84023: वमोर्वा ============== **Padacheda:** वमोः | S | 7 | 2 | वा | S | 0 | 0 | Sutrartha --------- **रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य वकारादौ मकारादौ प्रत्यये परे विकल्पेन णत्वं भवति ।** रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य कदा णत्वं भवति अस्मिन् विषये **हन्तेरत्पूर्वस्य** (8.4.22) इत्यत्र नियमः उक्तः अस्ति, तस्य नियमस्य विकल्पः वर्तमानसूत्रेण दीयते । यदि रेफयुक्तात् उपसर्गात् परः हन्-धातुः प्रयुज्यते (यथा - प्र + हन्, परा + हन् आदयः), तर्हि तस्य नकारस्य तदा एव णत्वं भवति यदा नकारात् पूर्वम् ह्रस्वः अकारः विद्यते - इति **हन्तेरत्पूर्वस्य** (8.4.22) इत्यनेन एतत् स्पष्टीक्रियते । परन्तु यदि अग्रे वकारादिः उत मकारादिः प्रत्ययः विधीयते , तर्हि एतादृशं णत्वम् विकल्पेनैव भवति - इति अस्य सूत्रस्य आशयः । यथा, 'प्र + हन्' धातोः लट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपसिद्धौ 'प्र + हन् + वः' इति स्थिते **हन्तेरत्पूर्वस्य** (8.4.22) इत्यनेन विहितं णत्वम् वर्तमानसूत्रसामर्थ्यात् विकल्पेन भवति, यतः अग्रे वकारादिः प्रत्ययः अस्ति । अतः, अत्र णत्वं कृत्वा 'प्रहण्वः', तथा च विना णत्वं 'प्रहन्वः' - उभयथा रूपाणि सिद्ध्यन्ति । एवमेव 'प्रहन्मः / प्रहण्मः', 'परिहन्वः / परिहण्वः' / 'परिहन्मः / परिहण्मः' - एतेषु रूपेषु अपि विकल्पः विधीयते । स्मर्तव्यम् - पूर्वसूत्रेण प्राप्तः विधिः वर्तमानसूत्रेण विकल्प्यते, अयः इयम् 'प्राप्तविभाषा' अस्ति । (प्राप्तविभाषायाः विषये **न वेति विभाषा** (1.1.44) इत्यत्र पाठितमस्ति ।) Sutrartha (English) ------------------- When the word हन् comes after an उपसर्ग containing a रेफ, and when the नकार of हन् is preceded by a ह्रस्व अकार, this नकार is optionally converted to णकार in presence of a प्रत्यय that begins with a वकार or a मकार. Vasu English Summary -------------------- Optionally when व or म follow, the न of हन् is changed to ण , when preceded by an उपसर्ग competent to cause the change. Vasu English Translation ------------------------ Optionally when व or म follow, the न of हन् is changed to ण , when preceded by an उपसर्ग competent to cause the change. Thus प्रहण्वः, परिहण्वः, or प्रहन्वः and परिहन्वः, प्रहण्मः or प्रहन्मः परिहण्मः or परिहन्मः ॥ This *sutra* enjoins an option in certain cases, where it would have been obligatory by the last rule. Kashika ------- हन्तेरिति वर्तते। वकारमकारयोः परतो हन्तिनकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रहण्वः, प्रहन्वः। परिहण्वः, परिहन्वः। प्रहण्मः, प्रहन्मः। परिहण्मः, परिहन्मः॥ Siddhanta Kaumudi ----------------- उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । हो हन्तेः -(SK358) इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ॥ Balamanorama ------------ **वमोर्वा** - वमोर्वा ।उपसर्गादसमासेऽपी॑त्यतः उपसर्गादित्यनुवर्तते । 'रषाभ्यां नो णः' इति सूत्रमनुवर्तते ।हन्तेरत्पूर्वस्ये॑त्यतोहन्ते॑रिति । तदाह - उपसर्गस्यान्निमित्तादिति । णलि जहानेति स्तिते आह — हो हन्तेरिति ।अभ्यासाच्चे॑त्यपेक्षयाऽस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जघ्नतुरिति ।गमहने॑त्युपधालोपेहो हन्ते॑रिति कुत्वम् । थलि भारद्वाजनियमादिड्विकल्पे जहनिथ जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाऽभावान्नकारपरत्वाऽभावाच्चहो हन्ते॑रिति कुत्वाऽप्राप्तौ । Tattvabodhini ------------- **वमोर्वा** - जघान जघ्नतुरिति । यद्यप्यत्रअभ्यासाच्चे॑त्यस्यापि प्रवृत्तिरस्ति तत्राप्यन्तरङ्गत्वात्हो हन्ते॑रित्युपन्यस्तम् । Padamanjari ----------- पूर्वेण नित्ये प्राप्ते विकल्पः ॥ Nyaas ----- पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्। वाग्रहणं पूर्वविधीनां नित्यत्वज्ञापनार्थम्; अन्यथा हि योगारम्भसामर्थ्यादेवास्य विधेर्नित्यत्वं [विधिः -प्रांउ।पाठः; कांउ।पाठश्च] विज्ञायेत, पूर्वेषां तु विधीनां **शेषे विभाषा** (8.1.50) इत्यतो विभाषाग्रहणस्यानुवृत्तेः पाक्षिकत्वं स्यात्। इह तु वाग्रहणे द्वयोर्विभाषयोर्मध्ये ये विधयस्त एवह नित्या इति तेषां नित्यत्वं विज्ञायते॥ Prakriyasarvasvam ----------------- उपसर्गस्थात् परस्य हन्तेर्नस्य म्वोः परयोर्वा णः स्यात् । प्रहण्मि, प्रहन्मि । प्रहण्वः, प्रहन्वः । प्रहण्मः प्रहन्मः । कर्मणि हन्यते । 'हन्तेरत्पूर्वस्य' इति णत्वे प्रहण्यते, पराह्ण्यते । प्रघ्नन्तीत्यादावत्पूर्वत्वाभावान्न । प्रहन्तीत्यत्र तु नस्यानुस्वारे परसवर्णस्यासिद्धत्वान्णत्वं न । 'अन्तरपरिग्रहे' इति गतित्वे, Sutra Prayogas -------------- * **प्रहण्मः** (भट्टिकाव्यम्): `वमोर्चा` इति णत्वम्।