24072: अदिप्रभृतिभ्यः शपः ========================= **Padacheda:** अदि-प्रभृतिभ्यः | S | 5 | 3 | शपः | S | 6 | 1 | Sutrartha --------- **अदादिगणस्य धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् भवति ।** सर्वेभ्यः धातुभ्यः **कर्तरि शप्** (3.1.68) इति सूत्रेण सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकतया 'शप्' इति विकरणप्रत्ययः विधीयते । अदादिगणस्य धातुभ्यः विहितस्य शप्-प्रत्ययस्य वर्तमानसूत्रेण 'लुक्' भवति (लोपः भवति) । कानिचन उदाहरणानि एतादृशानि - 1) अदँ (भक्षणे) धातोः लट्लकारस्य प्रथमपुरुष-एकवचनस्य रूपम् - अद् + लट् [ **वर्तमाने लट्** (3.2.123) इति लट् ] → अद् + तिप् [ **तिप्तस्झि..** (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः ] → अद् + शप् + ति [ **कर्तरि शप्** (3.1.68) इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ] → अद् + ति [ **अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक् ] → अत्ति [ **खरि च** (8.4.55) इति चर्त्वम् ] 2) अदँ (भक्षणे ) धातोः लङ्-लकारस्य मध्यमपुरुष-एकवचनस्य रूपम् - अद् + लङ् [ **अनद्यतने लङ्** (3.2.111) इति लङ् ] → आट् + अद् + लङ् [ **आडजादीनाम्** (6.4.72) इति लङ्-लकारे परे अजादेः अङ्गस्य आडागमः ] → आ + अद् + सिप् [**तिप्तस्झि…** (3.4.78) इति मध्यमपुरुष-एकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः ] → आ + अद् + शप् + सिप् [**कर्तरि शप्** (3.1.68) इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ] → आ + अद् + सिप् [ **अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक् ] → आ + अद् + स् [ **इतश्च** (3.4.100) इति इकारलोपः, पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा ] → आ + अद् + अट् + स् [ **अदः सर्वेषाम्** (7.3.100) इति अपृक्त-स्-प्रत्ययस्य अट्-आगमः ] → आ + अद् + अ + स् [ **हलन्त्यम्** (1.3.3) इति टकारस्य इत्संज्ञा, **तस्य लोपः** (1.3.9) इति तस्य लोपः ] → आदस् [ **आटश्च** (6.1.90) इति वृद्धि-एकादेशः , वर्णमेलनम् ] → आदरुँ [ **ससजुषो रुः** (8.2.66) इति रुँत्वम् ] → आदः [ **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गनिर्माणम् ] 3) द्विषँ (अप्रीतौ) इति अदादिगणस्य धातोः लट्-लकारस्य प्रथमपुरुष-एकवचनस्य रूपम्- द्विष् + लट् [ **वर्तमाने लट्** (3.2.123) इति लट् ] → द्विष् + तिप् [ **तिप्तस्झि..** (3.4.78) इति प्रथमपुरुष-एकवचनस्यविवक्षायाम् 'तिप्' प्रत्ययः ] → द्विष् + शप् + ति [ **कर्तरि शप्** (3.1.68) इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ] → द्विष् + ति [ **अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक् ] → द्वेष् + ति [ **पुगन्तलघूपधस्य च** (7.3.86) इति सार्वधातुके 'तिप्' प्रत्यये परे लघूपध-अङ्गस्य इक्-वर्णस्य गुणः , इति इकारस्य एकारः ] → द्वेष्टि [ **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम् ] ज्ञातव्यम् - 1. **तिङ्शित्सार्वधातुकम्** (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । 2. 'लुक्' इति प्रत्ययलोपस्य किञ्चन विशिष्टं नाम । अस्मिन् विषये **प्रत्ययस्य लुक्श्लुलुपः** (1.1.61) इत्यत्र विस्तारेण उक्तमस्ति । शास्त्रविषयः - 1. गरुडपुराणे 'न विश्वसेत् अविश्वस्तम्' इति कश्चन प्रयोगः दृश्यते । अत्र 'वि + श्वस्' इत्यस्य अदादिगणस्य धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'विश्वसेत्' इति प्रयुक्तमस्ति । वस्तुतस्तु 'वि + श्वस्' धातोः विधिलिङ्लकारस्य साधु रूपम् 'विश्वस्यात्' इति अस्ति, यतः प्रक्रियायां **अदिप्रभृतिभ्यः शपः** (2.4.72) इत्यनेन शप्-विकरणस्य लोपः क्रियते चेत् 'यासुट्' इत्यस्य यकारस्य 'इय्' आदेशः एव न भवति (यतः **अतो येयः** (7.2.80) इत्यस्य प्रसक्तिः तत्र न वर्तते) । यदि प्रक्रियायाम् शप्-विकरणस्य लोपः न भवति, तदा एव **अतो येयः** (7.2.80) इत्यनेन 'यासुट्' इत्यस्य 'इय्' इति आदेशं कृत्वा ततः 'विश्वसेत्' इति रूपं साधयितुम् शक्यते । अतः अस्य प्रयोगस्य समर्थनार्थमनेके वैयाकरणाः 'गणकार्यमनित्यमस्ति' इति वदन्ति । इत्युक्ते, तेषां मतेन विकरणविधानम् तस्य लोपः च 'अनित्यः' अस्ति, प्रक्रियायां कुत्रचित् नैव भवितुमर्हति - इति । अयं पक्षः स्वीक्रियते चेत् 'वि + श्वस्' इत्यस्य विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् 'शप्' विकरणस्य लोपं अकृत्वा 'विश्वसेत्' इत्यस्य साधुत्वं प्रदर्शयितुम् शक्यते । एतम् पक्षम् मनसि निधाय नागेशः परिभाषेन्दुशेखरे **गणकार्यमनित्यम्** इति काञ्चन परिभाषां पाठयति (परिभाषेन्दुशेखरः 96) । अनया परिभाषया गणकार्यस्य अनित्यत्वं संज्ञाप्य 'विश्वसेत्' सदृशाः प्रयोगाः सिद्ध्यन्ति । परन्तु इयं परिभाषा भाष्यकारेण कुत्रापि न पाठिता लभ्यते, अतः नागेशः अपि इमां परिभाषां न स्वीकरोति (प्रत्याचष्टे इत्याशयः । Mentions the paribhasha and then rejects its correctness) । इत्युक्ते, भाष्यकारस्य नागेशस्य च मतेन 'विश्वसेत्' तथा तत्सदृशाः अन्ये प्रयोगाः अपाणिनीयाः / आर्षप्रयोगाः एव ज्ञातव्याः । 2. (प्रश्नः) - **कर्तरि शप्** (3.1.68) इत्यनेन अदिप्रभृतिभ्यो शपः विधानं कृत्वा पुनः तस्य लुकः किं प्रयोजनम् ? मूलरूपेणैव शपः विधानं नैव क्रियेत (इत्युक्ते -'कर्तरि शप्, अदिप्रभृतिभ्यो न' इत्येव उच्यते) चेत् कः दोषः ? उत्तरम् - यदा शप्-प्रत्ययस्य विधानं कृत्वा ततः तस्य लोपः क्रियते, तदा अदादिगणस्य धातवः 'लुग्विकरणत्वम्' प्राप्नुवन्ति । (येभ्यो विहितस्य विकरणप्रत्ययस्य लुक् भवति ते लुग्विकरणाः) । अतएव **लुग्विकरणालुग्विकरणयोः अलुग्विकरणस्य** इति परिभाषया **गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु** (2.4.77) इत्यत्र केवलं भ्वादिगणस्य 'पा' धातोः एव ग्रहणं भवति, अदादिगणस्य 'पा' धातोः न । अनेनैव अदादिगणस्य 'पा' धातो' लुङि 'अपासीत्' इति इष्टरूपं सिद्ध्यति । यदि अदिप्रभृतिभ्यः शप्-प्रत्ययः नैव उक्त्वा तस्य लोपोऽपि न क्रियेत, तर्हि अदादिगणस्य धातवः 'लुग्विकरणत्वम्' न प्राप्नुयुः । अस्या स्थितौ पा-धातोः विषये **गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु** (2.4.77) इत्यस्य प्राप्तिः स्यात् । अनेन 'अपात्' इति अनिष्टं रूपं सिद्ध्येत । अतएव अदादिगणस्य धातूनां विषये शपः विधानं कृत्वा तस्य लुक् अपि क्रियते । Vasu English Summary -------------------- After the verb अद् 'to eat' and the rest there is लुक् elision of the विकरण शप् -- कर्तरि शप् (3.1.68). Vasu English Translation ------------------------ After the verb अद् 'to eat' and the rest there is लुक् elision of the विकरण शप् -- कर्तरि शप् (3.1.68). Thus अद् + शप् + ति = अत्ति 'he eats'; हन्ति 'he kills;' द्वेष्टि 'he envies.' The *Adadi* verbs belong to the second conjugation. In this class of verbs, therefore, the terminations are added direct to the root. Kashika ------- अदिप्रभृतिभ्य उत्तरस्य शपो लुग् भवति। अत्ति। हन्ति। द्वेष्टि॥ Siddhanta Kaumudi ----------------- {$ {!1011 अद!} भक्षणे$} । द्वौ परस्मैपदिनौ ॥ लुक्स्यात् । अत्ति । अत्तः । अदन्ति ॥ Laghu Siddhanta Kaumudi ----------------------- ॥ {$ {! 1 अद !} भक्षणे $} (धातुपाठे (02.0001)) ॥ लुक् स्यात्। अत्ति। अत्तः। अदन्ति। अत्सि। अत्थः। अत्थ। अद्मि। अद्वः। अद्मः॥ Balamanorama ------------ **अदिप्रभृतिभ्यः शपः** - अदिप्रभृतिभ्यः ।ण्यक्षत्रियार्षञितः॑ इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लुक् स्यादिति । अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अत्तीति । शपो लुकि दस्य चर्त्वेन तकारः । एवमत्त इत्यपि । अदन्तीति । तदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः । अत्सि अत्थः अत्थ । अद्मि अद्वः अद्मः । Padamanjari ----------- अदिप्रभृतिभ्य शपः॥ कथम्' न विश्वसेदविश्वस्ते विश्वस्ते' पि न विश्वसेद्ऽ इति, तथा भट्टिकाव्ये - ठाश्वसेयुर्निशाचराःऽ इति, तथा'न विश्वसेत्पूर्वविरोधितस्य' इति? निरङ्गशाः कवयः। अपर आह -'क्षमूष् सहने' घटादिः; तत्र'घटादयः षितः' इति सिद्धे षित्करणं ज्ञापकम् - अनित्यं गणकार्थमिति, तेनैवमादिप्रयोगोपपतिरिति नात्र किञ्टचिदपभाषितमस्ति॥ Prakriyasarvasvam ----------------- अदादिभ्यो धातुभ्यः परस्य शपो लुक् स्यात् । इति शबपाये खशः शित्त्वेन ङित्त्वाद्गुणः । वहः स्कन्धः, वहंलिहो गौः । अभ्रंलिहस्तरुः । बाहुंलिहश्च कौमुद्याम् ।