32105: छन्दसि लिट् ================== **Padacheda:** छन्दसि | S | 7 | 1 | लिट् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas), the affix लिट् (Perfect Tense) comes after a verb with a past signification. Vasu English Translation ------------------------ In the छन्दस् (Vedas), the affix लिट् (Perfect Tense) comes after a verb with a past signification. As अहं सूर्यमुभयतो ददर्श 'I saw the sun from both sides'; अहं द्यावापृथिवी आततान 'I stretched the heaven and the earth'. Here the words ददर्श and आततान have the force of *nishtha*. See *Yaj*. *Ved*. (VIII.9). Why this separate *sutra*, when by aphorism (3.4.61), in the *Chhandas* the *lun*, *lan* and *lit* come in all tenses ? That rule is made with regards to two or more verbs when in syntactical relation (धातुसम्बन्ध) with each other (3.4.1). The present rule is general, and without any such limitations. *Lit* is the affix of the Present Perfect and will be fully treated of in the conjugation of verbs. Kashika ------- भूत इत्येव। छन्दसि विषये धातोर्लिट् प्रत्ययो भवति। अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९)। अनु॒ द्यावा॑पृथि॒वी आत॑तान (तै०ब्रा० १.२.१.२३)। ननु च **छन्दसि लुङ्लङ्लिटः**(३.४.६) इति सामान्येन लिड् विहित एव? धातुसंबन्धे स विधिः, अयं त्वविशेषेण॥ Balamanorama ------------ **छन्दसि लिट्** - छन्दसि लिट् । Tattvabodhini ------------- **छन्दसि लिट्** - छन्दसि लिडिति सूत्रस्यार्थमाह — भूतसामान्ये इति । न चछन्दसि लुङ्लङ्लिटः॑ इत्यनेन गतार्थता शङक्या, धातुसंबन्धाधिकारे हि स विधिः, इदं तु धातुसंबन्धं विनापि भवतीति विशेषात् । अत्र व्याचख्युः — कानचः कित्करणं तिस्तिराण इत्यत्रऋच्छत्यृता॑मिति गुणस्य निषेधार्थं सति प्रतिषेधविषये आरभ्यते ।चक्राण॑ इत्यत्र तुअसंयोगाल्लिट्व॑दित्येव सिद्धं कित्त्वमिति । त्रिमुनिमतमिति । सूत्रकृता छन्दसीति प्रक्रान्तत्वादुत्तरसूत्रे भाषाग्रहणाच्च, भाष्यवार्तिकयोरपि क्वसुकानचोःछन्दस्युभयथे॑ति वचनात्सार्वधातुकत्वेनसार्वधातुकमपि॑ दिति ङित्त्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमाशङ्क्य तितीर्वान् तिस्तिराण इत्यादौऋच्छत्यृता॑मिति प्राप्तस्य गुणस्य बाधानार्थं कित्करणमिति सिद्धान्तितत्वात् । अत एव कित्करणसामर्थ्याद्भाषायामपि क्वसुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिग्रन्थे स्पष्टमिति भावः । कवयरित्वति । गतानुगतिकतयेति भावः । Padamanjari ----------- च्छन्दसि लिट्॥ आततानेति।'णलुतमो वा' इति णित्वपक्षे वृद्धिः। धातुसम्बन्धे स विधिरिति।'धातुसम्बन्धे प्रत्ययाः' इत्यधिकारात्। लिट इकारटकारौ विशेषणार्थौ,'लिटः कानज्वा' 'लिट।ल्भ्यासम्योभयेषाम्' इत्यादौ'ल' इत्युच्यमानेऽन्येषामपि लङदीनां ग्रहणं स्यात्, निरनुबन्धकत्वादस्यैव ग्रहणं भविष्यति। परोक्षे लिटोऽपि तर्हि न प्राप्नोति? टकारष्टेरेत्वार्थश्च॥ Nyaas ----- `ददर्श` इति। दर्शर्लिट, णल्, द्विर्वचनम्, `उरत्` (7.4.66) इत्यत्त्म्, रपरत्वम्, हलादिशेषः (7.4.60) , लघूपधगुणः (7.3.86) । `आततान` इति। `तनु विस्तारे` (धातुपाठः-1463) आङपूर्वः, **अत उपधायाः** (7.2.116) इति वृद्धिः। `धातुसम्बन्धे स विधिः` इति। **धातुसम्बन्धे प्रत्ययाः** (3.4.1) इत्यतो धातुसम्बन्धग्रहणानुवृत्तेः। `अयं त्वविशेषणेण` इति। भूतमात्रे। लिट इकारटकारावुत्तरसूत्रे विशेषणार्थौ। `लः कानज्वा` इत्युच्यमाने लकाराणां ग्रहणं स्यात्। टकारष्टेरेत्वार्थः॥ Prakriyasarvasvam ----------------- भूतभावे लिट् स्यात् । अहं द्यावापृथिवी आविवेश ।