23064: कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ==================================== **Padacheda:** कृत्वोऽर्थ-प्रयोगे | S | 7 | 1 | काले | S | 7 | 1 | अधिकरणे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The 6th-Case-affix is used in denoting location (अधिकरण) after a word denoting time (काल) when used along with a word ending with an affix having the sense of कृत्वसुच् -- संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् (5.4.17) 'so many times'. Vasu English Translation ------------------------ The 6th-Case-affix is used in denoting location (अधिकरण) after a word denoting time (काल) when used along with a word ending with an affix having the sense of कृत्वसुच् -- संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् (5.4.17) 'so many times'. Ex. पंचकृत्वोऽऽह्नोभुंक्ते 'he eats five times a day.' In short, 'words meaning so many times, or the numeral adverbs of frequency, govern the genitive of time in the sense of locative.' As द्विरह्नोऽधीते 'he studies twice in a day.' Why do we say 'having the force of कृत्वसुच् ? Observe अह्नि शेते 'he sleeps in the day.' This rule will not apply when the adverb of frequency is understood, not expressed (*prayoga*) as in अहनि भुक्तम्. Nor when the time is not meant, as द्विः कांस्यापात्र्यां भुंक्ते 'he eats in two brass vessels.' So also when location is not meant : as द्विरह्नो भुंक्ते. The शेष being understood we have द्विरहन्यधीते. Kashika ------- छन्दसि बहुलमिति निवृत्तम्। कृत्वोऽर्थानां प्रत्ययानां प्रयोगे कालेऽधिकरणे षष्ठी विभक्तिर्भवति। पञ्चकृत्वोऽह्नो भुङ्क्ते। द्विरह्नोऽधीते। कृत्वोऽर्थग्रहणं किम्? अह्नि शेते। रात्रौ शेते। प्रयोगग्रहणं किम्? अहनि भुक्तम्। गम्यते हि द्विस्त्रिश्चतुर्वेति, न त्वप्रयुज्यमाने भवति। कालग्रहणं किम्? द्विः कांस्यपात्र्यां भुङ्क्ते। अधिकरण इति किम्? द्विरह्ना भुङ्क्ते। शेष इत्येव — द्विरहन्यधीते॥ Siddhanta Kaumudi ----------------- कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥ Balamanorama ------------ **कृत्वोऽर्थप्रयोगे कालेऽधिकरणे** - कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थो येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति ।दिवस्तदर्थस्ये॑त्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतोऽधिकरणीभूतं यदहस्तत्संबन्धि भोजनमित्यर्थः ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति ।द्वित्रिचतुभ्र्यः सुच् इति कृत्वोऽर्थे सुच् । अत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव,नतु षष्ठी । Tattvabodhini ------------- **कृत्वोऽर्थप्रयोगे कालेऽधिकरणे** - कृत्वोर्थ । कृत्वसुचोऽर्थ इवार्थो येषांप्रत्ययानां ते कृत्वोर्थाः । शेषे इति । इहदिवस्तदर्थस्य॑इत्यादिसूत्रषट्के विच्छिन्नमपि शेषग्रहणमनुवर्तते, व्याख्यानात् । पञ्चकृत्व इति ।सङ्ख्यायाः क्रिया -॑ इत्यादिना कृत्वसुच् । द्विरिति ।द्वित्रिचतुभ्र्यः सुच् । Padamanjari ----------- कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ कृत्वसुचोऽर्थो लक्ष्यते, कृत्वोऽर्थो येषां ते कृत्वोऽर्थाः। पञ्चकृत्व इति।'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' द्विरिति।'द्वित्रिचतुर्भ्यः सुच्' अर्थग्रहणमेतदर्थम्॥ Nyaas ----- `पञ्चकृत्वः` इति। **संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्** (5.4.17) ` द्विरह्नः` इति। `द्व्त्रिचतुर्थ्यः सुच्` (5.4.18) ।`गम्यते हि द्विस्त्रिश्चतुर्वा` इति। प्रकरणादेरिति भावः। ननु च बहिरङ्गः प्रकरणाद्यर्थ इति पञ्चकृत्व इत्यमत्र च वचनस्य चरितार्थत्वादिह न भविष्यति? एवं तह्र्रेतज्ज्ञापयति - प्रकरणाद्यर्थोऽपि विभक्तीनां निमित्तमिति। तेन `वृद्धो यूना` (1.2.65) इति **सहयुक्तेऽप्रधाने** (2.3.19) इति सहार्थे गम्यमाने तृतीया भवतीति॥ Prakriyasarvasvam ----------------- कृत्वसुजर्थानां प्रयागे कालवाचिन्यधिकरणे षष्ठी स्यात् । दिनस्य शतकृत्व- 'त्रर्वा हरिं नमति । ज्ञादीनां करणादौ हि शेषत्वेन विवक्षिते । षष्ठ्युक्ता स्वविवक्षायां तृतीयाद्येव जायते ॥ ५५५ ॥ ततः शस्त्रेण जानीते हरिं स्मृत्वा निहन्त्यघम् । इत्यादि दीव्यंति मुक्त्वा सर्वेषु स्याद् यथोचितम् ॥ ५५६ ॥ एषु तु शेषविवक्षा प्रचुरेत्याख्यातुमेव सूत्राणि । प्रतिपदविधानषष्ठ्या असमासज्ञापनार्थमिति चाहुः ॥ ५५७ ॥ इति ॥