84012: एकाजुत्तरपदे णः¶
Padacheda: एकाच्-उत्तरपदे | S | 7 | 1 |
णः | S | 1 | 1 |
Sutrartha¶
पूर्वपदस्थेन णत्वनिमित्तकवर्णेन प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः एकाच्-उत्तरपदस्य नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।
अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्य विषये सिद्धान्तः प्रोक्तः अस्ति । यदि समस्तपदस्य पूर्वपदे षकारः रेफः वा अस्ति, तथा समस्तपदस्य उत्तरपदे एकः एव अच्-वर्णः अस्ति, तर्हि - (1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । (2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुमर्हति । (3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुमर्हति । क्रमेण उदाहरणानि पश्यामः । (1) ‘वृत्रहन्’ इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - वृत्रम् हतवान् सः वृत्रहन् । अत्र पूर्वपदम् ‘वृत्र’ इति, उत्तरपदम् च ‘हन्’ इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे एकः एव अच्-वर्णः अस्ति । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । यथा - वृत्रहन् + औ → वृत्रहणौ । (2) क्षीरं पिबति तत् क्षीरप । अयमकारान्त-नपुंसकशब्दः । अस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् - क्षीरप + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → क्षीरप + शि [जश्शसोः शिः (7.1.20) इति जस्-इत्यस्य शि-आदेशः] → क्षीरप + नुम् + इ [नपुंसकस्य झलचः (7.1.72) इति नुमागमः] → क्षीरपा + नि [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → क्षीरपाणि [एकाजुत्तरपदे णः (8.4.12) इति णत्वम्] अत्र अन्तिमसोपाने ‘क्षीरप’ इति समस्तपदमस्ति, तस्य पूर्वपदे रेफः अस्ति, उत्तरपदम् एकाच् अस्ति, तथा उत्तरपदे नुमागमः क्रियते । अतः एकाजुत्तरपदे णः (8.4.12) इत्यनेन नुमागमस्य यः नकारः तस्य णत्वं विधीयते । (3) ‘क्षीरप’ इत्यस्यैव तृतीया-एकवचनम् ‘क्षीरपेण’ इति भवति । अत्र नकारः विभक्तिरूपे आगच्छति । अतः अत्रापि अनेन सूत्रेण णत्वं भवति । ज्ञातव्यम् - यद्यपि रषाभ्यां नो णः समानपदे (8.4.1) इत्यस्मात् णकारस्य अनुवृत्तिः अस्ति, तथापि अस्मिन् सूत्रे पुनः णकारः प्रयुक्तः अस्ति । एतत् केवलं स्पष्टतायै कृतमस्ति ।
Sutrartha (English)¶
For a समस्तपद, a रेफ or a षकार present in the पूर्वपद causes the णत्व of the नकार present in the एकाच् उत्तरपद whenever the नकार is (1) at end of a प्रातिपदिक, or (2) created due to a नुमागम, or (3) part of a विभक्ति.
Vasu English Summary¶
In a compound, the second member of which is a monosyllable, there is ण in the room of न of the second member, provided that the न is at the end of a प्रातिपदिक , or is the augment नुम् , or occurs in a विभक्ति; and when the first member contains a cause of change.
Vasu English Translation¶
In a compound, the second member of which is a monosyllable, there is ण in the room of न of the second member, provided that the न is at the end of a प्रातिपदिक , or is the augment नुम् , or occurs in a विभक्ति; and when the first member contains a cause of change. Thus वृत्रहणौ and वृत्रहणः ‘the Vritra-killer’. क्षीरपाणि ‘Drinkers of milk’ : सुरापाणि ‘drinkers of wine’ : being examples of नुम् (7.3.88), क्षीरापेण and सुरापेण are examples of case-terminations.
Why the letter ण is repeated in this sutra, while its anuvritti was understood from the context? It is repeated in order to show that this is not an optional rule, but an obligatory rule. In fact, it shows that the anuvritti of वा ‘optional’ ceases, and does not extend further.
Kashika¶
एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थाद् निमित्तादुत्तरस्य नकारस्य णकार आदेशो भवति। वृत्रहणौ, वृत्रहणः। नुमि — क्षीरपाणि। सुरापाणि। विभक्तौ — क्षीरपेण। सुरापेण। ण इति वर्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेर्विस्पष्टीकरणार्थम्॥
Siddhanta Kaumudi¶
एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाऽभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । स्वयम्भूः पुंवत् ॥
Laghu Siddhanta Kaumudi¶
एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः। वृत्रहणौ॥
Balamanorama¶
एकाजुत्तरपदे णः - एकाजुत्तरपदे णः । समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एकोऽच्यस्मिन्तत्-एकाच्, तदुत्तरपदं यस्य स एकाजुत्तरपदः । तस्मिन्समासे इति बहुव्रीहिगर्भो बहुव्रीहिः । ‘रषाभ्यां नो णः’ इत्यनुवर्तते ।पूर्वपदात्संज्ञाया॑मित्यतः पूर्वपदादित्यनुवर्तते । पूर्वं पदं यस्य तत्पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्थाभ्यामिति लभ्यते ।प्रातिपदिकान्तनुम्विभक्तिषु चे॑त्यनुवर्तते ।विद्यमानस्ये॑ति शेषः । तदाह — एकाजुत्तरपदमित्यादिना । नन्विह णकारग्रहणं व्यर्थं, ‘रषाभ्यां नो णः’ इत्यत एव तदनुवृत्तिसिद्धेः । नचप्रातिपदिकान्तनुम्विभक्तिषु चे॑ति विकल्पनिवृत्त्यर्थं पुनर्णग्रहणमिति वाच्यम्, आरम्भ सामर्थ्यादेव नित्यत्वसिद्धेरित्यत आह — आरम्भेति । यणमिति ।दृन्करे॑ति यणमित्यर्थः । पुनर्भूणामिति । रेफस्यहशि चे॑त्युत्त्वं तु न, रोरेव तद्विधानात् । ङेराम्, पुनर्भ्वाम् । वर्षाभूशब्दे विशेषमाह — भेकेति ।बह्वादिभ्यश्चे॑ति ङीषो वैकल्पिकत्वान्ङीषभावे वर्षाभूशब्दः । स च भेकजातौ द्विलिङ्गः ।भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान् इति यादवः । दर्दुरो भेकः । एवं चलिङ्गान्तरानभिधायकत्वमि॑ति कैयटमते नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावे सतिअम्बार्थे॑ति ह्रस्वाऽभावे सति हे वर्षाभूरिति रूपमित्यर्थः । मतान्तरे त्विति ।पदान्तरं विनापि स्त्रियां वर्तमानत्व॑मिति वृत्तिकारादीनां मते तु वर्षाभूशब्दस्य भेकजातौ स्त्रीलिङ्गमात्रावगमात्कैयटमतेऽपि नित्यस्त्रीत्वं कुतो न स्यादित्यत आह — भेक्यामिति । यादवकोशानुसारादमरकोशे स्त्रीग्रहणमुपलक्षणमिति भावः । यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्वमस्तु । अजादौ ‘एरनेकाचः’ इति यणो ‘न भूसुधियोः’ इति निषेधे प्राप्तेवर्षाभ्वश्चे॑ति यणः प्रतिप्रसव उक्तः । तं स्मारयति-वर्षाभ्वश्चेति । स्वयम्भूः पुंविदिति । स्वयम्भूशब्दस्य चतुरानने रूढत्वात्तस्य यौगिकस्य पदान्तरं विना स्त्रियामवृत्तेर्न वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेकलिङ्गत्वान्न नित्यस्त्रीत्वमितिभावः । इत्यूदन्ताः । अथ ऋदन्ताः । ‘सावसेरृन्’ इति सौ उपपदे असधातोः ऋन्प्रत्यये स्वसृशब्दः, भगिनीवाची ।
Tattvabodhini¶
एकाजुत्तरपदे णः - एकाच् । एकोञ्च् यस्मस्तदेकाच् । तदत्तरपदं यस्य सएकाजुत्तरपद॑ इति बहुव्रीहिगर्भो बहुव्रीहिः । उत्तरपदशब्दः समासावयवे रूढः । तेनाक्षिप्तः समासोऽनेनविशेष्यत इत्याह — तस्मिन्मास इति ।रषाभ्यां नो णः॑इत्यतोण॑इत्युनुबर्तमानेऽपि णग्रहणमिह नित्यार्थमावश्यकमित्याशङ्क्याह — आरम्भसमाथ्र्यादिति ।प्रतिपदिकान्तनुम्बिभक्तिषु चे॑ति विकल्पने (णत्व)सिद्धावेतदारम्भसामर्थ्यादित्यर्थः । स्वयंभूः पुंवदिति । मतद्वयेऽपि नदीसंज्ञाया आभावान्ङिति ह्रस्वश्चेत्यादि न प्रवर्तत इति भावः ।
Padamanjari¶
विकल्पाधिकारनिवृतेविस्पष्टीकरणार्थमिति । अन्यथा यद्यप्यत्रारम्भसामर्थ्यान्नित्यो विधिः शक्यो विज्ञातुम्, उतरत्र त्वनुवृत्तिः सम्भाव्येत ॥
Nyaas¶
वृत्रहणौ इति। ब्राहृभ्रूण (3.2.87) इति क्विप्। क्षीरपाणि इति। पिबतेः पातेर्वा**आतोऽनुपसर्गे कः** (3.2.3) , आतो लोप इटि च (6.4.64) इत्याकारलोपः। सुरापाणि इति। पिबतेः गापोष्टक (3.2.8) । पातेर्वा पूर्ववत्? कः। अथ णग्रहणं किमर्थम्, यावता णः (8.4.1) इत्यनुवर्तत एव? नित्यार्थमिति चेत्? स्यादेतत् -वेति प्रकृतम्, तत्रासति पुनर्णग्रहणे विकल्पः प्रसज्येत, तस्मान्नित्यं यथा स्यादित्येवमर्थं पुनर्णगहणं कृतमिति? एतच्चायुक्तम्, पूर्वेणैव विकल्पः सिद्धः। तत्रारम्भसामर्थ्यादेवायं विधिर्नित्यो भविष्यति? इत्यत आह -ण इत्यनुवर्तमाने इत्यादि। विकल्पाधिकारस्यास्वरितत्वाद्या निवृत्तिस्तस्या विस्पष्टार्थं पूनर्णग्रहणम्। असति हि णग्रहणे कश्चिन्मन्दबुद्धिरेवं मन्येत -अनृवर्तत एव वाग्रहणम्, तस्मस्त्वनुवर्तमानेऽप्यारम्भसामर्थ्यादयं दिधिर्नित्यो भविष्यति, उत्तरस्तु पाक्षिक एवेति॥
Prakriyasarvasvam¶
एकाजुत्तरपदे समास उक्तं णत्वं नित्यं स्यात् । प्रातिपदिकान्ते वृत्रहणौ । नुमि-क्षीरपाणि कुलानि । विभक्तौ-क्षीरपेण ।
Sudha¶
एकाजुत्तरपदे ण इति । समासस्य, चरभावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एकः अच् यस्मिन् तत् एकाच् । तत् उत्तरपदं यस्य स एकाजुत्तरपदः । तस्मिन् समासे इति बहुव्रीहिः । **रषाभ्यां नो णः समानपदे**(8.4.1) इत्यनुवर्तते । **पूर्वपदात् संज्ञायामगः**(8.4.3) इत्यतः पूर्वपदादित्यनुवर्तते । **प्रातिपदिकान्तनुम्विभक्तिषु च**(8.4.11) इत्यनुवर्तते । तदाह - एकाजुत्तरपदमित्यादिना । वृत्रहणौ । वृत्रहन् + औ अत्र **इन्हन्पूषार्यम्णां शौ**(6.4.12) इति नियमात् दीर्घाभावे **एकाजुत्तरपदे णः**(8.4.12) इति णत्वे वृत्रहणौ इति रूपम् । एवं सुटि वृत्रहणः । वृत्रहणम् । वृत्रहणौ । इति बोध्यम् ।
Sutra Prayogas¶
समुद्रगाणाम् (शिशुपालवधम्): एकाजुत्तरपदे णः इति णत्वम्।
सुरा-पिणः (भट्टिकाव्यम्): एकाजुत्तरपदे णः इति णत्वम्।