12043: प्रथमानिर्दिष्टं समास उपसर्जनम् ====================================== **Padacheda:** प्रथमानिर्दिष्टम् | S | 1 | 1 | समासे | S | 7 | 1 | उपसर्जनम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In (this book, in the sūtras relating to) compound, the word that is exhibited in the Nominative -1st case, is called उपसर्जन or the secondary word. Vasu English Translation ------------------------ In (this book, in the sūtras relating to) compound, the word that is exhibited in the Nominative -1st case, is called उपसर्जन or the secondary word. This defines or rather describes the *Upasarjana*. In the *sutras* referring to compounds, the words that have the case termination of the nominative, are called *Upasarjanam*. Thus *sutra* (2.1.24) (द्वितीया श्रितातीत पतितगतात्यस्तप्राप्तापन्नैः) is a *samasa* *sutra* enjoining composition. In this *sutra* the word द्वितीया is exhibited in the nominative case, and the remaining words are in the Instrumental case. The *sutra* means: "An accusative (द्वितीया) is compounded with the words श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, and आपन्न and forms *Tat*-*purusha*". Therefore, in forming accusative compounds, the word having the accusative case will be called *Upasarjana*. Thus कष्टं + श्रितः = कष्टश्रितः. Here the word कष्टं being *Upasarjana*, stands first in the compound, by Rule (2.2.30). उपसर्जनं पूर्वम्, (in a compound the *Upasarjana* should be placed first). Similarly in rules relating to the formation of instrumental, dative, ablative, genitive and locative *Tat*-*purusha*, the words standing in those cases will be *Upasarjana*. Thus शंकुलाखण्डः, यूपदारु, वृकभयम्, राजपुरुषः, अक्षशौण्डः. *Upasarjana* is, therefore, that word which either by composition or derivation loses its original independent character, while it also determines the sense of another word called प्रधान or principal. Bhashya ------- प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ समासपदार्थनिरूपणाधिकरणम् ॥ - प्रथमानिर्दिष्टं समासे उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समासे सञ्ज्ञाऽप्रसिद्धिः - प्रथमानिर्दिष्टं समास उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समास उपसर्जनसञ्ज्ञाया अप्रसिद्धिः। नहि कष्टादीनां समासे प्रथमां पश्यामः। - सिद्धं तु समासविधाने वचनात् - सिद्धमेतत्। कथम्? समासविधाने प्रथमानिर्दिष्टमुपसर्जनसञ्ञ्ज्ञं भवतीति वक्तव्यम्। ततर्हि वक्तव्यम्? - न वा तार्दथ्यात्ताच्छब्द्यम् - न वा वक्तव्यम्। किं कारणम्? तार्दथ्यात्ताच्छब्द्यं भविष्यति। समासार्थं शास्त्रं समास इति। - यस्य विधौ प्रथमानिर्देशस्ततोऽन्यत्रोपसर्जनसञ्ज्ञाप्रसङ्गः - यस्य विधौ प्रथमानिर्देशः क्रियते ततोन्यत्रापि तस्योपसर्जनसञ्ज्ञा प्राप्नोति। राज्ञः कुमारीं राजकुमारीं श्रितः। श्रितादिसमासे द्वितीयान्तं प्रथमानिर्दिष्टं तस्य षष्ठीसमासेप्युपसर्जनसञ्ज्ञा प्राप्नोति। - सिद्धं तु यस्य विधौ तं प्रतीति वचनात् - सिद्धमेतत्। कथम्? यस्य विधौ यत्प्रथमानिर्दिष्टं तं प्रति तदुपसर्जनसञ्ञ्ज्ञं भवतीति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। उपसर्जनम् इति हि महती सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करण एतत्प्रयोजनमन्वर्थसञ्ज्ञा यथा विज्ञायेत- अप्रधानमुपसर्जनमिति। प्रधानमुपसर्जनमिति च सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद् गन्तव्यम्- यं प्रति यदप्रधानं तं प्रति तदुपसर्जनसञ्ञ्ज्ञं भवतीति। अथ यत्र द्वे षष्ठ्यन्ते कस्मात्तत्र प्रधानस्योपसर्जनसञ्ज्ञा न भवति। राज्ञः पुरुषस्य राजपुरुषस्येति। - षष्ठ्यन्तयोश्चोपसर्जनत्वे उक्तम् - किमुक्तम्? षष्ठ्यन्तयोः समासेऽर्थाभेदात् प्रधानस्याऽपूर्वनिपातः इति। एवं न चेदमकृतं भवति उपसर्जनं पूर्वम् इति। अर्थश्चाऽभिन्न इति कृत्वा प्रधानस्य पूर्वनिपातो न भविष्यति। यद्यपि तावदेतदुपसर्जनकार्यं परिहृतम्, इदमपरं प्राप्नोति,- राज्ञः कुमार्याः राजकुमार्याः। गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वं प्राप्नोति। - उक्तं वा - किमुक्तम्?। परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वम्, आतिदेशिकस्य श्रवणं भविष्यति ॥ प्रथमा निर्दिष्टं समास उपसर्जनम् ॥ 43 ॥ Kashika ------- प्रथमया विभक्त्या यद् निर्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति। समास इति समासविधायि शास्त्रं गृह्यते। वक्ष्यति — **द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः** (२.१.२४) इति द्वितीयासमासे द्वितीयेत्येतत् प्रथमानिर्दिष्टम्, तृतीयासमासे तृतीयेति, चतुर्थीसमासे चतुर्थीति, पञ्चमीसमासे पञ्चमीति, षष्ठीसमासे षष्ठीति, सप्तमीसमासे सप्तमीति। कष्टश्रितः। शङ्कुलाखण्डः। यूपदारु। वृकभयम्। राजपुरुषः। अक्षशौण्डः। उपसर्जनप्रदेशाः — **उपसर्जनं पूर्वम्** (२.२.३०) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥ Balamanorama ------------ **प्रथमानिर्दिष्टं समास उपसर्जनम्** - अत्र उपसर्जनकार्यं वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम् । ननु समासे प्रतमानिर्दिष्टमुपसर्जनमिति व्याख्याने असंभवः, समाससे सति 'सुपो धातु' इति प्रथमाया लुप्तत्वात् । समासे चिकीर्षिते प्रथमानिर्धिष्टमिति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात् । श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्यात् । अतो व्याचष्टे-समासशास्त्रै इति । समास पदं समासविधायकशास्त्रपरमिति भावः । एवंचद्वितीया श्रिते॑ति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवंचअव्यय॑मिति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्थितम् । Tattvabodhini ------------- **प्रथमानिर्दिष्टं समास उपसर्जनम्** - प्रथमानिर्दिष्टम् । अत्र समासपदं तद्विधायके लाक्षणिकम् । अन्यथाचिकीर्षिते समासे यत्प्रथमान्त॑मिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वतिप्रसङ्ग इत्याशयेनाह समासशास्त्र इथि । विग्रह इति । अनुवर्तमानेन समासग्रहणेन विग्रहे लक्ष्यत इति भावः । नतु तस्येति ।अनन्तरस्य — ॑इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते । तेन कुमारीश्रित इत्यादौ न दोषः । Padamanjari ----------- समास इत्यधिकरणनिर्देशोऽयम् । कष्टश्रितादयश्च समासाः, तेषु किं प्रथमानिर्द्देष्ट्ंअ भवितुमर्हति ? समासे सति यस्मात्प्रथमा विधीयते, न च तथाभूतं सम्भवति । समासे हि कृते तत एव प्रथमोत्पद्यते, न तदवयवाद् । अन्तर्वर्तिन्या च विभक्त्या श्रितशब्द एव प्रथमानिर्दिष्टो न कष्टशब्दः । सापि न समासे सत्युत्पन्ना, किं तर्हि ? वाक्यकाल एव । निर्दिष्टग्रहणं चानर्थकं स्यात्, समासे प्रथमान्तमित्येव वाच्यं स्यद्, अतो मुख्यस्यासम्भवाद्गौणः समासो गृह्यते इत्याह-प्रथमयेत्यादि । कथं पुनः समास इति शास्त्रस्य ग्रहणमित्याह-समासविधायीति । समासविधायित्वातादर्थ्याताच्छब्द्यमित्यर्थः । निर्दिष्टग्रहणादेव च तुल्येऽपि समासार्थत्वे वाक्यं न गृह्यते, न हि तत्र निर्देशार्था प्रथमा, अर्थप्रयुक्तत्वात् । द्वितीयेत्येतत्प्रथमानिर्दिष्टमिति । प्रथमया विभक्त्या उच्चारितम् । यद्येवम्, तस्यैव संज्ञा स्यान्न कष्टादीनाम्, न हि ते शास्त्रे प्रथमानिर्दिष्टाः । य एव द्वितीयेत्यस्य प्रथमानिर्देशः, स एव कष्टादीनामपि; तत्परत्वातस्य । यथा वक्ष्यति-ऽतस्येति सामान्यं विशेषोपलक्षणार्थं तदीयप्राथम्यं विशेषाणां विज्ञायतेऽ इति । कष्टश्रितादिषूपसर्जनत्वात् पूर्वनिपातः । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । लोकेऽप्रधानमुपस्रजनमुच्यते, इहाप्यप्रधानमुपसर्जनम् । प्रधानमप्रधानमिति च सम्बन्धिशब्दावेतौ, तेन यत्प्रति यदप्रधानं तदेव प्रति तदुपसर्जनं भवति, तेन राज्ञः कुमारीश्रित इति ऽद्वितीया श्रितऽ इत्यत्र प्रथमानिर्दिष्टस्यापि कुमारीशब्दस्य संज्ञा न भवति । यदि स्यात्, पूर्वनिपातानियम उपसर्जनह्रस्वत्वं च स्यात् । अन्वर्थत्वे तु श्रितादीनेवापेक्ष्य द्वितीयान्तमुपसर्जनमिति न प्रसङ्गः । एवं राज्ञः कुमार्या इत्यत्र द्वयोरपि ऽषष्ठीऽ इत्यत्र प्रथमानिर्देशेऽपि कुमारीमपेक्ष्य राज्ञ उपसर्जनत्वम्, न तं प्रति तस्याः । यद्यन्वर्थसंज्ञा, नार्थोऽनेन, प्रदेशेष्वेवान्वर्थग्रहणमस्तु । वाक्येऽपि तर्हि स्यात्-कुमारआआ श्रिता गवां कुलम् । अथ संज्ञाविधिर्वाक्ये कस्मान्न भवति, यावता ऽसमासेऽ इति प्रथमानिर्देशस्याधारो न संज्ञायाः ? तथा गोकुलं कुमारीपुत्र इत्यत्र समासेऽपि पूर्वनिपातवद् ह्रस्वत्वं कस्मान्न भवति ? तस्मात्सत्येवोपसर्जनत्वे उपसर्जनगोशब्दन्तस्योपसर्जनत्वात् स्त्रीप्रत्ययान्तान्तस्य प्रातिपदिकस्य ह्रस्वविधानात्समासाधिकारे पूर्वनपातिवचनाच्च वाक्ये तौ न भवत इति वाच्यम् । संज्ञाविधानं तून्मतगङ्गमित्यादौ द्वयोरप्यप्राधान्ये पूर्वनिपातनियमार्थम् । यत्र चानन्यार्थः प्रथमानिर्देशस्तत्र प्रथानस्यापि यथा स्यादित्येवमर्थं च । यथा-पाचकवृन्दारकः, पुरुषव्याघ्रः, अर्द्धपिप्ली, पूर्वकाय इति अत्र ऽवृन्दारकनागकुञ्जरैः पूज्यमानम्ऽ, ऽउपमितं व्याघ्रादिभिःऽ,ऽअर्द्धं नपुंसकम्ऽ,ऽपूर्वापराधरोतरम्ऽ इति प्रथमानिर्देशस्येदमेव प्रयोजनम्; समासस्य विशेषणं विशेष्येण षष्ठीत्येव सिद्धत्वाद् । न च पूज्यमानतादिविषय एव यथा स्यादिति नियमार्थस्तदारम्भः ? उपसर्जनसंज्ञार्थत्वेऽर्द्धादिपूर्वपदस्य विशिष्टरूपस्यार्द्धपिप्पलीत्यादेः समासस्य विधिसम्भवात् तस्मादेतदर्थापि संज्ञा । अन्वर्थत्वं तु सति संभवे व्यवस्थापकम् ॥ Nyaas ----- `समासे` इत्यधिकरणनिर्देशोऽयम्। कष्टश्रितादयः समासाः न किञ्चित् प्रथमानिर्दिष्टं शब्दरूपमस्ति। तथा हि - समासे कृते तत एव समासाद् विभक्तिरुत्पद्यते, न तु तत्र स्थाच्छब्दात्। न च वाक्यकाले समासार्थात् पदाद् या प्रथमोत्पन्ना तदाश्रयं प्रथमानिर्दिष्टत्वं समासावयवस्य कल्पयितुं युक्तम्, यतः `समासे` इत्यधिकरणनिर्देशोऽयम्। तत्र समासे कृते यस्मात् प्रथमोत्पद्यते, तदेव समासे प्रथमानिर्दिष्टं भवति; न तु यस्मात् वाक्यकाले विभक्तिकाले विभक्तिरुत्पद्यते। तद्धि वाक्य एव प्रथमानिर्दिष्टम्, न तु समासे; प्रागेव समासात् तस्य प्रथमानिर्दिष्टत्वात्। ततश्च समासे कृते प्रथमानिर्दिष्टस्य संज्ञिनोऽसम्भवात् संज्ञा न सम्भवीत्येतच्चोद्यमपाकर्तुमाह- `प्रथमया विभक्त्या यन्निर्दिश्यते` इति। समासार्थं यच्छास्त्रं तत् समासशास्त्रं गृह्रते। तत्र प्रथमानिर्दिष्टस्येयं संज्ञा विधीयते, न तु कष्टश्रितादौ; समासे प्रथमानिर्दिष्टस्याविद्यामानत्वात् विद्यते च समासशास्त्रे प्रथमानिर्दिष्टं संज्ञीति कुतः संज्ञाया अप्रसिद्धिः? कथं पुनः `समासे` इत्युच्यमाने समासशास्त्रे यत् प्रथमया निर्दिश्यते तस्य संज्ञित्वं लभ्यत इत्यत आह - `समासे` इति। `समासशास्त्रं गृह्रते इति। कथं पुनः `समासे` इत्युच्यमाने समासशास्त्रं ग्रहीतुं शक्यम्? तादथ्र्यात् तत्र समासशब्दस्य प्रवृत्तेः। भवति हि तादथ्र्यात् तावच्छब्द्यम् , यथा - प्रदीपार्था मल्लिका `प्रदीपः` इति, इन्द्रार्था स्थूणा `इन्द्रः` इति। कष्टश्रितादिषूपसर्जनसंज्ञयायाः कार्यम् - `उपसर्जनं पूर्वम्` (2.2.30) इति पूर्वनिपातः।तत्रेदं चोद्यते - राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यत्र राजन्शब्दः `षष्ठी` (2.2.8) इति समासशास्त्रे प्रथमानिर्दिष्टः; **द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः** (2.1.24) इति द्वितीयासमासशास्त्रे कुमारीशब्दश्च। समसाशास्त्रे तत्रोभयोरप्यस्यां संज्ञायां सत्यां पूर्वनिपातानियम उपसर्जनह्रस्वस्वत्वञ्चेत्येतद्दोषद्वयं प्राप्नोतीति। इह च राज्ञः कुमार्याः स्वं राजकुमारीस्वमिति द्वयोरपि षष्ठन्तयोः समासशास्त्रे प्रथमानिर्दिष्टत्वादुभयोरप्युपसर्जनसंज्ञायां सत्यां तदेव दोषद्वयं प्राप्नोति? नैष दोषः; यस्मादुसर्जनमिति महत्याः संज्ञायाः करणस्यैतदेव प्रयोजनम् - अन्वर्थसंज्ञा यथा विज्ञायेतेति। अप्रधनामुपसर्जनम्, प्रधानमनुपसर्जमिति। अप्रधानञ्च प्रधानमपेक्षते; सम्बन्धिशब्दत्वात्। तत्र सम्नब्धादेतवगन्तव्यं यत् प्रति यदप्रधानं तत् प्रतितदुपसर्जनमिति। श्रितादींश्चापेक्ष्य द्वितीयान्तमुपसर्जनं भवति, न तु द्वितीयान्तमात्रम्। न चेह श्रितादयः सन्ति। राज्ञः कुमार्याः स्वं राजकुमारीस्वमित्यात्राप्येष परीहारः। अत्रापि कुमारीशब्दमपेक्ष्य राजन्शब्दस्याप्राधान्यम्; न तु राजन्शब्दमपेक्ष्य कुमारीशब्दस्य। तस्मात् राजन्शब्दस्योपसर्जनसंज्ञा, न तु कुमारीशब्दस्य। यदि ह्रन्वर्थसंज्ञेयम्, पाचकवृन्दारिका, पुरुषव्याघ्रः, अर्धपिप्पली, पूर्वकायः - इत्येतेषु पूर्वपदार्थ एव प्रधानमिति पाचिकादीनामिह प्राधान्यम्। अतो यद्यप्येते **वृन्दारकनागकुञ्जरैः पूज्यमानम्** (2.1.62) , **उपमितं व्याघ्रादिभिः सामान्याप्रयोगे** (2.1.56) , `अर्धं नपुंसकम्` (2.2.2) , `पूर्वापराधरोत्तरमेकदेशिकनैकाधिकरणे` (2.2.1) इत्येतेषु समासशास्त्रेषु प्रथमानिर्दिष्टाः, तथापि तेषामुपसर्जनसंज्ञा न प्राप्नोति; कुतः? तेषां प्राधान्यात्। एवं तर्ह्रुत्तरसूत्रेऽनुक्तसमुच्चयार्थत्वाच्चकारस्य भविष्यतीत्यदोषः।अन्यस्त्वेवं मन्यते - `पाचकवृन्दारिकेत्येवमादिषु पूर्वोक्तेषु समासेष्वाद्यौ **विशेषणं विशेष्येण बहुलम्** (2.1.57) , **उपमानानि सामान्यवचनैः** (2.1.55) इत्येताभ्यामेव सिद्धौ; शेषौ तु `षष्ठी` (2.2.8) इत्यनेनैव। तस्मात् **वृन्दारकनागकुञ्जरैः पूज्यमानम्** (2.1.62) इत्यादीनां न तदर्थ आरम्भः; किं तर्हि? उपसर्जन संज्ञार्थः; तेनासत्यपि पाचिकादीनामप्रधानत्वे तेषामियं संज्ञा भविष्यति` इति, एतच्चासम्यक्, तथा हि - `पूज्यमानम्`, `सामान्याप्रयोगे`, `नपुंसकम्`, `एकाधिकरणम्` - इत्येतान् विशेषान् वक्ष्यामीत्येतदर्थ आरम्भः स्यात्। सति चैतदर्थ आरम्भेऽत्राप्रधानस्योपसर्जनसंज्ञा विधीयमाना प्रधानस्य न स्यात्॥ Prakriyasarvasvam ----------------- समाससूत्रे प्रथमान्तेन पदेनोक्तमुपसर्जनसंज्ञम् । तस्मादव्ययमिति प्रथमान्त- तयोक्तमत्रोपसर्जनम् । तच्च ‘उपसर्जनं पूर्वम्’ (२-२-३०) इति पूर्वं प्रयोज्यम् ॥ अधि सु हरि ङि । समासत्वेन प्रातिपदिकत्वात् ‘सुपो धातु-’ (२-४-७१) इति सुब्लुक् । अधि हरि । प्रातिपदिकत्वात् पुनः सुबुत्पत्तौ सप्तम्यर्थस्य समासेनोक्तत्वात् सामान्योक्तः सुः । अधिहरि सु,