84024: अन्तरदेशे¶
Padacheda: अन्तः | S | 0 | 0 |
अदेशे | S | 7 | 1 |
Sutrartha¶
‘अन्तर्’ इत्यस्मात् उत्तरस्य ‘हन्’ धातोः नकारस्य तदैव णत्वं भवति यदा नकारात् पूर्वं ह्रस्वः अकारः विद्यते । परन्तु निर्मितेन शब्देन देशस्य निर्देशः कर्तव्यः अस्ति चेत् णत्वं न विधीयते ।
‘अन्तर्’ इति शब्दः अन्तरपरिग्रहे (1.4.65) इत्यनेन सूत्रेण गतिसंज्ञकः भवति । अयं शब्दः ‘हन्’ धातोः योगे प्रयुज्यते चेत् ‘अन्तर् + हन्’ इति स्थिते हन्-धातोः नकारस्य णत्वं कदा भवति इत्यस्मिन् विषये अस्मिन् सूत्रे नियमः प्रोक्तः अस्ति । हन्-धातोः नकारस्य णत्वम् तदा एव भवति, यदा नकारात् पूर्वम् ह्रस्वः अकारः वर्तते , परन्तु निर्मितेन शब्देन देशस्य निर्देशः मा भूत् - इति अस्य सूत्रस्य आशयः । यथा - 1) ‘अन्तर् + हन्’ इत्यस्य कर्मणि प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘अन्तर्हण्यते’ (to get destroyed) इति भवति । अत्र ‘हन्’ इत्यत्र नकारात् पूर्वम् ह्रस्वः अकारः विद्यते, अतः अत्र नकारस्य णत्वं कृतमस्ति । 2) एवमेव, ‘अन्तर + हन्’ इत्यस्मात् ल्युट्-प्रत्यये कृते ‘अन्तर्हणन’ (abolishing, destroying) इति प्रातिपदिकं जायते । अत्रापि वर्तमानसूत्रेण णत्वं विधीयते । 3) परन्तु, यदि निर्मितः शब्दः देशस्य निर्देशं करोति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः नकारस्य णत्वं न भवति । यथा - अन्तर्हननः देशः । ‘अन्तः हन्यते अस्मिन् देशे’ इत्यस्मिन् अर्थे करणाधिकरणयोश्च (3.3.117) इति ल्युट्-प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । अत्र देशस्य निर्देशः कृतः अस्ति अतः अत्र णत्वं न भवति । ज्ञातव्यम् - 1. अस्मि्न सूत्रे ‘अत्पूर्वस्य’ इति अनुवर्तते । अत्र ‘अत्’ इति तपरकरणम् कृतमस्ति । इत्युक्ते, यदि नकारात् पूर्वम् ह्रस्वः अकारः न विद्यते, तर्हि णत्वस्य प्रसक्तिः नास्ति । यथा, ‘अन्तर् + हन्’ इत्यस्य कर्मणि प्रयोगे लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘अन्तरघानि’ इति भवति । अत्र नकारात् पूर्वमाकारः विद्यते अतः अत्र णत्वं न विधीयते । एवमेव, ‘अन्तर् + हन्’ इत्यस्य लट्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् ‘अन्तर्घ्नन्ति’ इत्यत्रापि नकारात् पूर्वम् ह्रस्वः अकारः नास्ति अतः अत्रापि णत्वं न क्रियते । 2. वस्तुतः अन्तरपरिग्रहे (1.4.65) इत्यत्र वार्त्तिककारः <!अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसंज्ञा वक्तव्या!> इति वार्त्तिकं पाठयति । अस्य वार्त्तिकस्य (वर्तमानसन्दर्भे) आशयः अयम् - यत्र णत्वविधिः कर्तव्यः अस्ति, तत्र अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अस्यां स्थितौ ‘अन्तर् + हन्’ इत्यत्र ‘अन्तर्’ शब्दस्य उपसर्गसंज्ञां कृत्वा हन्तेरत्पूर्वस्य (8.4.22) इत्यनेन णत्वं भवितुमर्हत्येव । परन्तु तथा क्रियते चेत् देशस्य विषये अपि तादृशं णत्वम् भवेत् - यत् न इष्यते । एतदेव विशिष्टरूपेण स्पष्टीकर्तुम् वर्तमानसूत्रस्य पृथक् रूपेण रचना कृता अस्ति ।
Sutrartha (English)¶
The नकार of हन् is converted to णकार when this word follows the word ‘अन्तर्’ and when this नकार is preceded by a ह्रस्व अकार. But this णत्व does not happen if the resultant word indicates the name of a place.
Vasu English Summary¶
The न preceded by short अ of the root हन् is changed into ण , when the root follows the उपसर्ग - अन्तर and the word does not mean ‘a country’.
Vasu English Translation¶
The न preceded by short अ of the root हन् is changed into ण , when the root follows the उपसर्ग - अन्तर and the word does not mean ‘a country’. Thus अन्तर्हण्यते and अन्तर्हणनं ॥
Why do we say “when not meaning a country अदेश?” Observe अन्तर्हननी देशः ॥
The phrase अत्पूर्वस्य “preceded by short अ” of sutra 22 ante, is to be read into this sutra also. Observe, अन्तर्घ्नन्ति ॥
Why do we say “short अ?” See, अन्तरघानि ॥ The word antar is an upasarga for the purposes of ण change, by the vartika under (l. 4.65); therefore, it would have caused the ण change by (8.4.22). The present sutra is made, to show that the change takes place only then, when it does not mean a country.
Kashika¶
अन्तः शब्दादुत्तरस्य हन्तिनकारस्यात्पूर्वस्य णकारादेशो भवति अदेशाभिधाने। अन्तर्हण्यते। अन्तर्हणनं वर्तते। आदेश इति किम ? अन्तर्हननो देशः। अत्पूर्वस्येत्येव — अन्तर्घ्नन्ति । तपरकरणम् इत्येव — अन्तरघानि॥
Siddhanta Kaumudi¶
अन्तः शब्दाद्धन्तेर्नस्य णः स्यात् । अन्तर्हणनम् । देशे तु अन्तर्हननो देशः । अत्पूर्वस्येत्येव । अन्तर्घ्नन्ति । तपरः किम् । अन्तरघानि ॥
Balamanorama¶
अन्तरदेशे - नश्चापदान्तस्य झलि । चकारान्मस्येत्यनुकृष्यते, अनुस्वार इति च । तदाह — नस्येत्यादिना । यशांसीति । यशश्शब्दात् जस्, जस्शसोश्शिः । ‘नपुंसकस्य झलचः’ इति नुम् । ‘सान्तमहत’ इति दीर्घः । यशान्-सि इति स्थिते नकारस्य अनुस्वारः । आक्रंस्यत इति । क्रमु पादविक्षेपे । आङ्पूर्वात्कर्तरि लृट् । ‘आङ उद्गमने’ इति तङ्, स्यतासी लृलुटोरिति स्यः । स्नुक्रमोरिति नियमान्नेट् । आक्रम् स्य त इति स्थिते मस्य अपदान्तत्वात्पूर्वेणाप्राप्ते वचनम् । नम्यत इति । कर्मणि लट् तङ् यक् । अत्र मस्य झल्परकत्वाभावान्नानेनानुस्वारः । अपदान्तत्वाच्च न पूर्वेण ।
Tattvabodhini¶
अन्तरदेशे - नश्चापदान्तस्य । अपदान्तस्य किम् । राजन्पाहि । आक्रंस्यत इति ।आङ उद्गमने॑ इति तङ् ।स्नुक्रमोः-॑ इति नेट् ।
Padamanjari¶
ठन्तः शब्दस्याङ्किविधिणत्वेषूपसंख्यानम्ऽ इत्युपसर्गसंज्ञाया भावाद्’हन्तेरत्पूर्वस्य’ इति सिद्धे देशप्रतिषेधार्थं वचनम् । अन्तर्हननो देश इति । अधिकरणे ल्युट् ॥
Nyaas¶
अन्तरपरिग्रहे (1.4.65) इत्यत्र अन्तःशब्दस्याङ्क्रिविधिणत्वेषूपसर्गसंज्ञा वक्तव्या (वा।71) इत्यनेन णत्वविधावुपसर्गसंज्ञाया विद्यमानत्वात्? हन्तेरत्पूर्वस्य (8.4.22) इत्यनेनैव णत्वे सिद्धेऽदेशार्चोऽस्य योगस्यारम्भः। अन्तर्हणनम् इति। अत्र भावे ल्युट्। मध्ये हननमित्यर्थः। अन्तरपरिग्रहे (1.4.65) इति गतिसंज्ञकत्वात्? कुगतिप्रादयः (2.2.18) इति समासः। अन्तर्हननो देशः इति। अधिकरणे ल्युट्। अन्तः-शब्दादबन्तस्य हन्तेः -अन्तर्धणो देश इति निपातनादेव देशाभिधानेऽपि णत्वं भवति॥
Prakriyasarvasvam¶
अन्तरशब्दात्परस्य हन्तेरत्पूर्वस्य नस्य णः स्यात्, न तु देशे । अन्तर्हण्यते । देशे तु ‘अन्तर्हनो वाहीके देशः । लिङि हन्यात् हन्याताम् । हन्युः । लोटि हन्तु । तातङो ङित्त्वान्नलोपः । हतात् । हताम् । घ्नन्तु । हन् हि.
Sutra Prayogas¶
अन्तर्-हणनं (भट्टिकाव्यम्): अन्तरदेशे इति नकारस्य णत्वम्।