84023: वमोर्वा¶
Padacheda: वमोः | S | 7 | 2 |
वा | S | 0 | 0 |
Sutrartha¶
रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य वकारादौ मकारादौ प्रत्यये परे विकल्पेन णत्वं भवति ।
रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य कदा णत्वं भवति अस्मिन् विषये हन्तेरत्पूर्वस्य (8.4.22) इत्यत्र नियमः उक्तः अस्ति, तस्य नियमस्य विकल्पः वर्तमानसूत्रेण दीयते । यदि रेफयुक्तात् उपसर्गात् परः हन्-धातुः प्रयुज्यते (यथा - प्र + हन्, परा + हन् आदयः), तर्हि तस्य नकारस्य तदा एव णत्वं भवति यदा नकारात् पूर्वम् ह्रस्वः अकारः विद्यते - इति हन्तेरत्पूर्वस्य (8.4.22) इत्यनेन एतत् स्पष्टीक्रियते । परन्तु यदि अग्रे वकारादिः उत मकारादिः प्रत्ययः विधीयते , तर्हि एतादृशं णत्वम् विकल्पेनैव भवति - इति अस्य सूत्रस्य आशयः । यथा, ‘प्र + हन्’ धातोः लट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपसिद्धौ ‘प्र + हन् + वः’ इति स्थिते हन्तेरत्पूर्वस्य (8.4.22) इत्यनेन विहितं णत्वम् वर्तमानसूत्रसामर्थ्यात् विकल्पेन भवति, यतः अग्रे वकारादिः प्रत्ययः अस्ति । अतः, अत्र णत्वं कृत्वा ‘प्रहण्वः’, तथा च विना णत्वं ‘प्रहन्वः’ - उभयथा रूपाणि सिद्ध्यन्ति । एवमेव ‘प्रहन्मः / प्रहण्मः’, ‘परिहन्वः / परिहण्वः’ / ‘परिहन्मः / परिहण्मः’ - एतेषु रूपेषु अपि विकल्पः विधीयते । स्मर्तव्यम् - पूर्वसूत्रेण प्राप्तः विधिः वर्तमानसूत्रेण विकल्प्यते, अयः इयम् ‘प्राप्तविभाषा’ अस्ति । (प्राप्तविभाषायाः विषये न वेति विभाषा (1.1.44) इत्यत्र पाठितमस्ति ।)
Sutrartha (English)¶
When the word हन् comes after an उपसर्ग containing a रेफ, and when the नकार of हन् is preceded by a ह्रस्व अकार, this नकार is optionally converted to णकार in presence of a प्रत्यय that begins with a वकार or a मकार.
Vasu English Summary¶
Optionally when व or म follow, the न of हन् is changed to ण , when preceded by an उपसर्ग competent to cause the change.
Vasu English Translation¶
Optionally when व or म follow, the न of हन् is changed to ण , when preceded by an उपसर्ग competent to cause the change. Thus प्रहण्वः, परिहण्वः, or प्रहन्वः and परिहन्वः, प्रहण्मः or प्रहन्मः परिहण्मः or परिहन्मः ॥
This sutra enjoins an option in certain cases, where it would have been obligatory by the last rule.
Kashika¶
हन्तेरिति वर्तते। वकारमकारयोः परतो हन्तिनकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रहण्वः, प्रहन्वः। परिहण्वः, परिहन्वः। प्रहण्मः, प्रहन्मः। परिहण्मः, परिहन्मः॥
Siddhanta Kaumudi¶
उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । हो हन्तेः -(SK358) इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ॥
Balamanorama¶
वमोर्वा - वमोर्वा ।उपसर्गादसमासेऽपी॑त्यतः उपसर्गादित्यनुवर्तते । ‘रषाभ्यां नो णः’ इति सूत्रमनुवर्तते ।हन्तेरत्पूर्वस्ये॑त्यतोहन्ते॑रिति । तदाह - उपसर्गस्यान्निमित्तादिति । णलि जहानेति स्तिते आह — हो हन्तेरिति ।अभ्यासाच्चे॑त्यपेक्षयाऽस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जघ्नतुरिति ।गमहने॑त्युपधालोपेहो हन्ते॑रिति कुत्वम् । थलि भारद्वाजनियमादिड्विकल्पे जहनिथ जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाऽभावान्नकारपरत्वाऽभावाच्चहो हन्ते॑रिति कुत्वाऽप्राप्तौ ।
Tattvabodhini¶
वमोर्वा - जघान जघ्नतुरिति । यद्यप्यत्रअभ्यासाच्चे॑त्यस्यापि प्रवृत्तिरस्ति तत्राप्यन्तरङ्गत्वात्हो हन्ते॑रित्युपन्यस्तम् ।
Padamanjari¶
पूर्वेण नित्ये प्राप्ते विकल्पः ॥
Nyaas¶
पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्। वाग्रहणं पूर्वविधीनां नित्यत्वज्ञापनार्थम्; अन्यथा हि योगारम्भसामर्थ्यादेवास्य विधेर्नित्यत्वं [विधिः -प्रांउ।पाठः; कांउ।पाठश्च] विज्ञायेत, पूर्वेषां तु विधीनां शेषे विभाषा (8.1.50) इत्यतो विभाषाग्रहणस्यानुवृत्तेः पाक्षिकत्वं स्यात्। इह तु वाग्रहणे द्वयोर्विभाषयोर्मध्ये ये विधयस्त एवह नित्या इति तेषां नित्यत्वं विज्ञायते॥
Prakriyasarvasvam¶
उपसर्गस्थात् परस्य हन्तेर्नस्य म्वोः परयोर्वा णः स्यात् । प्रहण्मि, प्रहन्मि । प्रहण्वः, प्रहन्वः । प्रहण्मः प्रहन्मः । कर्मणि हन्यते । ‘हन्तेरत्पूर्वस्य’ इति णत्वे प्रहण्यते, पराह्ण्यते । प्रघ्नन्तीत्यादावत्पूर्वत्वाभावान्न । प्रहन्तीत्यत्र तु नस्यानुस्वारे परसवर्णस्यासिद्धत्वान्णत्वं न । ‘अन्तरपरिग्रहे’ इति गतित्वे,
Sutra Prayogas¶
प्रहण्मः (भट्टिकाव्यम्): वमोर्चा इति णत्वम्।