32163: इण्नश्जिसर्त्तिभ्यः क्वरप् ================================= **Padacheda:** इण्-नश्-जि-सर्त्तिभ्यः | S | 5 | 3 | क्वरप् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्वरप् comes in the sense of 'agent having such a habit etc.' after the verbs 1. इ 'to go' 2. नश् 'to destroy' 3. जि 'to conquer' 4. सृ 'to flow'. Vasu English Translation ------------------------ The affix क्वरप् comes in the sense of 'agent having such a habit etc.' after the verbs 1. इ 'to go' 2. नश् 'to destroy' 3. जि 'to conquer' 4. सृ 'to flow'. The प् is indicatory in order to introduce the augment तुक् between the verb and the affix (6.1.71). Thus इ + क्वरप् = इ + त् + वर = इत्वरः, fem. इत्वरी 'a traveller'; नश्वरः, fem. नश्वरी 'transitory'; जित्वरः, fem. जित्वरी 'victorious'; सृत्वरः fem. सृत्वरी 'going, a river'. Though the affix begins with a letter of वल् *pratyahara*, and ought to have taken the intermediate इट् (7.2.35) yet it is prohibited by (7.2.8). Kashika ------- इण् नश् जि सर्ति इत्येतेभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु क्वरप् प्रत्ययो भवति। पकारस्तुगर्थः। इत्वरः। इत्वरी। नश्वरः। नश्वरी। जित्वरः। जित्वरी। सृत्वरः। सृत्वरी। **नेड् वशि कृति** (७.२.८) इतीट्प्रतिषेधः॥ Siddhanta Kaumudi ----------------- इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥ Balamanorama ------------ **इण्नश्जिसर्त्तिभ्यः क्वरप्** - इण्नशिजि । इण्, नशि, जि, सृ एभ्य क्वरप् स्यात्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । पित्त्वं तु तुगर्थम् । Tattvabodhini ------------- **इण्नश्जिसर्त्तिभ्यः क्वरप्** - इत्वरः । इत्वरीति । इण् गतौह्रस्वस्य पिती॑ति तुक् । कित्त्वाद्गुणाऽभावः ।टिड्ढे॑त्यादिना स्त्रियां ङीप् । Padamanjari ----------- इण्नश्जिसर्तिभ्यः क्वरप्॥ क्वरपः पकारः स्वरार्थः, तुगर्थश्च। इत्वरीति।'टिड्ढाणञ्' इत्यादिना ङीप्॥ Nyaas ----- `इत्वरः` इति। **ह्रस्वस्य पिति कृति तुक्** (6.1.71) । `इत्वरी` इति। `टिड्ढाणञ्` (4.1.15) इत्यादिना ङीप्॥ Prakriyasarvasvam ----------------- पित्त्वात् तुक् । उदित्वरः । नश्वरः । जित्वरः । सृत्वरः ॥ Sutra Prayogas -------------- * **विसृत्वरैः** (शिशुपालवधम्): `इण्नशजिसर्तिभ्यः क्वरप्` इति क्वरप्। * **जित्वरेण** (भट्टिकाव्यम्): `इण् नश - जि -` इत्यादिना क्वरप्। * **जित्वराणि** (भट्टिकाव्यम्): `इण्नशूजि` इत्यादिना करप्। * **जित्वरः** (भट्टिकाव्यम्): `इणू-नश्- जि` इति करप्।