84022: हन्तेरत्पूर्वस्य¶
Padacheda: हन्तेः | S | 6 | 1 |
अत्पूर्वस्य | S | 6 | 1 |
Sutrartha¶
रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य णत्वं तदैव भवति यदा नकारात् पूर्वमकारः आगच्छति ।
अनेन सूत्रेण हन्-इत्यस्य नकारस्य णत्वं कदा भवितुमर्हति तस्य विषये नियमः प्रोक्तः अस्ति । यस्मिन् उपसर्गे रेफः अस्ति, तादृशात् उपसर्गात् परस्य हन्-धातोः नकारस्य णत्वम् तदा एव भवति, यदा नकारात् पूर्वम् ह्रस्वः अकारः वर्तते - इति अस्य सूत्रस्य आशयः । यथा - 1) ‘प्र + हन्’ इत्यस्य कर्मणि प्रयोगे लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘प्रहण्यते’ इति भवति । अत्र हन्-धातोः नकारात् पूर्वम् ह्रस्वः अकारः विद्यते, अतः अत्र वर्तमानसूत्रेण णत्वं भवति । एवमेव ‘परिहण्यते’, ‘प्रहणम्’ (प्र + हन् + ल्युट्) , ‘परिहणम्’ - एतेषु सर्वेषु शब्देषु वर्तमानसूत्रेण णत्वं नियम्यते । 2) परन्तु, ‘प्र + हन्’ इत्यस्यैव कर्तरि प्रयोगे लट्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् ‘प्रघ्नन्ति’ इति जायते । अत्र ‘हन्’ धातोः नकारस्य णत्वं न भवति, यतः नकारात् पूर्वः यः अकारः, तस्य अल्लोपोऽनः (6.4.134) इत्यनेन लोपः विधीयते । विशेषः - ‘प्र + हन्’ धातोः कर्तरि प्रयोगे लट् लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘प्रहन्ति’ इति भवति । अत्र प्रक्रियायां ‘प्र + हन् + ति’ इति स्थिते आदौ नकारस्य नश्चापदान्तस्य झलि (8.3.24) इत्यनेन अनुस्वारादेशः भवति । अतः वर्तमानसूत्रेण नकारः नैव दृश्यते । अग्रे अनुस्वारस्य ययि परसवर्णः (8.4.58) इत्यनेन अनुस्वारस्य पुनः नकारादेशः भवति । अयं पुनः प्राप्तः नकारः तु वर्तमानसूत्रार्थं असिद्धः अस्ति । अतः अत्र णत्वं न कृतं दृश्यते । ज्ञातव्यम् - अस्मिन् सूत्रे ‘अत्पूर्वस्य’ इति तपरकरणम् कृतमस्ति । अतः ह्रस्व-अकारस्य विषये एव णत्वम् भवितुमर्हति । यदि नकारात् पूर्वः दीर्घः आकारः आगच्छति, तर्हि णत्वनिषेधः एव कर्तव्यः । यथा - ‘प्र + हन्’ धातोः लुङ्लकारस्य कर्मणि प्रयोेग प्रथमपुरुषैकवचस्य रूपम् ‘प्राघानि’ इति भवति । अत्र नकारात् पूर्वमाकारः अस्ति, अतः अत्र णत्वस्य प्रसक्तिः नास्ति ।
Sutrartha (English)¶
When the word हन् comes after an उपसर्ग containing a रेफ, the नकार of हन् is converted to णकार only if that नकार is preceded by an अकार, not otherwise.
Vasu English Summary¶
The न , when preceded by अ , in the root हन् , is changed to ण , when the verb is preceded by a preposition competent to cause the change.
Vasu English Translation¶
The न , when preceded by अ , in the root हन् , is changed to ण , when the verb is preceded by a preposition competent to cause the change. Thus प्रहण्यते, परिहण्यते, प्रहणनम्म् परिहणनम् ॥
Why do we say अत्पूर्वस्य ‘when preceded by अ’? When अ is elided, the change does not take place. As प्रघ्नन्ति, परिघ्नन्ति (6.4.98), and (8.3.54).
Why do we say अत् “preceded by short अ”? Observe पर्यघानि and प्रघानि, the Aorist of हन् by the affix चिण् (3.1.60) प्रहन् + चिण् = प्रघन् + चिण् (8.3.54) = प्रघान् + चिण् (8.2.116) = प्रघानि ‘he killed’. Here न being preceded by the long आ is not changed.
Bhashya¶
हन्तेरत्पूर्वस्य हन्तेरत्पूर्वस्येति किमर्थम्?॥ प्रघ्नन्ति परिघ्नन्ति॥ हन्तेत्पूर्वस्य वचने उक्तम्॥ (हन्तेरत्पूर्वस्यं वचने उक्तम्(1))। किमुक्तम्? ॥ कुव्यवाये हादेशेषु प्रतिषेध इति॥(हन्तेरत्पूर्वस्य)॥
Kashika¶
अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थाद् निमित्तादुत्तरस्य णकार आदेशो भवति। प्रहण्यते। परिहण्यते। प्रहणनम्। परिहणनम्। अत्पूर्वस्येति किम्? प्रघ्नन्ति। परिघ्नन्ति। तपरकरणं किम्? चिणि — प्राघानि। पर्यघानि॥
Siddhanta Kaumudi¶
(हन्तेः)उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं नान्यस्य । प्रहण्यात् ॥ (अत्पूर्वस्य) हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यात् [(परिभाषा - ) अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा] इति न्यायं बाधित्वा एकाजुत्तरपदे (SK307) इति णत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना । इत्यादि । यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङिन्यशस्विन्नर्यमन्पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि इन्हन्नित्यत्र ग्रहणं भवत्येव । [(परिभाषा - ) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति] इति वचनात् । अर्यम्णि । अर्यमणि । पूष्णि । पूषणि ॥
Balamanorama¶
हन्तेरत्पूर्वस्य - नन्विह कथं न णत्वं, भिन्नपदस्थत्वेऽपि ‘एकाजुत्तरपदे णः’ इति णत्वस्य दुर्वारत्वात्, कृते ।ञप्यल्लोपे तस्य पूर्वस्माद्विधौ स्थानिवत्त्वादुत्तरपदस्य एकाच्त्वात्, स्थानिवत्त्वाऽभावेऽपिप्रातिपदिकान्ततुम्विभक्तिषु चे॑त्यस्यकुमति चे॑त्यस्य वा दुर्वारत्वादिति प्राप्ते तद्वारणार्थंहन्तेरत्पूर्वस्ये॑ति सूत्रं विभज्य व्याचष्टे हन्तेः । ‘रषाभ्यां नो णः’ इत्यनुवर्तते ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तात्स्थ्यात्ताच्छब्द्यम् । उपसर्गस्थादिति लभ्यते । तच्च रषयोः प्रत्येकमन्वेति । तदाह-उपसर्गस्थान्निमित्तादित्यादिना । निमित्तशब्देन रेफः षकारश्च विवक्षितः । प्रहण्यादिति । अत्र भिन्नपदस्थात्वादप्राप्ते णत्वे वचनम् । प्रकृतोपयुक्तमाह — अत्पूर्वस्य । हन्तेरित्यनुवर्तते । ‘रषाभ्यां नो णः’ इति च ।उपसर्गा॑दिति तु निवृत्तम् । हन्तेरत्पूर्वस्य नस्य णः स्यादिति लभ्यते । सिद्धे सत्यारम्भो नियमार्थस्तदाह — हन्तेरत्पूर्वस्यैवेत्यादिना । प्रघ्नन्तीति । हन्तेर्लट्, झिः, झोऽन्तः, शप्, लुक्गमहने॑त्युपधालोपः । ‘हो हन्तेः’ इति कुत्वम् । प्रघ्नतीति रूपम् । अत्र उपसर्गस्थरेफात्परत्वात् ‘हन्तेः’ इत्यनेन प्राप्तं णत्वम्अत्पूर्वस्ये॑ति नियमान्न भवति । ‘वृत्रघ्न’ इत्यत्र ‘प्रातिपदिकान्ते’ त्यादिणत्वं निवर्तते । ननुप्रातिपदिकान्तनुम्विभक्तिषु॑ च,एकाजुत्तरपदे णः॑,कुमति च॑,हन्तेरत्पूर्वस्ये॑ति सूत्रपाठक्रमः । ततश्चअनन्तरस्य विधि॑रिति न्यायेनअत्पूर्वस्ये॑ति नियमेनप्रघ्नन्ती॑त्यत्रहन्ते॑रित्यव्यवहितणत्वमेव निवर्तेत, नत्वन्यदित्यत आह — योगेति । यदिअत्पूर्वस्ये॑त्यनेन ‘हन्तेः’ इति णत्वमेव व्यावर्त्त्येत, तर्हिहन्तेरत्पूर्वस्ये॑त्येकमेव सूत्रं स्यात् । उपसर्गस्थान्निमित्तात्परस्य हन्तेरत्पूर्वस्य नस्य णत्वमित्येतावतैव प्रघ्नन्तीत्यत्र णत्वनिवृत्तिसम्भवात् । अतो योगविभागसामर्थ्याण्णत्वमात्रस्यायं नियम इति विज्ञायत इत्यर्थः । एकाजुत्तरेति । ‘कुमति च’ इत्यस्यप्रातिपदिकान्ते॑त्यस्य चोपलक्षणम् । अल्लोपस्य पूर्वस्मादपि विधौ स्थानिवश्त्त्वादेकाच्त्वमुत्तरपदस्य बोध्यम् । नचपूर्वत्रासिद्धे न स्थानिवत् इति वाच्यम्,तस्य दोषः समयोगादिलोपलत्वणत्वेषु॑ इत्युक्तेः । ननु वृत्रघ्न इत्यत्र ‘हो हन्तेः’ इति कथं कुत्वं, पूर्वस्य विधावल्लोपस्य स्थानिवत्त्वादित्यत आह — नकारे पर इति । माधवमतं दूषयितुमनुवदति — यत्त्विति । तुः पूर्ववैषम्ये । वैकल्पिकमिति ।प्रातिपदिकान्ते ति विहितमित्यर्थः । तद्भाष्येति ।कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः । किं प्रयोजनम् । वृत्रघ्नः सुग्घः प्राघानि ।हन्तेरत्पूर्वस्ये॑ति सूत्रे अत्पूर्वग्रहणं न कर्तव्यम् इति अट्कुप्वा॑ङिति सूत्रे भाष्यम् । अत्र णत्वप्रकरणे हादेशकुव्यवाये प्रतिषेधविज्ञानात्प्रातिपदिकान्ते॑ति णत्वमपि आदेशकुव्यवाये न भवतीति विज्ञायते । तद्विरोधान्माधवमतमुपेक्ष्यमित्यर्थः । एवमिति । वृत्रहन्शब्दवदित्यर्थः ।इन्हन्पूषार्यम्णां शौ॑,सौ चे ति दीर्घनियममात्रे दृष्टान्तो, न तु कुत्वादौ, असम्भवात् । शाङ्र्गमस्यास्तीत्यर्थे ‘अत इनिठनौ’ इति मत्वर्थीय इनिः । यशोऽस्यास्तीत्यर्थे ‘अस्मायामेधारुआजः’ इति विनिः । ‘तसौ मत्वर्थे’ इति भत्वान्न रुत्वम् । नन्वर्थवत्परिभाषया ‘इन्हन्’ इत्यत्रार्थवत एव इनो ग्रहणं, ततश्च विन्प्रत्यये इनोऽनर्थकत्वात्तस्य कथं ग्रहणमित्याशङ्क्य परिहरति — यशस्विन्नित्यादिना ।अनिनस्मन्निति । एतच्च ‘येन विधिः’ इति सूत्रे भाष्ये स्थितम् । राज्ञ॑ इत्यत्र अन् अर्थवान्, ‘दाम्नः’ इत्यत्र तु अनर्थकः ।शाङ्र्गी॑त्यत्र इन् अर्थवान्,यशस्वी॑त्यत्र तु अनर्थकः । ‘सुपया’ इत्यत्राऽस् अर्थवान्, ‘सुरुआओता’ इत्यत्र तु अनर्थकः । असन्तत्वाद्दीर्घः ।सुशर्मे॑त्यत्र मन् अर्थवान्,सुप्रथिमे॑त्यत्र त्वनर्थकः । ‘मनः’ इति न ङीप् । अर्यमन्शब्दे पूषन्शब्दे चाऽल्लोपे विशेष इत्याह-अर्यम्णीत्यादि । ‘विभाषा ङिश्योः’ इत्यल्लोपविकल्पः । शसादावचि तु नित्यमल्लोप उक्तप्राय इति भावः । मह्रते पूज्यत इत्यर्थे कनिप्रत्ययः । इकार उच्चारणार्थः । ककार इत् । अन्निति प्रत्ययः शिष्यते । धातोरवुगागमः । तत्र ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः, महधातोर्हस्य घश्चेति त्रयं निपात्यते ।
Tattvabodhini¶
हन्तेरत्पूर्वस्य - अत्पूर्वस्येति । एकाजुत्तरेति । न चाऽल्लोपे कृते एकाच्त्वं नास्तीति वाच्यं, पूर्वस्मादपि विधौ स्थानिवद्भावात् । न चपूर्वत्राऽसिद्धे न स्थानिव॑दिति वाच्यम्,तस्य दोषः संयोगादिलोपलत्वणत्वेष्वि॑त्युक्तेः । निवर्त्त्यते इति ।कुमति चे॑ति णत्वमपि निवर्त्त्यत एवेति बोध्यम् । भाष्ये तु — ॒कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः॑ । किं प्रयोजनम् ।वृत्रघ्नः रुआउग्घ्नः प्राघानि ।हन्तेरत्पूर्वस्ये॑त्यत्पूर्वग्रहणं न कर्तव्यं भवति, इत्युक्तम् । एतच्च वार्तिकाशयवर्णनमात्रम्, नतु वस्तुस्थितिः वार्तिकेन सूत्रावयवप्रत्याख्यानापेक्षया योगविभागमाश्रित्य वार्तिकार्थोपसङ्ग्रहस्यैव न्याय्यत्वादिति तु मनोरमाया स्थितम् । नन्वत्पूर्वस्येत्यत्र तपरो विवक्षितो न वा, यदि विवक्षितस्तर्हिबहुवृत्रहाणी॑ति न सिध्येत् । यद्यविवक्षितस्तदाप्राघानी॑ति चिणन्तेऽपि णत्वं स्यात्, ततश्चकुव्यवाये हादेशेषु प्रतिषेधः॑इति वचनं स्वीकर्तव्यमेवेति किमनेन योगाविभागेन अत्राहुः — तुपरोऽत्र विवक्षित एव । न चबहुवृत्रहाणी॑त्यत्र णत्वाऽसिद्धिः, णत्वस्याऽन्तरङ्गत्वेन तत्कार्यं प्रति दीर्घस्याऽसिद्धत्वात् । न च त्रैपादिकेऽन्तरङ्गे ष#आष्ठी परिभाषा न प्रवर्तत इथि वाच्यं, कार्यकालपक्षाऽभ्युपगमात् । न चैवमन्तरङ्गं णत्वंप्राघानी॑त्यत्रापि स्यादिति वाच्यं,पूर्वधातुः साधनेन युज्यते॑इति पक्षे णत्वस्य बहिरङ्गत्वात् । इष्टानुरोधेनपूर्वं धातुरूपसर्गेणे॑ति पक्षस्यानभ्युपगमादिति । अन्ये तु — ॒हन्तेरत्पूर्वस्ये॑त्यत्रउपसर्गा॑दित्यस्यानुवृत्तिस्वीकाराद्योदविभागसार्थ्येनभ्रूणप्रघ्न ॑इत्यत्रएकाजुत्तरे॑त्यादिना णत्वाऽभावेऽपिवृत्रघ्नः॒॑रुआउग्घ्न॑इत्यत्र णत्वं दर्वारमितिकुव्यवाये॑इति वार्तिकं स्वीकर्तव्यमेव । योगविभागस्याऽनन्तरस्येति न्यायबाधेनापि चरितार्थकत्वादुपसर्गसंबन्धस्यापि बाधे सामर्थ्याऽभावात् । न च ब्राहृआदिषु कर्मसूपपदेषु विधीयमानः क्विप्प्रत्ययः केवलधातोरेव स्यान्न तु सोपसर्गादितिबरहृप्रहा॒॑भ्रूणप्रहे॑ — त्यादि रूपमेव दुर्लभमिति वाच्यम्,आतोऽनुपसर्गे कः॑इत्यत्राऽनुपसर्गे इति सामान्यापेक्षज्ञापकात्सोपसर्गाद्धन्तेरपिब्राहृभ्रूणे॑ति क्विप्संभवात् । अनुपसर्गग्रहणस्य सामान्यापेक्षज्ञापकत्वे तूक्तवार्तिकमेव प्रमाणम् । तस्मान्हन्ते॑रिति योगविभागोऽत्र निरर्थक एवेत्याहुः ।
Padamanjari¶
हन्तेरित्यवयवषष्ठी, अत्पूर्वो यस्मादिति बहुव्रीहिः, नकारोऽन्यपदार्थः । यद्यपि नकारविशेषणानि प्रथमया निद्दिश्यन्ते - अन्तः, उभाविति, तथापीह षष्ठ।ल निर्द्देशः कृतः । इदं हि न्याय्यं व्यतिक्रमोऽल्पः । प्रहण्यत इति । भावे, कर्मणि वा लट् । प्रघ्नन्तीति ।’गमहन’ इत्युपधालोपः,’हो हन्तेः’ इति कुत्वम् । अत्र’कुव्यवाये’ इति प्रसङ्गः । प्राघानीति ।’चिण् भावकर्मणोः’ इति चिण् । श्तिपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्यर्थः - प्रजङ्घनीति । अत्र हि चुत्वे कृते जकारेण व्यवायादेव न भविष्यति ॥
Nyaas¶
हन्तेरित्यवयवलक्षणा षष्ठी। अत्पूर्वस्य इति। अत्पूर्वो यस्मादिति बहुव्रीहिः। नकारोऽन्यपदार्थः। प्रहण्यते इति। हन हिंसागत्योः (धातुपाठः-1012) भावकर्मणोः (1.3.13) इत्यात्मनेपदम्। प्रध्नन्ति इति। गमहन (6.4.98) इत्यादिनोपधालोपः। हो हन्तेर्ञ्णिश्नेषु (7.3.54) इति कुत्वम्। प्राधानि इति। लुङ्, चिण्भावकर्मणोः (3.1.66) इति च्लेश्चिण्, अत उपधायाः (7.2.116) इति वृद्धिः, चिणो लुक् (6.4.104) इति तकारसय लुक्। शितपा निर्देशो धातुनिर्देशारथ एव, न यङ्लुन्निवृत्त्यर्थः। प्रजङ्घनीति इति। द्विर्वचने चुत्वे जश्त्वे कृते परस्य नकारलस्य जकारेम व्यवधानाण्णात्वं न भविष्यतीति। पूर्वस्य तु नश्चापदान्तस्य झलि (8.3.24) इत्यनुस्वारे सत्यनुस्वारी भूतत्वाच्च। अत इति कर्तव्ये पूर्वस्य इति वचनं वैचित्र्यार्थम्॥
Praudhamanorama¶
एकाजुत्तरेति। न चाल्लोपे कृते एकाच्त्वं नास्तीति वाच्यम्। पूर्वस्मादपि विधौ स्थानिवत्त्वात्। न च ‘पूर्वत्रासिद्धे न स्थानिवत्’ इति वाच्यम्। ‘तस्य दोषः संयोगादिलोपलत्वणत्वेषु’ इत्युक्तेः। यत्तु- ‘अट्कुप्वाङ्’ इति सूत्रे ‘वृत्रघ्नः, स्रुघ्नः’ इति भाष्यमुपादाय कैयटेन व्याख्यातम्— ‘प्रातिपदिकान्त’ इति णत्वप्रसङ्ग इति, तत् पञ्चमीसमासो मास्त्वित्याशयेन, तस्य दोष इत्त्यत्र णत्वग्रहणं मास्त्वित्याशयेन वा बोध्यम्। णत्वग्रहणप्रत्याख्यानं तु भाष्ये ध्वनितं कौस्तुभे प्रपञ्चितम्। वस्तुतस्तु ‘कुमति च’ इति नित्यं णत्वमिह न्याय्यम्। सर्वथाऽपि वैकल्पिकं नित्यं वा प्राप्तं णत्वं नियमेन निवर्त्यत इति सिद्धम्। भाष्ये तु— ‘कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः’। किं प्रयोजनम्? वृत्रघ्नः, स्रुघ्नः, प्राघानि। ‘हन्तेरत्पूर्वस्य’ इति अत्पूर्वग्रहणं न कर्तव्यं भवति’ इत्युक्तम्। एतच्च वार्तिकाशयवर्णनमात्रं, न तु वस्तुस्थितिः। वार्तिकेन सूत्रावयवप्रत्याख्यानाऽपेक्षया योगविभागमाश्रित्य वार्तिकार्थोपसङ्ग्रहस्यैव न्याय्यत्वादिति दिक्। माधवेनोक्तमिति। इत्थं हि तदीयो ग्रन्थः ‘भसज्ञायामल्लोपे उत्तरपदमनचकं स्यात्। स्थानिवद्भावश्चाऽल्विधित्वान्नेति एकाजुत्तरपदत्वाऽभावात् ‘प्रातिपदकान्तनुम्विभक्तिषु च’ इति विकल्पो भवति— तद्भाष्येति। किं चाऽल्विधित्वान्नेत्यसङ्गतम्। अल्विध्यर्थमेव ‘अचः परस्मिन्’ इत्यस्याऽऽरम्भात्, तस्याऽप्राप्तौ युक्त्यन्तरस्यैव वाच्यत्वात्। विकल्प इत्यप्यसङ्गतम्, ‘कुमति च’ सूत्रस्य दुर्वारत्वादित्यवधेयम्।
Prakriyasarvasvam¶
हन्तेरकारपूर्वस्यैव नस्य णत्वं नान्यस्य । वृत्रघ्नः, वृत्रघ्नेत्यादि । माधवस्त्वत्र नियममनाश्रित्य प्रातिपदिकान्तत्वाद् वा णत्वमाह । तेन वृत्रघ्नः वृत्रघ्णेत्याद्यपि । भ्यामादौ नलोपे कृते ह्रस्वान्तत्वाद् क्विबाश्रये तुकि प्राप्ते ‘नलोपः सुप्स्वर—’ (८-२-२) इति कृन्निमित्ते तुकि नलोपस्यासिद्धत्वान्न स्यात् । वृत्रहभ्याम् । वृत्रहभिः । एवं करिन्नर्यमन्पूषन्नाद्याः । पूष्णि, पूषणि । पूष्णो ङिङिद्वच्चेति वोपदेवोक्त्या ङौ टिलोपोऽपीति कौमुदी । पूषि । मघवन् स् । ‘मघवा बहुलम्’ (६-४-१२८) इति बहुलोक्तेः असम्बुद्धौ सौ दीर्घः । मघवान् । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्याम् । मघवत्सु । तृत्वाभावे राजवत् । मघवा, मघवानौ । भत्वे प्रसारणम् । मघोनः, मघोनेत्यादि । एवं शुनः, शुना श्वभ्याम् । युवन्शब्दस्य प्रसारणे कृते युउन् अस् । पुनर्यकारस्य प्रसारणे प्राप्ते—