24071: सुपो धातुप्रातिपदिकयोः ============================= **Padacheda:** सुपः | S | 6 | 1 | धातु-प्रातिपदिकयोः | S | 6 | 2 | Sutrartha --------- **धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति ।** यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति । कानिचन उदाहरणानि एतानि - 1. 'राज्ञः पुरुषः' इत्यत्र **षष्ठी** (2.2.8) अनेन सूत्रेण षष्ठीतत्पुरुषः समासः भवितुमर्हति । अत्र 'राज्ञः पुरुषः' इति स्थिते प्रक्रियायाम् पदयोः अलौकिक-विग्रहं कृत्वा 'राजन् + ङस् + पुरुष + सुँ ' इति जायते । एतत् समस्तपदमस्ति, अतः **कृत्-तद्धित-समासाश्च** (1.2.46) इत्यनेन अस्य शब्दस्य प्रातिपदिकसंज्ञा भवति । इदानीमस्मिन् प्रातिपदिके 'ङस्' तथा 'सुँ' एतौ द्वौ सुप्-प्रत्ययौ अवयवरूपेण उपस्थितौ स्तः । अतः एतयोः वर्तमानसूत्रेण 'लुक्' (लोपः) भवति । अतः 'राजन् + पुरुष' इति अवशिष्यते । अत्र 'राजन्' शब्दात् परस्य ङस्-प्रत्ययस्य लुक्-कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन ङस्-प्रत्ययस्य लक्षणम् (= पदत्वम्) 'राजन्' शब्दस्य विषये अपि विधीयते । अतः 'राजन्' अयं शब्दः, यः मूलरूपेण प्रातिपदिकसंज्ञकः तु अस्ति एव, इदानीम् पदसंज्ञकः अपि भवति । एतादृशम् पदसंज्ञकं यत् प्रातिपदिकम्, तस्य अन्तिम-नकारस्य **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन लोपः भवति, अतः 'राजपुरुष' इति समस्तपदम् जायते । 2. 'उपगोः अपत्यम्' इत्यत्र **तस्यापत्यम्** (4.1.92) अस्मिन् अर्थे **प्राग्दीव्यतः अण्** (4.1.83) इत्यनेन 'उपगोः' इति समर्थात् 'अण्' प्रत्ययः विधीयते । अत्र 'उपगोः + अण्' इति स्थिते अलौकिकविग्रहं कृत्वा 'उपगु + ङस् + अण्' इति जायते । अत्रापि **कृत्-तद्धित-समासाश्च** (1.2.46) इत्यनेन अस्य तद्धितप्रत्ययान्तशब्दस्य प्रातिपदिकसंज्ञा भवति, अतः अस्मिन् प्रातिपदिके उपस्थितस्य ङस्-प्रत्ययस्य वर्तमानसूत्रेण 'लुक्' भवति । अतः 'उपगु + अण्' इति अवशिष्यते । अग्रे **तद्धितेष्वचामादेः** (7.2.117) इत्यनेन आदिवृद्धिं कृत्वा, तथा **ओर्गुणः** (6.4.146) इत्यनेन उकारस्य गुणादेशं कृत्वा 'औपगव' इति प्रातिपदिकं सिद्ध्यति । 3. 'पुत्रमात्मनः इच्छति' इत्यस्मिन् अर्थे 'पुत्रम्' इति सुबन्तात् **काम्यच्च** (3.1.9) अनेन सूत्रेण 'काम्यच्' अयम् सनादिप्रत्ययः विधीयते । 'पुत्रम् + काम्यच्' इत्यस्य अलौकिकविग्रहं कृत्वा 'पुत्र + अम् + काम्यच्' इति जायते । अयं सनादि-प्रत्ययान्तः शब्दः अस्ति, अतः **सनाद्यन्ताः धातवः** (3.1.32) इत्यनेन अयम् धातुसंज्ञां प्राप्नोति । एवं स्थिते अस्मिन् धातौ विद्यमानः यः 'अम्' इति सुप्-प्रत्ययः, तस्य वर्तमानसूत्रेण लोपः विधीयते । अनेनैव 'पुत्रकाम्य' इति आतिदेशिकधातुः जायते, यस्य अग्रे तथाविहिताः विकरणतिङादयः प्रत्ययाः भवन्ति (यथा - 'पुत्रकाम्यति' - आदयः) । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'धातोः / प्रातिपदिकस्य सुप्-प्रत्ययः' इति उच्यते । **तदन्तर्गताः तद्ग्रहणेन गृह्यन्ते** अनया परिभाषया अत्र 'धातोः / प्रातिपदिकस्य' इत्यनेन यतोः अन्तर्गतानां सुप्-प्रत्ययानाम् ग्रहणं भवति । 2. कौमुद्यामत्र एकं वात्तिकमुक्तमस्ति - । इत्युक्ते, 'इव' शब्देन सह समासः क्रियते चेत् वर्तमानसूत्रेण सुप्-प्रत्ययस्य लोपः न भवति । यथा - 'जीमूतस्य इव = जीमूतस्येव' । अत्र ङस्-प्रत्ययस्य वर्तमानसूत्रेण निर्दिष्टः ङस्-प्रत्ययस्य लोपः अनेन वार्त्तिकेन निषिध्यते । 3. अनेन सूत्रेण सुप्-प्रत्ययस्य 'लुक्' विधीयते । 'लुक्' इति प्रत्ययस्य विशिष्टप्रकारस्य लोपः । **प्रत्ययस्य लुक्-श्लु-लुपः** (1.1.61) इत्यनेन इयं संज्ञा विधीयते । अत्र 'लुक्' इति किमर्थमुक्तमस्ति? प्रत्ययस्य यदा 'लुक्' इत्यनेन लोपः भवति, तर्हि लुप्त-प्रत्ययस्य कारणात् **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन जायमानं यत् 'अङ्गकार्यम्', तस्य **न लुमताङ्गस्य** (1.1.63) इत्यनेन निषेधः भवति । यथा - 'राजन् + ङस् + पुरुष + सुँ' अत्र ङस्-प्रत्ययस्य लोपे कृते ङस्-प्रत्ययस्य यत् अङ्गकार्यम् (**अल्लोपोऽनः** (6.4.134) इत्यनेन उपधा-अकारस्य लोपः) तस्य प्रसक्तिः नास्ति । अतः 'राजपुरुष' इत्यत्र जकारात् परः यः अकारः, तस्य लोपः न जायते । (केवलं अङ्गकार्यस्यैव अत्र निषेधः भवति, अन्येषां कार्याणाम् न - एतत् स्मर्तव्यम् । अतः **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन 'राजन्' इत्यस्य नकारः तु अत्रापि लुप्यते) । Sutrartha (English) ------------------- A सुप् प्रत्यय that comes as a part of a धातु or a प्रातिपदिक is removed. Vasu English Summary -------------------- There is लुक् elision of the case-affix of a word when it gets the name of धातु 'root' or is of a crude form. Vasu English Translation ------------------------ There is लुक् elision of the case-affix of a word when it gets the name of धातु 'root' or is of a crude form. A noun is changed into a root (धातु) when it is made a denominative verb. As पुत्रीयति (3.1.8) he wishes for a son of his own. A noun which forms part of a compound becomes a crude-form (1.2. 46); as कष्टश्रितः 'having recourse to pain.' राजपुरुषः 'king's man.' In all these examples, the case affixes have been elided. Thus पुत्रम् इच्छति = पुत्रीयति, here the 2nd case-affix is elided. कष्टश्रितः = कष्टश्रित &c. Why do we say 'when it gets the name of : धातु or प्रातिपदिक ? Because when it gets any other name, such as अङ्क &c., the case-affix is not elided. Thus वृक्षः, प्लक्षः । Kashika ------- सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञायाश्च लुग् भवति। तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते। धातोस्तावत् — पुत्रीयति। घटीयति। प्रातिपदिकस्य — कष्टश्रितः। राजपुरुषः। धातुप्रातिपदिकयोरिति किम्? वृक्षः। प्लक्षः॥ Siddhanta Kaumudi ----------------- एतयोरवयवस्य सुपो लुक् स्यात् । भूतपूर्वे चरट् (SK1999) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः । (वार्तिकम्) ॥ जीमूतस्येव ॥ Laghu Siddhanta Kaumudi ----------------------- एतयोरवयवस्य सुपो लुक्॥ Balamanorama ------------ **सुपो धातुप्रातिपदिकयोः** - सुपो धातु ।धातुप्रातिपदिकयो॑रित्यवयवषष्ठीत्याह — एतयोरवयवस्येति । लुक्स्यादिति ।ण्यक्षत्रियार्षञितो यूनि लुक् इत्यतस्तदनुवृत्तेरिति भावः । न च 'सुप' इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्,पञ्चम्याः स्तोकादिभ्यः॑ इत्यलुग्विधानात्सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात् । नचैव मपि पूर्वं भूत इति लोकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाऽभावात् कथं लुगिति वाच्यं, 'सुपो धातु' इति लुग्विषयेअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ #इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवाऽलौकिकविग्रहवाक्ये समासप्रवृत्तिरितिप्रत्ययोत्तरपदयोश्च॑ इति सूत्रभाष्ये स्थितम् ।कृत्तद्धितसमासाश्च॑ इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम् । 'भस्त्रैषा' इति सूत्रव्याख्यावलरे प्रपञ्चितं चास्माभिः । एवंच पूर्व अम् भूत सित्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्तेर्नोक्तदोषः । तथाच सुपो लुकि भूतपूर्वेति स्थितम् । ननुसुबन्तं सुबन्तेन समस्यते॑ इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वं च द्वयोरप्यविशिष्टम् । ततश्चप्रथमानिर्दिष्टं समास उपसर्जनम् इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात्उपसर्जनं पूर्व॑मित्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह — भूतपूर्वे चरडिति । पूर्वं भूत इति । लौकिकविग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति समासत्वेन प्रातिपदिकत्वात्समुदायात्पुनर्यथायथं सुबुत्पत्तिरिति भावः ।इवेनेति । इवेत्यव्ययेन सुबन्तस्य समासः । 'सुपो धातु' इति लुगभावः । पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, न तु समासस्वर इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् । अन्यथा अत्र इवशब्दस्यापि सुबन्तत्वाऽविशेषात्समासशास्त्रे प्रतमानिर्दिष्टत्वेनोपसर्जनत्वात्पूर्वनिपातः स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिट्स्वरेणान्तोदात्तत्वमेव , न तु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न,तत्र तस्येवे॑ति निर्देशात् । क्वाचित्कश्चायं समासः । अत एव बह्वचा एव पदपाठे अवगृह्णन्ति । याजुषास्तु भिन्ने एव पदे पठन्ति । 'उद्बाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाश्च सङ्गच्छन्ते ।हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणी॑मित्यत्र तु मातरमिवेति भवितव्यम् ।तिङ्समानाधिकरणे प्रथमा॑ 'अभिहिते प्रथमा' इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्येण च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमाया मातृसदृशीमित्यर्थे असाधुत्वादित्यस्तां तावत् । Tattvabodhini ------------- **सुपो धातुप्रातिपदिकयोः** - सुपो धातु । सुप इति प्रत्याहारस्य ग्रहणं,पञ्चम्याः स्तोकादिभ्यः॑ इत्याद्यलुक्समासविधानाज्ज्ञापकात् । निर्देशादिति । अन्यथा हि प्रथमानिदिष्टत्वाऽविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः ।इवेन समासो विभक्त्यलोपश्च । इवेनेति । अयमपि समासः पूर्ववत्क्वाचित्क एव । तेन जीमूतस्येवेत्यादौ तैत्तिरीयाणां पृथक्पदत्वन पाठः ।उद्बाहुरिव वामनः॑ इत्यादौ व्यस्तप्रयोगश्च सङ्गच्छत इति मनोरमायां स्थितम् । विभक्त्यलोपश्चेति । समासावयस्य सुपोऽलोपविधानेऽपि समासादुत्पन्नस्य सोरव्ययादिति लुग्भवत्येव, अनुपसर्जने तदन्तस्याप्यव्ययत्वादिति बोध्यम् । Padamanjari ----------- सुपो धातुप्रातिपदिकयोः॥ अत्र'सुपः' इति सप्तमीबहुवचनं न गृह्यते;'पञ्चम्या स्तोकादिभ्यः' इत्यादिना पञ्चम्यादीनामलुग्विधानात्। नापि कपः पकारेण प्रत्याहारः, तद्धितानां विधानसामर्थ्यात्; अन्यथा तद्धितान्तस्य प्रातिपदिकत्वातदवयवस्य सर्वस्यैव तद्धितस्य लुक् स्यात्,'द्विगोर्लुगनपत्ये' इत्येतच्चानर्थकं स्यात्। अतः सुशब्दादारभ्य सुपः पकारेण प्रत्याहार इत्याह - सुपो विभक्तेरिति। धातुप्रातिपदिकयोरिति यदि सप्तमी स्याद् धातुप्रातिपदिकयोः परतः सुपौ लुक् स्यात् - काष्ठ्èअः पचति, शोभनैः काष्ठ्èअरिति, तस्मात्षष्ठीयमित्याह - सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञाया इति। धातुः संज्ञा यस्यास्तस्या इत्यर्थः। कथं पुनर्विभक्तिर्धातुसंज्ञा प्रातिपदिकसंज्ञा वा भवति, तत्राह - तदन्तर्गता इति। एवमपि धातुप्रातिपदिकयोरवयवभूता विभक्तयः स्युर्न तत्संज्ञाः? नेष दोषः; समुदायेषु हि वृताः शब्दा अवयवेष्वपि वर्तन्ते। धातुप्रातिपदिकयोरवयवस्य सुप इत्यपि व्याख्याने न कश्चिद्दोषः। प्रत्युत'सुपः' इत्यस्य द्विवचनान्तेन सम्बन्धो न दुरुपपादो भवति, तथा तु न व्याख्यातमित्येव॥ Nyaas ----- `धातुप्रातिपदिकयोः` इति। यदीयं सप्तमी स्यात् तदाऽयमर्थो विज्ञायेत - धातौ च प्रातिपदिके च या सन्निकृष्टा विभ्कतिस्तस्या लुग्भवतीति। सन्निकृष्टत्वञ्चोपश्लेषमन्तरेण न सम्भवतीतीहापि स्यात् - वृक्षः प्लक्ष इति, अस्ति ह्यत्रापि प्रादिपदिकेन विभक्तेरुपश्लेषः। तस्मात् षष्ठीयं युक्तेति मत्वाह - `सुपो विभक्तेर्धातुसंज्ञायाः` इत्यादि। कथं पुनविभक्तेर्धातुसंज्ञा प्रातिपदिकसंज्ञा च भवतीत्यत आह - `तदन्तर्गता` इत्यादि। नन्वेमपि धातुप्रातिपदिकयोरेवकदेशीभूता विभक्तयः स्युः, न धातुसंज्ञकाः, नापि प्रातिपदिकसंज्ञकाः? समुदायेषु हि प्रवृत्ताः शब्दा अवयेवष्वपि वर्तन्त इत्यदोषः। `पुत्रीयती` #इति। आत्मनः पुत्रमिच्छतीति **सुप आत्मनः क्यच्** (3.1.8) **क्यचि च** (7.4.33) इतीत्त्वम्, **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा, सा च सुबन्तात् क्यज्विहित इति ससुप्कस्यैव भवतीति तेनात्र विभक्तिर्धात्वन्तर्गता भवति। `कष्टश्रितः` इति। कष्टं श्रित इति `द्वितीया श्रित` (2.1.23) इत्यादिना समासः। **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, सापि सुबन्तानां समासो भवतीति ससुप्कस्यैव भवति। तेनात्रापि विभक्तिः प्रातिपद#इकान्तर्गता भवति। वृक्षः, प्लक्ष इत्यत्राप्यप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधात् सविभक्तिकस्य प्रातिपदिकसंज्ञा नास्तीति नास्ति विभक्तेः प्रातिपदिकान्तर्भावः॥ Praudhamanorama --------------- **निर्देशादिति।** अन्यथा हि प्रथमानिर्दिष्टत्वाऽविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः। **इवेनेति।** अयमपि समासः पूर्ववत्क्वाचित्क एव। तेन 'जीमूतस्येव' इत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः 'उद्बाहुरिव वामनः' इत्यादौ व्यस्तप्रयोगोऽपि सङ्गच्छते। Prakriyasarvasvam ----------------- एतयोरंशस्य सुपो लुक् स्यात् । इति समासस्थविभक्तिलोपः व्यामवद्यः । क्यपि तु पः स्वराद्यर्थः । Sudha ----- **सुपो धात्विति ।** धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह — **एतयोरवयवस्येति** । **लुक् स्यादिति ।** **ण्यक्षत्रियार्षञितो यूनि लुक** (2.4.58) इत्यतस्तदनुवृतेरिति भावः । Sutra Prayogas -------------- * **नवनवत्वम्** (किरातार्जुनीयम्): `सुपो धातुप्रातिपदिकयोः` इति सुपो लुक्।