12027: ऊकालोऽज्झ्रस्वदीर्घप्लुतः
================================
**Padacheda:** ऊ-कालः | S | 1 | 1 |
अच् | S | 1 | 1 |
ह्रस्व-दीर्घ-प्लुतः | S | 1 | 1 |
Sutrartha
---------
**उ-ऊ-उ3 एतेषां उच्चारणकालः यस्य उच्चारणकालेन सह समानः, सः अच् क्रमेण ह्रस्वसंज्ञकः, दीर्घसंज्ञकः, प्लुतसंज्ञकः भवति ।**
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः वर्तन्ते **'ह्रस्वः'**, **'दीर्घः'**, **'प्लुतः'** एताः तिस्रः संज्ञाः । स्वराणाम् उच्चारणकारस्य आधारेण तेषां एताः संज्ञाः दीयन्ते । एतासाम् तिसृणाम् अपि संज्ञानाम् विधानम् पाणिनिना अस्मिन् एकस्मिन्नेव सूत्रे कृतम् अस्ति, तदर्थं च सः 'ऊकालः' इति शब्दं प्रयुङ्क्ते । 'ऊकालः' इत्यत्र विद्यमानः 'ऊ' इति अंशः ह्रस्व-उकारः, दीर्घ-ऊकारः, तथा प्लुत-उ3कारः —इत्येतेषां सवर्णदीर्घं कृत्वा निर्मितः अस्ति । ** 'उ', 'ऊ', 'उ3' इत्येतेषाम् उच्चारणस्य यः कालः, तादृशः कालः यस्य स्वरस्य उच्चारणार्थम् आवश्यकः, सः स्वरः यथासङ्ख्यम् ह्रस्व-दीर्घ-प्लुत-शब्देन ज्ञायते, इति अस्य आशयः **। तदित्थम् —
**1. ह्रस्वः —** यस्य स्वरस्य उच्चारणकालः 'उ' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, एकमात्रिकः) अस्ति, सः स्वरः 'ह्रस्वः' नाम्ना ज्ञायते । 'अ', 'इ', 'उ', 'ऋ', 'ऌ' एते स्वराः ह्रस्वसंज्ञकाः सन्ति ।
**2. दीर्घः —** यस्य स्वरस्य उच्चारणकालः 'ऊ' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, द्विमात्रिकः) अस्ति, सः स्वरः 'दीर्घः' नाम्ना ज्ञायते । 'आ', 'ई', 'ऊ', 'ॠ', 'ए', 'ऐ', 'ओ', 'औ' एते स्वराः दीर्घसंज्ञकाः सन्ति ।
**3. प्लुतः —** यस्य स्वरस्य उच्चारणकालः 'उ3' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, त्रिमात्रिकः) अस्ति, सः स्वरः 'प्लुतः' नाम्ना ज्ञायते । 'अ3', 'इ3', 'उ3', 'ऋ3', 'ऌ3' 'ए3', 'ऐ3', 'ओ3', 'औ3' एते स्वराः प्लुतसंज्ञकाः सन्ति ।
अस्मिन् विषये एका कारिका अपि प्रसिद्धा वर्तते -
एकमात्रो भवेत् ह्रस्वः, द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयः, व्यञ्जनं त्वर्धमात्रिकम् ॥
व्यञ्जनस्य उच्चारणस्य कालः अर्धमात्रा, ह्रस्वस्वरस्य उच्चारणकालः एका मात्रा, दीर्घस्वरस्य उच्चारणकालः द्वे मात्रे, प्लुतस्वरस्य च उच्चारणकालः तिस्रः मात्राः — इति अस्याः कारिकायाः आशयः ।
परन्तु सर्वेषाम् अपि स्वराणाम् एते सर्वे भेदाः न विद्यन्ते । तत्र इदं ज्ञेयम् -
1. **अ, इ, उ, ऋ** — एतेषाम् सर्वेषाम् त्रयः अपि ह्रस्व-दीर्घ-प्लुतभेदाः भवन्ति ।
2. **ऌ** — इत्यस्य दीर्घभेदः नास्ति, अतः तस्य केवलं ह्रस्व-प्लुत-भेदौ भवतः ।
3. **ए, ऐ, ओ, औ** — एतेषाम् ह्रस्वभेदः नास्ति, अतः एतेषाम् केवलम् दीर्घ-प्लुत-भेदौ भवतः ।
ह्रस्व-दीर्घ-प्लुत-संज्ञाः स्वराणामेव विद्यन्ते, न हि व्यञ्जनानाम् । सर्वाणि व्यञ्जनानि तु अर्धमात्रिकानि एव सन्ति ।
**ह्रस्व-दीर्घ-प्लुत-संज्ञानाम् प्रयोजनम्**
ह्रस्वादीनां संज्ञानां प्रयोगः अष्टाध्याय्यां बहुषु सूत्रेषु कृतः अस्ति । एतासां प्रयोगेण भिन्नाः विधयः उच्यन्ते । प्रत्येकं संज्ञाम् अधिकृत्य एकम् उदाहरणम् अधः दत्तम् अस्ति —
1. **ह्रस्वस्वरात्** अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य ह्रस्वस्वरस्य 'तुक्' इति आगमः भवति । यथा —
.. code-block:: text
पृच्छ्यते इति (कृद्वृत्तिः)
= प्रछँ (ज्ञीप्सायाम्, तुदादिः, (06.0149)) + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ प्रछ् + अनीय [इत्संज्ञालोपः]
→ प्र तुक् छ् + अनीय [ह्रस्व-अकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र **छे च** (6.1.73) इत्यनेन अकारस्य 'तुक्' इति आगमः भवति । **आद्यन्तौ टकितौ** (1.1.46) इति अयम् आगमः अकारात् अनन्तरम् आगच्छति ।]
→ प्र त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ प्र च् छ् + अनीय [**स्तोः श्चुना श्चुः** इति श्चुत्वम्]
→ प्रच्छनीय
2. अपदान्त-**दीर्घस्वरात्** अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य दीर्घस्वरस्य 'तुक्' इति आगमः भवति । यथा —
.. code-block:: text
= म्लेछँ (अव्यक्ते शब्दे, भ्वादिः, (01.0233)) + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ म्लेछ् + अनीय [इत्संज्ञालोपः]
→ म्ले तुक् छ् + अनीय [अपदान्त-दीर्घ-एकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र **दीर्घात्** (6.1.75) इत्यनेन एकारस्य 'तुक्' इति आगमः भवति । **आद्यन्तौ टकितौ** (1.1.46) इति अयम् आगमः एकारात् अनन्तरम् आगच्छति ।]
→ म्ले त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ म्ले च् छ् + अनीय [**स्तोः श्चुना श्चुः** इति श्चुत्वम्]
→ म्लेच्छनीय
3. **प्लुतस्वरात्** परः अच्-वर्णः विद्यते चेत् संहितायाम् सत्याम् अपि सन्धिः न भवति । यथा —
.. code-block:: text
कृष्ण३ + अत्र
→ कृष्ण३ अत्र [**प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्लुतस्वरस्य अच्-वर्णे परे प्रकृतिभावः । अतः अत्र **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्णदीर्घः न भवति ।]
**सूत्रे 'ऊकाल'ग्रहणस्य सन्दर्भः**
कुक्कुटः यदा उच्चैः आक्रोशति, तदा तस्य मुखात् उवर्णस्य त्रयः अपि स्वरभेदाः उत्सृजन्ति । इत्युक्ते, अवर्णस्य इवर्णस्य वा अपेक्षया उवर्णस्य ह्रस्व-दीर्घ-प्लुत-भेदाः जनैः कुक्कुटस्य आक्रोशे सरलतया श्रूयन्ते । अतएव अत्र सूत्रे 'आकालः' उत 'ईकाल' इत्यस्य अपेक्षया 'ऊकालः' इति शब्दनिर्देशः क्रियते ।
Sutrartha (English)
-------------------
Vowels are classified as ह्रस्व, दीर्घ and प्लुत based on the time taken for their pronunciation, as compared against the time of उ, ऊ and उ3 respectively.
Vasu English Summary
--------------------
A vowel whose time is that of short उ , ऊ and the prolated ऊ , is called respectively ह्रस्व short, दीर्घ long and प्लुत prolated.
Vasu English Translation
------------------------
A vowel whose time is that of short उ , ऊ and the prolated ऊ , is called respectively ह्रस्व short, दीर्घ long and प्लुत prolated.
The उ *u* having one *matra* or measure is short, having two measures is long, having three measures is *pluta*. This *sutra* defines the three kinds of vowels according to their *matra*. The letter ऊ *u* has been taken to illustrate the rule. The phrase हृस्वदीर्घप्लुतः is a *Dvandva* compound, in the Singular, and is exhibited in the masculine gender, contrary to the general rule (2.4.17).
The word *kala* means measure of time required for pronouncing a vowel.
As दधि 'curd', मधु 'honey'. Here इ and उ are short. कुमारी, गौरी, here ई is long. देवदत्ता३ अन्वास *Devadatta*! Here आ *a* is *pluta* or prolated.
These words are used in the following *sutras*: (1.2. 47); (7.4.25); (8.2.82).
Bhashya
-------
ऊकालोऽज्झ्रस्वदीर्घप्लुतः अयुक्तोऽयं निर्देशः। ऊ इत्यनेन कालः प्रतिनिर्दिश्यते, ऊ इत्ययं च वर्णः तत्राऽयुक्तं वर्णस्य कालेन सह सामानाधिकरण्यम्। कथं तर्हि निर्देशः कर्तव्यः? ऊकालकाल इति। किमिदमूकालकाल इति? ऊ इत्येतस्य काल ऊकालः, उकालः कालो यस्य स ऊकालकाल इति। स तर्हि तथानिर्देशः कर्तव्यः? न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः। तद्यथा- उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः। खरमुखः। एव मूकालकाल ऊकाल इति। अथ वा साहचर्यात्ताच्छब्द्यं भविष्यति। कालसहचरितो वर्णः। वर्णोऽपि काल एव। - ह्रस्वादिषु समसङ्ख्याऽप्रसिद्धिनिर्देशवैषम्यात् - ह्रस्वादिषु समसङ्ख्यत्वस्याऽप्रसिद्धिः। किं कारणम्?। निर्देशवैषम्यात् तिस्रः सञ्ज्ञा एकः सञ्ञ्ज्ञी, वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति। - सिद्धं तु समसङ्ख्यत्वात् - सिद्धमेतत्। कथम्?। समसङ्ख्यत्वात्। कथं समसङ्ख्यत्वम्? - त्रयाणां हि विकारनिर्देशः - त्रयाणामयं प्रश्लिष्टनिर्देशः। कथं पुनर्ज्ञायते- त्रयाणामयं प्रश्लिष्टनिर्देश इति?। तिसृणां सञ्ज्ञानां करणसार्मथ्यात्। यद्यपि तावत्तिसृणां सञ्ज्ञानां करणसार्मथ्याज्ज्ञायते- त्रयाणमयं प्रश्लिष्टनिर्देश इति। कुतस्त्वेतदेतेनानुपूर्व्येण सन्निविष्टानां सञ्ज्ञा भविष्यतीति, आदौ मात्रिकस्ततो द्विमात्रस्ततस्त्रिमात्र इति। न पुनर्मात्रिको मध्ये वाऽन्ते वा स्यात्, तथा द्विमात्र आदौ वा स्यादन्ते वा। तथा त्रिमात्र आदौ वा मध्ये वा स्यात्? । अयं तावत् त्रिमात्रोऽशक्य आदौ वा मध्ये वा कर्तुम्। कुतः? प्लुताश्रयो हि प्रकृतिभावः प्रसज्येत। मात्रिकद्विमात्रिकयोरपि घ्यन्तं पूर्वं निपततीति मात्रिकस्य पूर्वनिपातो भविष्यति। यत्तावदुच्यते- अयं तावत् त्रिमात्रोऽशक्य आदौ मध्ये वा कर्तुं प्लुताश्रयो हि प्रकृतिभावः प्रसज्येत इति प्लुताश्रयः प्रकृतिभावः। प्लुतसञ्ज्ञा चानेनैव। यदि च त्रिमात्र आदौ वा मध्ये वा स्यात् प्लुतसञ्ञ्ज्ञैवास्य न स्यात्कुतः प्रकृतिभावः। यदप्युच्यते मात्रिकद्विमात्रिकयोरपि घ्यन्तं पूर्वं निपततीति मात्रिकस्य पूर्वनिपातो भविष्यतीति। ह्रस्वाश्रया हि घिसञ्ज्ञा ह्रस्वसञ्ज्ञा चानेनैव। यदि च मात्रिको मध्ये वान्ते वा स्याद्ह्रस्वसञ्ञ्ज्ञैवास्य न स्यात्, कुतो घिसञ्ज्ञा, कुतः पूर्वनिपातः? एवमेषा व्यवस्था न प्रकल्पते। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति- न मात्रिकोऽन्ते भवतीति, यदयं- विभाषा पृष्टप्रतिवचने हेः (8.2.93) इति मात्रिकस्य प्लुतं शास्ति। कथं कृत्वा ज्ञापकम्? योऽन्ते स प्लुतसञ्ञ्ज्ञः। यदि च मात्रिकोऽन्ते स्यात्प्लुतसञ्ज्ञाऽस्य स्यात्। तत्र हि मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्। मध्ये तर्हि स्यादिति। अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति- न मात्रिको मध्ये भवतीति। यदयम्- अतो दीर्घो यञ्ञि सुपि चेति (7.3.101,102) इति दीर्घत्वं शास्ति। कथं कृत्वा ज्ञापकम्? यो मध्ये स दीर्घसञ्ञ्ज्ञकः। यदि च मात्रिको मध्ये स्याद्दीर्घसञ्ज्ञाऽस्य स्यात्। तत्र मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्। द्विमात्रस्तर्ह्यन्ते स्यादिति। अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति- न द्विमात्रोऽन्ते भवतीति, यदयम्- ओमभ्यादाने (8.2.87) इति द्विमात्रिकस्य प्लुतं शास्ति। कथं कृत्वा ज्ञापकम्? योऽन्ते स प्लुतसञ्ञ्ज्ञः। यदि च द्विमात्रोऽन्ते स्यात् प्लुतसञ्ज्ञाऽस्य स्यात्। तत्र द्विमात्राकालस्य द्विमात्राकालवचनमनर्थकं स्यात्। मात्रिकेण चास्य पूर्वनिपातो बाधित इति कृत्वा क्वान्यत्रोत्सहते भवितुमन्यदतो मध्यात्। एवमेषां व्यवस्था प्रकॢप्ता। भवेद् व्यवस्था च प्रक्लृता। - दीर्घप्लुतयोस्तु पूर्वसञ्ज्ञाप्रसङ्गः - दीर्घप्लुतयोरपि पूर्वसञ्ज्ञा प्राप्नोति। का? ह्रस्वसञ्ज्ञा। किं कारणम्? अण् सवर्णान् गृह्णातीति। - सिद्धं तु तपरनिर्देशात् - सिद्धमेतत्। कथम्? तपरनिर्देशः कर्तव्यः- उदूकाल इति। यद्येवं- - द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसङ्ख्यानं कालभेदात् - द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसङ्ख्यानं कर्तव्यम्। तथा मध्यमायां तपरकरणे द्रुतविलम्बितयोरुपसङ्ख्यानं कर्तव्यम्। तथा विलम्बितायां तपरकरणे द्रुतमध्यमयोरुपसङ्ख्यानं कर्तव्यम्। किं पुनः कारणं न सिध्यति? कालभेदात्। ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम्, ये मध्यमायां वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् ॥ - द्रुतादिषु चोक्तम् - किमुक्तम्? सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराऽचिरवचनाद्वृत्तयो विशिष्यन्ते इति। स तर्हि तपरनिर्देशः कर्तव्यः? न कर्तव्यः। इह कालग्रहणं क्रियते। यावच्च तपरकरणं तावच्च कालग्रहणम्। प्रत्येकं च कालशब्दः परिसमाप्यते- उकाल ऊकाल ऊ3काल इति। अथ वैकसञ्ज्ञाधिकारेऽयं योगः कर्तव्यः। तत्रैका सञ्ज्ञा भविष्यति या परा अनवकाशा चेति। एवं हि दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति। अथवा स्वं रूपं शब्दस्याशब्दसञ्ज्ञा (1.1.68) इत्ययं योगः प्रत्याख्यायते। तत्र यदेतद् अशब्दसञ्ज्ञा इति, एतद्यया विभक्त्या निर्दिश्यमानमर्थवद्भवति तया निदिष्टमुत्तरत्रानुवर्तिष्यते। अणुदित्सवर्णस्य चाप्रत्ययः (1.1.69) अशब्दसञ्ज्ञायाम् इति। अथवा ह्रस्वसञ्ज्ञावचनसार्मथ्याद्दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति। ननु चेदं प्रयोजनं स्यात्- सञ्ञ्ज्ञया विधाने नियमं वक्ष्यामीति ह्रस्वसञ्ञ्ज्ञया यदुच्यते तदचः स्थाने यथा स्यात् इति। स्यादेतत्प्रयोजनं यदि किञ्चित्कराणि ह्रस्वशासनानि स्युः। यतस्तु खलु यावदज्ग्रहणं तावद्ह्रस्वग्रहणमतोऽकिञ्चित्कराणि ह्रस्वशासनानि। इदं तर्हि प्रयोजनम्- एच इग्ह्रस्वादेशे (1.1.48) इति वक्ष्यामीति। अनुच्यमाने ह्येतस्मिंस्त्रिर्ह्रस्वप्रदेशेष्वेच इग्भवतीति वक्तव्यं स्यात्। ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) एच इग्भवतीति। णौ चङ्युपधाया ह्रस्वः (7.4.1) एच इग्भवतीति। ह्रस्वः, हलादिः शेषः (7.4.59,60) एच इग्भवतीति। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। लघीयश्च त्रिर्ह्रस्वप्रदेशेष्वेच इग्भवतीति, न पुनः सञ्ज्ञाकरणम्। त्रिर्ह्रस्वप्रदेशेषु एच इग्भवतीति षड् ग्रहणानि। सञ्ज्ञाकरणे पुनरष्टौ। ह्रस्वसञ्ज्ञा वक्तव्या, त्रिर्ह्रस्वप्रदेशेषु ह्रस्वग्रहणं कर्तव्यं- ह्रस्वो ह्रस्वो ह्रस्व इति। एच इग्घ्रस्वादेशे इति। सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद् गरीयांसं यत्नमारभते तस्यैतत्प्रयोजनं दीर्घप्लुतयोस्तु पूर्वसञ्ज्ञा मा भूदिति । ऊकालोऽज्झ्रस्वदीर्घप्लुतः ॥ 27 ॥
Kashika
-------
ऊ इति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः। ह्रस्वदीर्घप्लुत इति द्वन्द्वैकवद्भावे पुँल्लिङ्गनिर्देशः। उ ऊ ऊ3 इत्येवंकालोऽज् यथाक्रमं ह्रस्वदीर्घप्लुत इत्येवंसंज्ञो भवति। उकालो ह्रस्वः — दधि। मधु। ऊकालो दीर्घः — कुमारी गौरी। ऊ३कालः प्लुतः — देवदत्त३ अत्र न्वसि। कालग्रहणं परिमाणार्थम्। दीर्घप्लुतयोर्ह्रस्वसंज्ञा मा भूत् — आलूय। प्रलूय। ह्रस्वस्य पिति कृति तुक् (६.१.७१) इति तुङ् न भवति। अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्। प्रतक्ष्य। प्ररक्ष्य। ह्रस्वाश्रयस्तुङ् मा भूत्। तित — उच्छत्रम्। **दीर्घात्** (६.१.७५) **पदान्ताद् वा** (६.१.७६) इति विभाषा तुङ् मा भूत्। ह्रस्वदीर्घप्लुतप्रदेशाः — **ह्रस्वो नपुंसके प्रातिपदिकस्य** (१.२.४७)। **अकृत्सार्वधातुकयोर्दीर्घः** (७.४.२५)। **वाक्यस्य टेःप्लुत उदात्तः** (८.२.८२)॥
Siddhanta Kaumudi
-----------------
उश्च ऊश्च उ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥
Laghu Siddhanta Kaumudi
-----------------------
उश्च ऊश्च उ3श्च वः; वां काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादिभेदेन त्रिधा॥
Laghu Shabdendushekhar
----------------------
ऊकालोऽच् । कुक्कुटरुते उकारे एकद्वित्रिमात्रत्वप्रसिद्धेरकारादयो नोक्ताः । 'ऊ' इति एकद्वित्रिमात्राणां क्रमेण प्रश्लेषनिर्देशो व्याख्यानात् । तेन स्वोच्चारणकालसदृशो लक्ष्यते । स कालो यस्येति बहुव्रीहिः, तत्फलितमाह - **उश्च ऊश्च ऊ३श्चेति** ।
ननु **उकालो ह्रस्व** इति वाक्येऽण्त्वात्सवर्णग्रहणे द्वित्रिमात्रयोरपि ह्रस्वसञ्ज्ञायां प्रदाय, प्रलूयेत्यादौ **ह्रस्वस्य** (6.1.71) इति तुक् स्यादिति चेन्न । 'ऊ अजि'त्येवाज्ग्रहणसामर्थ्यादूसदृशोऽजित्यर्थे सादृश्यस्य व्याख्यानात्कालकृतस्यैव ग्रहणमिति सिद्धे अधिकं कालग्रहणम् - **उच्चारितसम्बन्धिकालसदृशकालस्यैव सञ्ज्ञा, न तु तेन गृहीतसम्बन्धिकालसदृशकाल्स्यापि** इत्यर्थेनादोषात् । तदुक्तं भाष्ये - **यावत्तपरकरणं तावदत्र कालग्रहणम्** - इति ।
न चाजिति वर्णग्रहणे जातिग्रहणस्य दुर्वारत्वात्तितउच्छत्रमित्यत्र दीर्घात्पदान्ताद्वेति तुगापत्तिरिति वाच्यं, ज्ञापकसिद्धत्वेन तस्यासार्वत्रिकत्वात् । अन्तरङ्गत्वेन ह्रस्वत्वनिमित्तनित्यतुक एव प्राप्तेश्च । अज्ग्रहणं प्रतक्ष्येत्यादौ ह्रस्वस्येति तुग्व्यावृत्त्यर्थम् ।
Balamanorama
------------
**ऊकालोऽज्झ्रस्वदीर्घप्लुतः** - तदेवमणादिसंज्ञासु सिद्धासु अचो ह्रस्वादिसंज्ञां विधत्ते — ऊकालोऽजिति । 'ह्रस्वदीर्घप्लुत' इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्षम् । उ ऊ ऊ३ इति त्रयाणां एकमात्रद्विमात्रत्रिमात्राणां द्वन्द्वसमासे सति सवर्णदीर्घेण ऊ इति प्रश्लिष्टनिर्देशः । तेषां कालः ऊकालः । कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः । ऊकालः कालो यस्येति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति द्विपदो बहुव्रीहिः । ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह — वां काल इवेत्यादिना । 'वः' इति ऊशब्दस्य प्रथमाबहुवचनम् । वामिति षष्टीबहुवचनम् । वां काल इव कालो यस्येति फलितार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहिः । क्रमादिति । यथासंख्यसूत्रलभ्यमेतत् । इहैव तत्सूत्रमुपन्यसितुमुचितम् । नच उ ऊ ऊ३ इत्युवर्णानां कथं ह्रस्वदीर्घप्लुतसंज्ञाः, तेषामूकालसदृशकालत्वाऽभावात्, सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम् । ऊ शब्दस्यात्र एकमात्रद्विमात्रत्रिमात्रकुक्कुटरुतानुकरणत्वात् । स इति । सः=ह्रस्वः दीर्घः प्लुतश्च अच्, प्रत्येकमुदात्तादिभेदेन=उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषण, त्रिधा = त्रिभिः प्रकारैर्वर्तत इत्यर्थः ।
Tattvabodhini
-------------
**ऊकालोऽज्झ्रस्वदीर्घप्लुतः** - ऊकालोऽज्झ्रस्वदीर्घप्लुत इति । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ।ऊ॑ इति त्रयाणां प्रश्लेषेण निर्देश इत्याह-उश्च ऊश्च ऊश्चेति । वः । वामिति । त्रयाणां सवर्णदीर्घे कृते जसि परतो यणि-वः । आमि तु वाम् । वां काल इव कालो यस्येति । फलितार्थकथनमिदम् । विग्रहस्तु वः कालो यस्येति बोध्यः ।ऊ॑ शब्देन स्वोच्चारणकालो लक्ष्यते । अच् किम् । संयोगस्य माभूत्, प्रतक्ष्य, प्ररक्ष्य । कषयोरेकमात्रत्वेन ह्रस्वसंज्ञायांह्रस्वस्य पिति कृति-॑ इति तुक् स्यात् । आ ये इति ।निपाता आद्युदात्ताः॑ इत्याकार उदात्तः । यच्छब्दस्तुफिष॑ इत्यन्तोदात्तः । ततः परस्य जसः सुप्त्वादनुदात्तत्वम्, त्यदाद्यत्वे शीभावे आद्गुणे च सतिएकादेश उदात्तेन॑ इत्येकार उदात्तः ।
Padamanjari
-----------
ऊः कालो यस्य स ऊकालः ऽतपरस्तत्कालस्यऽ इतिवन्निर्देशः समर्थनीयः । एतच्च संज्ञिनो विशेषणम्, च ऽऊऽ इत्येकस्यैव शब्दस्योच्चारणाद्विशेषणस्यैकत्वात् संज्ञाप्येकैवेति यश्चोदयेत् तं प्रत्याह - ऊ इति त्रयाणामित्यादि । प्रश्लेषणमु प्रश्लिष्टम्, तेन निर्देशः उ प्रश्लिष्टनिर्देशः । तेन विशेषणत्रयपरिच्छिन्नास्त्रयः संज्ञिन इत्यर्थः । प्रश्लेषणे प्रमाणमाह-ह्रस्वेति । ह्रस्वदीर्घप्लुत इति न तावदेका संज्ञा; गौरवादनावृतेश्च । अतस्तिसृणां संज्ञानां द्वन्द्वोऽयम् । न चैकस्यानेकसंज्ञाकरणे प्रयोजनमस्ति । लुगादिसंज्ञास्वपि तद्भावितत्वेन प्रत्ययादर्शनस्य भेद आशितः, प्रकारान्तरासम्भवाद् । इह तु निर्देश एव त्रयाणां सम्भवति । तस्मात्संज्ञानां त्रित्वात् संज्ञिनामपि त्रित्वमनुमीयत इति भावः । ऽबहुवचननिरासार्थमेकवद्भावःऽ इत्युक्तम्, समाहारद्वन्द्व इत्यर्थः । ऽस नपुंसकम्ऽ कैत्येततु न भवतीत्याह-पुंल्लिङ्गमनिर्देश इति । सौत्र इति भावः । प्रश्लेषे क्रममाह- उ ऊ ऊ3 इत्येकं काल इति । उकारादीनां परिच्छेदको यः कालो निमेषादिः, तत्काल इत्यर्थः । कुतः पुनरवसितमेष एव क्रम इति ? आदौ मध्ये वा त्रिमात्रे प्लुताश्रयः प्रकृतिभावः प्राप्नोति, तथा मध्येऽन्ते वा मात्रिके ऽद्वन्द्वे घिऽ इत्येतद्वाध्येतेति चेति, न; अनेन हि प्लुतसंज्ञा, ततश्चादौ मध्ये वा पठितस्य त्रिमात्रस्य प्लुतसंज्ञैव न, कुतः प्रकृतिभावः ! यदि च मात्रिको मध्येऽन्ते वा स्यात्, ह्रस्वसंज्ञैव न स्यात् कुतो घिसंज्ञा ! कुतस्तरां पूर्वनिपातः ! एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् ऽविभाषा पृष्टप्रतिवचने हेःऽ इति हेः प्लुतं शास्ति, तज् ज्ञापयति-नान्ते मात्रिक इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । अनन्तरतमप्लुतार्थमेतत्स्यादिति चेत्, न हि सत्यां गतौ परिभाषा बाध्या । यच्च ऽसुपि चऽ इति दीर्घत्वं शास्ति, तज् ज्ञापयति-न मध्ये मात्रिक इति । कथं यो मध्ये स दीर्घः ? दीर्घस्य दीर्घवचनमनर्थकम् । यच्च ऽओमभ्यादानेऽ इत्योमः प्लुतं शास्ति, तज् ज्ञापयति - द्विमात्रिको नान्त्य इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । दधि,मध्विति । रूपोदाहरणे । कुमारीत्यादि कार्योदाहरणम् ऽहल्ङ्याब्भ्यःऽ इति दीर्घाश्रयः सुलोपो भवति । देवदत3 अत्र न्वसीति । ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः । देवदत त्वमत्र भवसीति प्रश्नः । नुशब्द प्रश्नं द्योतयति । देवदतशब्दात्परस्य सोः ऽससजुषो रुःऽ इति रुत्वम्, ऽअतो रोरप्लुतात्ऽ इत्युत्वे प्रतिषिद्धे ऽभोभगोअघोअपूर्वस्य योऽशिऽ इति यत्वम्, ऽलोपः शाकल्यस्यऽ । उकारोऽयमण्, तेन द्विमात्रयोरपि ग्रहणाद् ह्रस्वसंज्ञा प्राप्नोति । न च दीर्घप्लुतसंज्ञाभ्यां बाधः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशाभ्युपगमाद्, अत आह-कालग्रहणमिति । कालग्रहणं तावदुकारादिभिः प्रत्येकमभिसम्बध्यते, ऊकाल इत्यस्मिन्वाक्ये सत्यपि सवर्णग्रहणे कालशब्दस्य न पुनः प्रत्येकपरिसमाप्तिर्युज्यते, कुतः ? एकस्यैव श्रुतत्वात् । द्विमात्रत्रिमात्रौ हि संज्ञित्वेन प्रतीयेते, न तु साक्षादुच्चरितौ । एवं चैकत्वाद्वहुव्रीहेरेक एव संज्ञी, तत्रैकस्य विरुद्धकालद्वयासम्भवेन सवर्णग्रहणाभावाच्छ्4%अत एवोकारः कालविशेषणमिति कालग्रहणं संज्ञिनः परिमाणार्थम् । यद्वा-ऊ अजित्येव कालार्थो लभ्यते, कथम् ? उकारादयोऽच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते, अपि तु तैरच् । न चाज्मात्रस्योकारादित्वमुपपद्यत इति सामानाधिकरण्यान्यथानुपपत्या तत्सदृशस्याचः प्रतिपतिः । तत्र च स्थानसाम्यमसम्भवान्न गृह्यते, प्रयत्नसाम्यं चाव्यभिचारीति कालसाम्यमेव ग्रहीष्यते, नार्थः कालग्रहणेन । तत्क्रियते श्रूयमाणेनैव कालं विशेषयितुमिति कालग्रहणं परिमाणार्थम् । आलुयेति । ह्रस्वाश्रयस्तुङ् न भवति । तितौच्छत्रमिति । असत्यज्ग्रहणे चद्वयसमुदायस्य प्रत्येकवर्णकालसंकलनया द्विमात्रत्वाद्दीर्घसंज्ञा स्याद् । यस्तु मध्येऽर्द्धमात्राकालः सवर्णकालो न भवतीति समुदायस्य द्विमात्रत्वं न व्याहन्तीति स्यादेव प्रसङ्गे । अज्ग्रहणे तु न भवति; अच्समुदायस्यानच्त्वात् । यद्यपि वर्णग्रहणे जातिग्रहणम्, सा तु जातिरेकैकव्यक्तिव्यङ्ग्या न समुदायव्यङ्ग्या, तेन दीर्घसंज्ञायामभावात् ऽदीर्घात्ऽऽपदान्ताद्वाऽ इति तुग्विकल्पो न भवति । न च सत्यपि विकल्पे तेन मुक्ते ह्रस्वाश्रयस्तुग् लभ्यते; समुदाये कार्यमारभ्यमाणेऽवयवानां स्वकार्यं प्रत्यव्यापारात् ॥
Nyaas
-----
ऊः कालो यस्याचः स ऊकालः। ननु चायुक्तोऽयं निर्देशः, तथा हि - ऊ इति शब्दः कालस्तु क्रिया, तत् कुतोऽत्र सामानाधिकरण्यम्? नैष दोषः; यस्मात् `ऊ` इत्येतत्सहचरितायामुच्चारणक्रियायामिह साहचर्यात् `ऊ` इत्येष शब्दो वर्तते, एवमप्ययुक्तम्; यतः `ऊ` इत्येतत्सहचरितं यदुच्चारणं तदूकारस्यैव, नान्यस्याचः। तत्कथं सोऽन्यसम्ब्नधिन्या क्रियया ऊकारलः स्यात्, न हि यज्ञदत्तसम्बन्धिनीभिश्चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति? अयमप्यदोषः; वत्यर्थस्येह गमयन्तीत्युक्तमेतत्। तदेतदुक्तं भवति - `ऊ` इत्येतत्सहचिरतयोच्चारणक्रियया तुल्योच्चारणक्रिया कालालख्या यस्याचः स ऊकाल इति। ननु च ऊकाल इत्येकः संज्ञी, संज्ञास्तु तिस्त्रः, ततो वैषम्यात् संख्यातानुदेशो न प्राप्नोतीति यो मन्येत, तं प्रत्याह - `ऊ इति त्रयाणाम्` इत्यादि। मात्रिकाणांत्रयाणामकः सवर्णे (6.1.97) दीर्घत्वमेकादेशं कृत्वा `ऊ` इति निर्देशः कृत इत्यर्थः। कुतः पुनरेतद्विज्ञायते त्रयाणामेकः प्रश्लेषनिर्देश इति? तिसृणां संज्ञानां विधानसामर्थ्यात्। न ह्रेकस्य भिन्नप्रयोजनमन्तरेणानेकसंज्ञाविधानमर्थवद्भवति। न चेहैकस्यानेकसंज्ञाकरणे भिन्नप्रयोजनमस्ति। `ह्रस्वदीर्घप्लुत` इति यद्येक एवायं शब्दः संज्ञा स्यात्, लाघवार्थत्वात् संज्ञाकरणस्य, महत्याः संज्ञायाः करणमयुक्तं स्यात्। किञ्च - आवृत्तिधर्माणः संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदाय संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदायः प्रदेशेष्वावत्र्यते,अपि तु प्रत्येकं ह्रस्वादिशब्दाः। तस्मात् तेषां द्वन्द्वं कृत्वा निर्देश इति मत्वाह- `ह्रस्वदीर्घप्लुतः` इत्यादिः। द्वन्द्वैकवद्भावस्तु `सर्वो द्वन्द्वो विभाषयैकवद्भवति` इति वचनात्। ननु च द्वन्द्वैकवद्भावे `स नपुंसकम्` (2.4.17) इति नुपंसकत्वेन भवितव्यम्, तत्कथं पुंल्लिङ्गेन निर्देशः, सौत्रत्वान्निर्देशस्य। छन्दसि **व्यत्ययो बहुलम्** (3.1.85) इति लिङ्गव्यत्यय उक्तः। `छन्दोवत्सूत्राणि भवन्ति` (म।भा।1.1.1) इत्यविरुद्धास्यपुंल्लिङ्गता। उ ऊ ऊ3 इत्यनया आनुपूर्व्यैषां प्रश्लेष इति दर्शयति। कुतः पुनरेष निश्चयः - एषैवैषामानुपूर्वीति? एवं मन्यते - **विभाषा पृष्टप्रतिवचने हेः** (8.2.93) इत्येकमात्रिकस्य हेः प्लुतविधानाज्ज्ञायते - न मात्रिकोऽन्त्य इति। अन्त्यत्वे हि सति तस्य प्लुतसंज्ञा स्यात्। एवञ्च प्लुतविधानमनर्थं स्यात्। द्विमात्रिकोऽप्यन्त्यो न भवति; **ओमभ्यादाने** (8.2.87) इति द्विमात्रिकस्य प्लुतविधानात्। तस्य चान्त्यत्वे हि सति यदि प्लुतसंज्ञा स्यात्, तदा च प्लुतस्य प्लुतविधानमनर्थकं स्यात्। तसमादन्ते एकमात्रिकद्विमात्रिकौ न भवतः। मध्येऽप्येकमात्रिको न भवति, **अतो दीर्घो यञि** (7.3.101) इति `सुपि च` (7.3.102) इतिच दीर्घविधानसामर्थ्यात्। यदि मध्यएकमात्रिकः स्यात् तदा तस्य दीर्घसंज्ञा स्यात्,दीर्घस्य दीर्घवचनमकिञ्चित्करं स्यात्, तस्मादादावेकमात्रिकत्वे हि सति पारिशेष्यान्मध्ये द्विमात्रिकः, अन्ते त्रिमात्रिक इति। `उ ऊ ऊ3` इति। अत्राप्युकारादिसहचरितायामुच्चारणक्रियायमुकारादयो वर्तन्ते। एवं कालोऽजिति यकारस्य लोपः। ननु चोकारोऽयमण् गृह्रमाणः सवर्णान् गृह्णातीत्यत उकारेण दीर्घप्लुतयोग्र्रहणे सति तयोरपि ह्रस्वसंज्ञा भवतीत्यत आह- `कालग्रहणम्` इत्यादि। कालग्रहणे हि येषामेताःसंज्ञा विधीयते तेषां यथाक्रममेकमात्रिकत्व द्विमात्रिकत्वत्रिमात्रिकत्वानि विशेषणानि लभ्यन्ते। तथा हि, कालग्रहणेसति प्रत्येकं वाक्यपरिसमाप्तौ क्रियमाणायां त्रयो बहुव्रीहयो भवन्ति- उः कालो यस्य् स उकालः, ऊः कालो यस्य स ऊकालः, ऊ3#ःकालो यस्य सः ऊ3 कालः। एषां यथार्ममेकमात्रिकद्विमात्रिकत्रिमात्रिका अचोऽन्यपदार्थाः। यस्मान्मात्रिक एवाचः `उ` इत्येतत्सहचारिण्या उच्चारमक्रियायास्तुल्यकालः; एवं द्विमात्रिक एवाच `ऊ` इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः; एवं त्रिमात्रिक एवाच `ऊ3` इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः। एवं च सति मात्रापरिमाणस्याचो ह्रस्वसंज्ञा विधीयमाना सत्यप्युकारेण दीर्घप्लुतयोग्र्रहणे तयोर्न भवति, न हि तौ मात्रा परिमाणौ। तेन आलूय, परिणीयेत्यत्र ह्रस्वाश्रयस्तुङ न भवति। `प्रत्यक्ष्य, प्ररक्ष्य` इति। `तक्षू त्वक्षू तनूकरणे` (धातुपाठः-655, 656) `रक्ष पालने` (धातुपाठः-658) **कुगतिप्रादयः** (2.2.18) इति समासे कृते `समासेऽनञ्पूर्वे क्त्वो ल्यप्` (7.1.37) इति ल्यप्। तत्र परतो द्वयोरर्धमातर्योर्हलोः संयोगसंज्ञिनोरूकाल्त्वमस्तीत्यसत्यज्ग्रहणे ह्रस्वसंज्ञा स्यात्, ततश्च ह्रस्वाश्रयस्तुक प्रसज्येत।`तितौच्छत्रम्` इति। अत्राकारोकारचोः समुदायस्य ऊकालत्वाद् द्विमात्रिकत्वमस्तीति दीर्घसंज्ञा स्यात्। ततश्च **पदान्ताद्वा** (6.1.76) इति विकल्पितस्तुक् प्रसज्येत। अज्ग्रहणे तु सति दीर्घसंज्ञा न भवति,अच्समुदायस्याज्ग्रहणेनाग्रहणात्। ननु च सत्यामपि तस्यां समुदायाश्रयायां दीर्घसंज्ञायायमवयवाश्रया ह्रस्वसंज्ञा भविष्यति। तदाश्रयस्तुङनित्य एव, नैतदस्ति; परत्वाद्दीर्घाश्रयस्तुग्विकल्पः प्राप्नोति। न चैवं विधविषये पुनः प्रसङ्गविज्ञानमस्ति; यत्र पूर्वो विधिः प्रवर्तमानः परविधिविज्ञानं न बाधते तत्रैतद्भवति - `पुनः प्रसङ्गविज्ञानात् सिद्धम्` इति, इह तु नित्यो विधिः परविधिविकल्पविज्ञानं बाधते; नित्यविकल्पयोर्विरोधात्। ततश्च `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव` (व्या।प।40) इति परिभाषयैव विकल्पः स्यात्। तस्मादज्ग्रहणं
Praudhamanorama
---------------
**ह्रस्वदीर्घप्लुत** इति समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्। **वां काल इवेति** । फलितार्थकथनमिदम्। विग्रहस्तु वः कालो यस्येति बोध्यः। ऊशब्देन स्वोच्चारणकालो लक्ष्यते।
Prakriyasarvasvam
-----------------
उ ऊ ऊ ३ इत्येतत्तुल्यकाला अचः क्रमेण ह्रस्वदीर्घप्लुतसंज्ञाः स्युः ।* क्रमादेकद्वित्रिमात्रा उवर्णाः कुक्कुटस्वने । प्रसिद्धा इत्युवर्णोक्तौ हेतुमाह प्रसादकृत् ॥ १२ ॥ त्रयाणामुवर्णानां सवर्णदीर्घ ऊकाल इति ।
Sarala
------
**ऊकाल इति** । **उकालः** - प्रथमान्तम्, **अच्** - प्रथमान्तम्, **ह्रस्वदीर्घप्लुतः** - प्रथमान्तम् । **ऊकाल इति** । उश्च ऊश्च ऊ३श्च वः । वः कालो यस्य असौ - ऊकालः । अत्र हि ऊशब्दस्य कालशब्देन सह सामानाधिकरण्यमुपपद्यते । तत्फलितमाह - वां काल इति । अत्र वां काल इव कालो यस्येति न विग्रहो, व्यधिकरणत्वात् । "काल" इति जात्याख्यायामेकवचनम् । "व" इति च "ऊ" शब्दस्य जसि रूपम् । "वा"मिति च "ऊ" शब्दस्य आभि रूपम् । कुक्कुटोच्चरिते शब्दे उकारे एकद्वित्रिमात्राणां प्रसिद्धेरकारादयो नोक्ताः । ह्रस्वश्च दीर्घश्च प्लुतश्च एषां समाहारः - **ह्रस्वदीर्घप्लुतः** । सौत्रं पुंस्त्वम् । इतरेतरद्वन्द्वे सौत्रमेकवचनमिति वा । एकमात्रिकोऽच् ह्रस्वसञ्ज्ञः, द्विमात्रिकोऽच् दीर्घः, त्रिमात्रिकः प्लुतः इत्यर्थः । अत्र च सूत्रे ऊ-उ-उ३ इत्येवं तु न च्छेदः, एवं सति द्विमात्रिकस्य ह्रस्वत्वे एकमात्रिकस्य दीर्घत्वे च **प्वादीनां ह्रस्वः** (७.३.८०) इत्यस्य **अतो दीर्घो यञि** (७.३.१०१) इत्यस्य च वैयर्थ्यापत्तेः । "उ-ऊ३-ऊ" इत्येवमपि न प्रश्लेषः, एवं सति द्विमात्रिकस्य प्लुतत्वेन "ओमभ्यादाने" इति प्लुतविधेर्वैयर्थ्यापत्तेः, ओमित्यस्य द्विमात्रिकतया तस्येदानीं प्लुतत्वस्य स्वतः सिद्धत्वात् । नापि "ऊ३-ऊ-उ" इति एकमात्रिकस्यान्तेच्छेदः, "विभाषा पृष्टप्रतिवचने हे"रिति हेरिकारस्य प्लुतविधेरानर्थक्यापत्तेः । **क्रमादिति** । यथासङ्ख्यसूत्रलभ्यमिदम् । लौकिकन्यायसिद्धं वा । सः - लब्धह्रस्वादिसञ्ज्ञकोऽच्, प्रत्येकमुदात्तादिभेदेन = उदात्तानुदात्तस्वरितभेदेन (उदात्तत्वानुदात्तत्वस्वरितत्वधर्मैः) - **त्रिधा** = त्रिप्रकारक इत्यर्थः । तदित्थं (१) ह्रस्व उदात्तः, (२) ह्रस्वोऽनुदात्तः, (३) ह्रस्वः स्वरितः । (४) दीर्घ उदात्तः, (५) दीर्घोऽनुदात्तः, (६) दीर्घः स्वरितः, (७) प्लुत उदात्तः, (८) प्लुतोऽनुदात्तः, (९) प्लुतः स्वरितः । - इति नवभेदाः । एवञ्च अकारादीनां प्रत्येकं नव भेदा इति लब्धम् ॥
Sudha
-----
**ऊकाल इति । ** ह्रस्वदीर्घप्लुतः इति समाहारद्वन्द्वः, सौत्रं पुंस्त्वम् । एकद्वित्रिमात्रिकोकाराणामुच्चारणकालसदृशोच्चारणकालविशिष्टोऽच् क्रमशो ह्रस्वदीर्घप्लुतसंज्ञको भवतीति सूत्रार्थः । प्राथम्यादकारोच्चारणमेव युक्तमिति न शङ्क्यम् । कुक्कुटोक्ते उकारे एकद्वित्रिमात्रत्वप्रसिद्धेरकारस्यानुक्तेः । **वां काल इति ।** वः इति ऊशब्दस्य प्रथमाबहुवचनम् । वामिति षष्ठीबहुवचनम् । वां काल इव कालो यस्येति फलितार्थकथनमिति यावत् । एकमात्रात्मक उसदृशोच्चारणकालिको योऽच् स ह्रस्वसंज्ञको भवति । एवं द्विमात्रात्मकोकारोच्चारणकालसदृशः कालो यस्याचः स दीर्घसंज्ञको भवति । एवं त्रिमात्रात्मकोकारोच्चारणकालसदृशो योऽच् सः प्लुतसंज्ञको भवति । **स प्रत्येकमिति ।** सः (लब्धह्रस्वादिसंज्ञकः) ह्रस्वः, दीर्घः, प्लुतश्च अच् प्रत्येकमुदात्तादिभेदेन उदात्तत्वेन, अनुदात्तत्वेन, स्वरितत्वेन च धर्मविशेषेण त्रिधा त्रिभिः प्रकारैर्वर्तत इत्यर्थः ॥