: कालसमयवेलासु तुमुन् ========================== **Padacheda:** काल-समय-वेलासु | S | 7 | 3 | तुमुन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix तुमुन् comes after a root when the words 1. काल 2. समय 3. वेला (all meaning time) are in composition. Vasu English Translation ------------------------ The affix तुमुन् comes after a root when the words 1. काल 2. समय 3. वेला (all meaning time) are in composition. Thus कालो भोक्तुम् 'time to eat'; समयः खलु स्नानभोजने सेवितुम् 'it is time to bathe and take food'; वेला भोक्तुम् 'time to eat'. In short, Infinitive in तुमुन् may be used with words meaning 'time'; as अवसरोऽयमात्मानं प्रकाशयितुम् 'this is, indeed, the time to show myself'. Why do not we use the Infinitive here? कालः पचति भूतानि 'time devours all creatures'. The sense of 'direction &c'. is understood in the *sutra*; so when 'direction &c' is not meant, the Infinitive will not be used. Why do not we use the Infinitive here, कालो भोजनस्य 'proper time to eat'? Because, by the rule of non-uniform affixes (3.1.94), we can use also the affix ल्युट् (by which the word भोजन is formed). As we have already in *sutra* (3.3.163) that after *sutras* (2.1.11) and forward, namely, in other *sutras* than those treating of feminine affixes, the rule of (3.1.94) may be employed as an *Anitya* or a non-universal rule. Bhashya ------- कालसमयवेलासु तुमुन् (1152) (589 तुमुन्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 2 आ.19) (5023 वार्तिकम्॥ 1 ॥) - प्रथमान्तेषु- (भाष्यम्) प्रथमान्तेष्विति वक्तव्यम्॥ किं प्रयोजनम्? इह मा भूत् - काले भुङ्क्ते॥ (प्रश्नभाष्यम्) तत्तर्हि वक्तव्यम्। (समाधानभाष्यम्) न वक्तव्यम्। प्रैषादिष्विति वर्तते। तच्चावश्यं प्रैषादिग्रहणमनुर्वत्यम्। प्रथमान्तेष्विति ह्युच्यमाने इहापि प्रसज्येत कालः पचति भूतानि कालः संहरति प्रजाः इति॥ कालसमय॥ 167 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचते व्याकरणमहाभाष्ये तृतीयस्याध्यास्य तृतीये पदे द्वितीयमाह्निकम्। पादश्च तृतीयः समाप्तः॥ Kashika ------- कालादिषूपपदेषु धातोस्तुमुन् प्रत्ययो भवति। कालो भोक्तुम्। समयो भोक्तुम्। वेला भोक्तुम्। इह कस्माद् न भवति — कालः पचति भूतानि (मै०उ० ६.१५) इति? प्रैषादिग्रहणमिहाभिसंबध्यते। इह कस्माद् न भवति — कालो भोजनस्य? वासरूपेण ल्युडपि भवति। उक्तमिदम् — स्त्र्यधिकारात् परत्र वासरूपविधिरनित्यः (३.३.१६३) इति॥ Siddhanta Kaumudi ----------------- पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥ Laghu Siddhanta Kaumudi ----------------------- कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥ Padamanjari ----------- प्रैषादिग्रहणं सम्बद्ध्यते इति । न चेह प्रैषादयो गम्यन्त इति भावः । इह कस्मादिति । कालो भोजनस्येति । तस्माद्भुङ्क्तां भवानिति वाक्यार्थः, तेन गम्यतेऽत्र प्रैष इति प्रश्नः । वासरूपविधिनेति । ननु प्रैषादिषु कृत्यविधानात् स्त्र्यधिकारात्परेण वासरूपविधिरनास्तीति ज्ञापितम् ? तत्राह - उक्तमिति । अनित्यत्वमेव तत्र ज्ञापितं न सर्वथाभाव इत्यर्थः । पर्यायोपादानं पर्यायान्तरविवृत्यर्थम् । अन्ये त्वाहुः - अवसरो भोक्तुमित्यादावपि तुमुन् दृश्यते,'व्युपयोः शेतेः' इत्यत्र राजानमुपशयितुं पर्याय इति प्रयुक्तोवृत्तिकारेण । तस्मादर्थग्रहणार्थं पर्यायोपादानम्, यथा -'निमितकारणहेतुषु' इत्यत्रेति ॥ Nyaas ----- `प्रैषादिग्रहणमिह सम्बध्यते` इति।न चेदिह प्रैषादयो गम्यन्ते, तेन तत्र न भवतीत्यभिप्रायः। कालो भोजनस्येत्युक्ते तस्याद् भङ्क्तां भवानिति प्रैषो गम्यते। ततश्च प्रैषादिग्रहणेऽनुवर्तमानेऽपीह प्राप्नोतीत्यभिप्रायेणाह -`इह कस्मान्न भवति` इत्यादि। स्यादेत् - प्रैषादि कृत्यविधानाज्ज्ञापकात् स्त्र्यधिकारात् परेणापि वासरूपविधिर्नास्तीति, किं तर्हि? अनित्यः।ततः क्वचिद्भवति। एतच्च `एवं तर्हेतञ्ज्ञापयति` (3.3.163 का।वृ) इत्यादिना प्रागेवाभिहितम्॥ Prakriyasarvasvam ----------------- एषूपपदेषु धातोस्तुमुन् स्यात् । भोक्तुं काल इत्यादि । अन्येष्वपि कालार्थे- ष्विष्टम् । भोक्तुमवसर: । ल्युडादेरबाधात् भोजनस्य काल इत्याद्यपि ।।