12040: उदात्तस्वरितपरस्य सन्नतरः ================================ **Padacheda:** उदात्त-स्वरित-परस्य | S | 6 | 1 | सन्नतरः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The accent called सन्नतर is substituted in the room of an अनुदात्त vowel, which has an उदात्त or स्वरित vowel following it. Vasu English Translation ------------------------ The accent called सन्नतर is substituted in the room of an अनुदात्त vowel, which has an उदात्त or स्वरित vowel following it. In the previous *sutra* it was said that an *anudatta* preceded by a *svarita* becomes *Ekasruti*. If, however, such an *anudatta* is followed by an *udatta* or a *svarita*, it does not become *Ekasruti* but becomes *sannatara*, i.e. lower than *anudatta*. The *sannatara* is therefore that accent which was originally *anudatta*, and which is preceded by a *svarita* and is followed by an *udatta* or a *svarita*. This is one explanation of the *sutra*. There is another explanation which does not take the *anuvritti* of *Ekasruti* in this *sutra*. The *anudatta* is replaced by *sannatara* when such *anudatta* immediately precedes an *udatta* or a *svarita*. The *sannatara* is also called *anudatta*. As देवा मरुतः पृश्निमातरोपः ॥ Here the word मातरः is *anudatta*. The word अपः has *udatta* on the last syllable by (6.1.171) \[1\]. In the phrase मातरोपः (मातरः + अपः) the syllable रो is *anudatta*, because *anudatta* + *anudatta* = *anudatta*. This *anudatta* ओ, preceding the *udatta* पः, is changed into *sannatara*. ## Footnotes - [1] — उडिदम्पदाद्यप्पुम्रैद्युभ्यः ॥ Kashika ------- अनुदात्तग्रहणमनुवर्तते। उदात्तः परो यस्मात् स उदात्तपरः, स्वरितःपरो यस्मात् स स्वरितपरः। उदात्तपरस्य स्वरितपरस्य चानुदात्तस्य सन्नतर आदेशो भवति। अनुदात्ततर इत्यर्थः। देवा मरुतः पृश्निमातरोे॒ऽपः (पै०सं०३.३१.१)। मातर इत्यनुदात्तः। अप इत्यन्तोदात्तः, **ऊडिदंपदाद्यप्पुम्रैद्युभ्यः**(६.१.१७१) इति। तत्रानुदात्तयोरेकादेश ओकारोऽनुदात्तः। तस्योदात्ते परभूते सन्नतर आदेशो भवति। इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि (ऋ० १०.७५.५)। इकारोऽनुदात्तः। शुतुद्रि इत्येतदामन्त्रितं पादादौ, तस्माद् न निहन्यते, **अनुदात्तं सर्वमपादादौ** (८.१.१८) इति, तस्य प्रथममक्षरमुदात्तं तस्मिन् परभूते पूर्वस्य सरस्वतीतीकारस्य सन्नतर आदेशो भवति। माण॑वक जटिलकाध्यापक॒ क्व॑ गमिष्यसि। क्व इति स्वरितस्तस्मिन् परभूते क इत्यनुदात्तस्तस्य सन्नतर आदेशो भवति॥ Siddhanta Kaumudi ----------------- उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यादात्ततरः स्यात् । सरस्वति शुतुद्रि (सरस्वति॒ शुतु॑द्रि) । व्यचक्षयत्स्वः (व्य॑चक्षय॒त्स्वः॑) । तस्य परमाम्रेडितम् (SK83) ॥ Padamanjari ----------- परशब्दः प्रत्येकमभिसम्बध्यत इत्याह - उदातः परो यस्मादिति । सन्नशब्देन नीचैरर्थ उच्यते, तेनानुदातत्वं लक्ष्यत इत्याह - अनुदाततर इति । प्रकर्षः स्थान्यनुदातापेक्षः । मातर इत्यनुदात इति । समासैकदेशो निष्कृष्टानुकृतः, देवा इत्यादीनां त्रयाणामामन्त्रितानामेकीभूतानामाद्यौदातत्वे शेषनिघातः । ऽविभाषितं विशेषचने बहुवचनम्ऽ इति विद्यमानपक्षे चामन्त्रितनिघातः, जसः सकारस्य रुत्वम्, तस्य स्रंसनयुक्तस्य ऽअतो रोरप्लुतात्, इति उकारोऽनुदातः, ऽआद्गुणःऽ सोऽप्यान्तर्यतोऽनुदातः, अच्छब्दाकारस्य शेषनिघातः, तयोरनुदातयोः ऽएङः पदान्तादतिऽ इत्येकादेश आन्तर्यतोऽनुदातः । सरस्वतीकारस्येति । ननु च नवसूत्र्युत्कृष्यत इति ज्ञापितम्, ततश्च गङ्गेप्रभृतीनामिव सरस्वतीकारस्यापि पूर्वेणैकश्रुतिरेव प्राप्नोति, कः पुनः सन्नतरस्यावकाशः, यः स्वरितात्परो न भवति ? अग्निरिति । न च विप्रतिषेधेन सन्नतरो लभ्यते; पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्य । एवं तर्हि ऽन मु नेऽ इत्यत्र नेति योगविभागात् सिद्धत्वं भविष्यति । इह देवदतस्य न्यङ् इति ऽन्यधी चऽ इति पूर्वपदप्रकृतिस्वरे ऽउदातस्वरितयोर्यणःऽ इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रत्यसिद्धो न भवति; प्रकरणोत्कर्षाद् । ऽउदातस्वरितयोःऽ इत्येव सिद्धे परग्रहणं बहुव्रीहावेकवचनविवक्षार्थमिति गङ्गेप्रभृतीनां सन्नतराभावः ॥ Nyaas ----- `मातर इत्यनुदात्तः` इति। अनुदात्तत्वं तु विभक्तिस्वरेण। मातर इति मातृशब्दाज्जस्, **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इति गुणः। जसः सकारस्य रुत्वम्। तस्याप्यशब्दे शसन्ते परतः **अतो रोरप्लुतादप्लुते** (6.1.113) इत्युत्वम्। **आद्गुणः** (6.1.87) `उडिदम्` (6.1.165) इत्यादिना विभक्तेरन्तोदात्तत्वे कृते `एङः पदान्तादति` (61।109) इतिय ओकारः, सोऽपि स्थानिवद्भावेनानुदात्तो भवति। `तस्योदात्ते परभूते` इति। विभक्त्यकारे। `इकारोऽनुदात्तः` इति। सरस्वतीतिशब्दसम्बन्धी; `आमन्त्रित्सय च` (8.1.19) इति सरस्वतीशब्दस्य निघातविधानात्। `तस्मान्न निहन्यते` इति। **अनुदात्तं सर्वमपादादौ** (8.1.18) इत्यत्रापादादाविति निघातप्रतिषेधात्। `प्रथममक्षरम्` इति। शकारोकार उदात्तः, **आमन्त्रितस्य च** (8.1.19) इति षाष्ठिकेन। Prakriyasarvasvam ----------------- एतद्वयपरस्यानुदात्तस्य सन्नतर आदेश स्यात् । इत्यतिनीचोऽनुदात्तः । इन्द्र इन्नः । इषं स्वश्च ।