32106: लिटः कानज्वा =================== **Padacheda:** लिटः | S | 6 | 1 | कानच् | S | 1 | 1 | वा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas), the affix लिट् (Perfect Tense) is optionally replaced by the affix कानच्। Vasu English Translation ------------------------ In the छन्दस् (Vedas), the affix लिट् (Perfect Tense) is optionally replaced by the affix कानच्। As अग्निं चिक्यानः 'he consecrated the fire'; सोमं सुषुवाणः 'he pressed the *soma* juice'. This being an optional affix, is sometimes not employed; as in the examples in the last aphorism. Why has the word *lit* been repeated in this *sutra*, when its *anuvritti* could have been drawn from the last *sutra* ? The substitute कानच् replaces not only the special लिट् of *sutra* (3.2.105), but the general लिट् which comes after the roots in forming the perfect tense; so that the affix कानच् forms verbal adjectives as well as the perfect tense. This affix comes after those verbs only which take *Atmanepada* terminations. See (1.4.100). तूतुजान (*Rig*. *Ved*. (1.3.6)). Bhashya ------- लिटः कानज्वा (873) (508 लिटः कानज्विधिसूत्रम्॥ 3 । 2 । 2 आ.6 ) (वाग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं कानच्क्वस्वोर्वावचनं क्रियते। - कानच्क्वस्वोर्वावचनं छन्दसि तिङो दर्शनात्- (भाष्यम्) कानच्क्वस्वोर्वावचनं क्रियते। छन्दसि तिङो दर्शनात्। छन्दसि तिङपि दृश्यते - अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततानेति॥ (2080 समाधानासंगतिवार्तिकम्॥ 2 ॥) - न वानेन विहितस्यादेशवचनात्- (भाष्यम्) न वा एतत्प्रयोजनमस्ति। किं कारणम्?। अनेन विहितस्यादेशवचनात्॥ (आक्षेपभाष्यम्) अस्त्वनेन विहितस्यादेशः। केनेदानीं छन्दसिविहितस्य लिटः तिङः श्रवणं भविष्यति॥ (समाधानभाष्यम्) छन्दसि लुङ्लङ्लिटः इत्यनेन। तदेतद्वावचनं तिष्ठतु तावत् सांन्यासिकम्॥ (कित्करणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ कित्करणं किमर्थम्। न असंयोगाल्लिट्कित् इत्येव सिद्धम्। (2081 प्रयोजनवार्तिकम्॥ 3 ॥) - कित्करणं संयोगान्तार्थम्- (भाष्यम्) कित्करणं क्रियते। संयोगान्तार्थम्। संयोगान्ताः प्रयोजयन्ति। बन्धे वृत्रस्य यद्बद्धधानस्य रोदसी। त्वमर्णवान् बद्बधानाँ अरम्णाः। अञ्ञ्चेः आजिवानिति॥ (प्रयोजननिराकरणभाष्यम्) छान्दसौ कानच्क्वसू। लिट् च छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिद् ङिद्वद्भवति। ङित्त्वादुपधालोपे भविष्यति॥ (2082 प्रयोजनान्तरवार्तिकम्॥ 4 ॥) - ऋकारान्तगुणप्रतिषेधार्थं वा- (भाष्यम्) ऋकारान्तानां गुणप्रतिषेधार्थं तर्हि कित्त्वं वक्तव्यम्। अयं हि लिटि ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते। स यथैवेह प्रतिषेधं बाधित्वा गुणो भवति - तेरतुः तेरुरिति। एवमिहापि स्यात् - तितीर्वान्, तितिराण इति। पुनः कित्करणात् प्रतिषिध्यते। तस्मात्कित्त्वं कर्तव्यम्॥ लिटः कानञ्ञ्वा॥ 106 ॥ Kashika ------- छन्दसि लिटः कानजादेशो भवति वा। अ॒ग्निं॑ चि॒क्या॒नः॑ (मै०सं० ३. ३.९)। सोमं सुषुवा॒णः॑ (मै०सं० ४.४.१०)। वरु॑णं सुषुवा॒णम् (तै०सं० २.१.९.१.) । न च भवति — अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९.)। अनु॒ द्यावा॑पृथि॒वी आत॑तान (तै०ब्रा० १.२.१.२३)। लिड्ग्रहणं किम्, न पूर्वस्यैव प्रकृतस्यादेशविधाने विभक्तिविपरिणामो भविष्यति? लिण्मात्रस्य यथा स्यात्, योऽपि परोक्षे विहितस्तस्याप्ययमादेशो भवति॥ Balamanorama ------------ **लिटः कानज्वा** - लिटः कानज्वा । Padamanjari ----------- लिटः कानज्वा॥ चिक्यान इति।'चिञ् चयने' 'विभाषा चेः' इति कुत्वम्, ठेरनेकाचःऽ इति यणादेशः। न च भवतीति। वावचनस्य प्रयोजनं दर्शयति। वाऽसरूपविधिश्च लादेशेषु नास्ति,'हशश्वतोर्लङ् च' इति वचनादित्युक्तम्। नन्वनन्तरसूत्रविहितस्य लिटो नित्यमादेशोस्तु, यस्तु'च्छन्दसि लुङ्लङ्लिटः' इति लिट्, तत्र तिङं श्रवणं भविष्यति? न; तस्य धातुसम्बन्धविषयत्वादधातुसम्बन्धे तिङं श्रवणं न स्यात्। लिण्मात्रस्य च ग्रहणमित्यनन्तरमेव वक्ष्यति। पूर्वस्यैवेत्यादि। प्रत्ययान्तरं तु कानज् न भवति, वावचनाद्वाऽसरूपविधिनैव लुङदीनां सिद्धत्वादिति भावः। लिण्मात्रस्येति। भाष्ये त्वन्तरस्यैव लिटोऽयमादेशः, लिङ्ग्रहणं च प्रत्ययान्तरत्वं मा विज्ञायीति। वावचनं चोतरार्थमिति स्थितम्। कानचश्चित्करणं स्वरार्थम्। कित्करणं किमर्थम्, न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्, तेन ईजानस्तेपान इत्यादौ संप्रसारणैत्वाभ्यासलोपादिकार्य भविष्यति? संयोगान्तार्थम् -'बन्ध बन्धने' 'वृतस्य यद्वद्वधानस्य, त्वमर्णवान् बद्वधाना अरम्णा' अत्र ठनिदिताम्ऽ इति नलोपः, छान्दसत्वादभ्यासधकारस्य हलादिश्शेषेण निवृत्यभावे'झलां जश् झशि' इति जश्त्वं दकारः। ननु छान्दसः कानच् लिट् च च्छन्दसि सार्वधातुकमपि भवति,'च्छन्दस्युभयथा' इति वचनात्, तत्र'सार्वधातुकमपित्' इति ङ्त्विं ङ्तीत्युपिधालोपो भविष्यति? न च संयोगान्तेषु कित्वङ्त्वियोर्विशेषोऽस्ति। ऋकारान्तगुणप्रतिषेधार्थ तु, ठृच्छत्यृताम्ऽइति ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते स यथेह भवति - परितस्तरे इति, एवमिहापि स्यात् - परितिस्तिराण इति, तस्मात्कित्करणम्। कित्करणसामर्थ्याद्भाषायामपि कानजस्तीत्येततु भाष्यविरोधातुपेक्ष्यम्॥ Nyaas ----- कानचश्चिकरणमन्तोदात्तार्थम्। कित्करणं कित्कार्यार्थम्। तत्पुनः `बन्ध बन्धने` (धातुपाठः-1508) इत्येवमादयः संयोगान्ताः प्रयोजन्ति,नान्ये। असंयागान्तेभ्यः **असंयोगाल्लिट् कित्** (1.2.5) इति सिद्धः, संयोगान्ता अपि कित्त्वं भाषायां प्रयोजयन्ति, न छन्दसि। तत्राह - **छन्दस्युभयथा** (6.4.86) इति लिटः सार्वधातुकत्वात् **सार्वधातुकमपित्** (1.2.4) इति ङित्त्वमस्त्येव। न कित्त्वे ङित्त्वे वा च्छन्दसि कश्चिद्विशेषोऽस्ति। भाषायां तु यद्यसंयोगान्तेभ्यः कित्त्वं न स्याद्योऽयं `ऋच्छत्यृताम्` (7.4.11) इति गुणः प्रतिषेधविषय आरभ्यते स यथेह न भवति - निपपरतुः, निपपरुरिति;तथेहापि स्यात् - निपपुराण इति; कित्त्वे च सति न भवति। भाषायां तु कित्त्वमर्थवद्भवति। `पृ पालन पूरणयोः` (धातुपाठः-1086), निपूर्वात् कानच्। द्विर्वचनात् परत्वात् `उदोष्ठपूर्वस्य` (7.1.102) इत्युत्त्वम्, रपरत्वञ्चेति। **द्विर्वचनेऽचि** (1.1.59) इति स्थानिवद्भावात् पृशब्दो द्विरुच्यते। उरत्त्वरपरत्वहलादिशेषाः, अट्कुप्वादिना (8.4.2) णत्वम्। भाषायां कानज्भवीत्यस्मादेव ज्ञापकादवसीयते। `चिक्यानःट इति। अभ्यासादुत्तरस्य चिनोतेश्चकारस्य **विभाषा चेः** (7.3.58) इति कुत्वम्, `एरनेकाचः` (6.4.82) इत्यादिना यणादेशः। `सुषुवाणः` इति। `{सुनोतेरिति-इति मुद्रितः पाठः।} सुनोतेरिति; `अचि श्नुधातु` (6.4.77) इत्यादिनोवङादेशः, **आदेशप्रत्यययोः** (8.3.59) इति षत्वम्। `विभक्तिविपरिणामो भविष्यति` इति। यद्यपि लिडिति प्रथमान्तं प्रकृतं तथाप्यर्थाद्विभक्तिविपरिणामो भविष्यति। आदेशम्बन्धादुत्तरस्य लिटः षष्ठन्तता भविष्यति।तस्मादन्तरेणापि लिड्ग्रहणं प्रकृत्वाल्लिट एव कानजादेशो भविष्यतीति लिड्ग्रहणं न कर्तव्यमिति भावः। `योऽपि` इत्यादि। योऽपि **परोक्षे लिट्** (3.2.115) इत्यनेनलिड्विहितस्तस्यापि लिड्ग्रहणे सति कानजादेशो भवति। असति तु तस्मिन् `अनन्तरस्य विधिर्वा प्रतिषेधो वा` (व्या।प।19) इत्यस्यैव स्यात्, न परोक्षे लिटः। अथासति लिड्ग्रहणे प्रत्ययान्तरं कानच् कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्, प्रत्ययान्तरे हि `न लोकाव्ययनिष्ठाखलर्थतृनाम्` (2.3.69) इति षष्ठीप्रतिषेधो न स्यात्। ततश्चाग्न चिक्यान इत्यत्राग्निशब्दात् षष्ठी स्यात्॥। Prakriyasarvasvam ----------------- वेदे सर्वलिटः कानजादेशो वा स्यात् । कानच आत्मनेपदत्वादात्मनेपदि- नामेव । लिट्त्वात् द्वित्वादि । चक्राणः वेत्युक्तेश्चक्रे जाग्रः कानचि गुणो वेति कौमुदी । जाजाग्राण6 । जजाग्राण7 'व्यत्ययो बहुलं' (३-१-८५) इति परस्मै- पदिनोऽपि कानच् ।