84011: प्रातिपदिकान्तनुम्विभक्तिषु च

Padacheda: प्रातिपदिकान्त-नुम्-विभक्तिषु | S | 7 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

Optionally ण is substituted for न when it stands at the end of a Nominal-stem (प्रातिपदिक) or is the augment नुम् or is न of a case-affix, (when the cause of change occurs in the first member of the compound).

Vasu English Translation

Optionally ण is substituted for न when it stands at the end of a Nominal-stem (प्रातिपदिक) or is the augment नुम् or is न of a case-affix, (when the cause of change occurs in the first member of the compound). Thus, to take the case a प्रातिपदिकान्त first. माषवापिणौ or माषवापिनौ from माषवापिन् ‘masha-sowing’ formed by णिनि under (3.2.81).

To take the example of a नुम् augment माषवापाणि or माषवापानि, व्रीहिवापाणि or व्रीहिवापानि nominative plural neuter. The augment नुम् is here added by (7.1.72) from माषान् वपयन्ति = माषवाप with कर्मणि अण्, the plural शि is added by (7.1.20), and then नुम् ॥

To take the विभक्ति or case-termination, माषवापेण or माषवापेन, व्रीहिवापेण or व्रीहिवापेन ॥

The word प्रातिपदिकान्त means ‘final in a Pratipadika’. But here it means ‘final in a pratipadika which is a second member, of compound, the first member containing the cause of change’. Therefore the change does not take place in गर्गाणां भगिनी = गर्गभगिनी “the sister of Garga”. But गर्गभगिणी if the word is derived from गर्गभगः ‘the share of Garga’, with the adjectival affix इन्, feminine इनी, meaning, “enjoying the share of Garga.” In this case, like the word मातृभोगीणः ‘fit to be possessed by a mother’: the change will invariably take place.

The word माषवापिणि or ०नी is to be understood to have a final न्, the affix being added afterwards in accordance with the following maxim :- (2.2.19). “It should be stated that Gatis, Karakas, and Upapadas are compounded with bases that end with krit-affixes, before a case termination or a feminine affix has been added to the latter” गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ॥

Therefore the composition takes place first with the word ending in the krit affix, as माषवापिन् (माष + वापिन्), and thus the second term वापिन् is a Pratipadika which ends in न्, and so the rule is applied to it, when the feminine affix is added.

Similarly नुम् is not considered as the end portion of the second member of the compound, but as the end-portion of the full compound word.

Vart:- Prohibition must be stated of the words युवा &c. As आर्ययूना (6.4.133) vocalisation), क्षत्रिययूना ॥ प्रपक्वानि is a gati-samas, दीर्घाह्नी शरत् ॥

Bhashya

प्रातिपदिकान्तनुम्विभक्तिषु च ॥ प्रातिदिकान्तस्य णत्वे समासान्तग्रहणमसमासान्तप्रतिषेधार्थम्॥ प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणं कर्तव्यम्॥ किं प्रयोजनम्?॥ असमासान्तप्रतिषेधार्थम्। असमासान्तस्य मा भूत्-गर्गभगिनी दक्षभगिनीति॥ न वा भवति-गर्गभगिणीति?॥ भवति यदैतद्वाक्यं गर्गाणां भगो गर्गभगः,गर्गभगोऽस्याऽस्तीति। यदा त्वेतद्वाक्यं भवतिगर्गाणां भगिनी गर्गभगिनीति, तदा न भवितव्यं, तदा मा भूदिति(1)॥ यदि समासान्तग्रहणं क्रियते माषवापिणी व्रीहिवापिणीत्यत्र(1) न प्राप्नोति॥ लिङ्गविशिष्टग्रहणे चोक्तम्॥ (लिङ्गविशिष्टग्रहणे चोक्तम्(2))॥ किमुक्तम्?॥ गतिकारकोपपदानां कृदि्भस्सह समासवचनं प्राक् सुबुत्पत्तेरिति॥ तत्र युवादिप्रतिषेधः॥ तत्र युवादीनां प्रतिषेधो वक्तव्यः। आर्ययूना क्षत्रिययूना। प्रपक्वानि परिपक्वानि। दीर्घाह्नी शरदिति॥

Kashika

वेति वर्तते। प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारस्तस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य वा णकार आदेशो भवति। प्रातिपदिकान्ते तावत् — माषवापिणौ, माषवापिनौ। नुमि — माषवापाणि, माषवापानि। व्रीहिवापाणि, व्रीहिवापानि। विभक्तौ — माषवापेण, माषवापेन। व्रीहिवापेण, व्रीहिवापेन। पूर्वपदाधिकारादुत्तरपदस्य प्रातिपदिकस्थो योऽन्त्यो नकारस्तस्येदं णत्वमिष्यते। इह हि न भवति — गर्गाणां भगिनी गर्गभगिनी। यदा त्वेवं भवति — गर्गाणां भगो गर्गभगः। गर्गभगोऽस्या अस्तीति गर्गभगिणीति। तदा मातृभोगीणवद् नित्यमेव णत्वेन भवितव्यम्। माषवापिणी, माषवापिनीत्यत्र तु **गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः**इति कृदन्तेनैव समासे सति प्रातिपदिकस्योत्तरपदस्यैव सतो नकारो भवति। तथा चात्र नुम्ग्रहणं कृतम्। स हि समुदायभक्तत्वादुत्तरपदस्यान्तो न भवति॥ युवादीनां प्रतिषेधो वक्तव्यः॥ आर्ययूना॥ क्षत्रिययूना। प्रपक्वानि। दीर्घाह्नी शरत्॥

Siddhanta Kaumudi

पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि ।<!उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् !> (वार्तिकम्) ॥ नेह । गर्गाणां भगिनी गर्गभगिनी । अतएव नुङ्ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य । किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुङ्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुभ्नादित्वान्न ।<!युवादेर्न !> (वार्तिकम्) ॥ रम्ययूना । परिपक्वानि । एकाजुत्तरपदे णः (SK307) । नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ॥

Balamanorama

प्रातिपदिकान्तनुम्विभक्तिषु च - प्रातिपदिकान्त । पूर्वपदस्थादिति ।पूर्वपदात्संज्ञाया॑मित्यतस्तदनुवृत्तेरिति भावः । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति ।वा भावकरणयो॑रित्यतस्तदनुवृत्तेरिति भावः । प्रातिपदिकान्ते इति । ‘उदाहरणं वक्ष्यते’ इति शेषः । माषवापिणाविति । माषान् वपेते इति विग्रहः ।बहुलमाक्षीक्ष्ण्ये॑ इति जातावपि सुप्युपपदे णिनिः । उपपदसमासः । वापिन्शब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात्तदन्तनस्य णत्वमिति भावः । नुमीति । ‘उदाह्यियते’ इति शेषः । व्रीहिवापाणीति ।कृषीवलकुलानी॑ति शेषः । व्रीहिन्वपन्ती॑ति विग्रहः । कर्मण्यण् । व्रीहिवापशब्दान्नपुंसकात् ‘जश्शसोश्शिः’ ‘नपुंसकस्य झलचः’ इति नुमिसर्वनामस्थाने चे॑ति दीर्घः । नुमो नस्य णत्वमिति भावः । विभक्ताविति । ‘उदाह्यियते’ इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वान्नस्य णत्वम् । इत्यादीति । णत्वाऽभावपक्षे माषवापिनौ, माषवापानि, माषवापेनेत्युदाहार्यमिंति भावः । ननु गर्गाणां भगिनी गर्गभगिनीत्यत्र ङीप्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वान्नकारस्य णत्वविकल्पः कुतो न स्यादित्यत आह — उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षिप्तम् । तच्च प्रातिपदिकस्यैव विशेषणं, नतु तदन्तस्य, नापि नुम्विभक्त्योः, असंभवादिति भावः । नेहेति । गर्गाणां भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदं, नतु तत्प्रातिपदिकं, प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणेन भगिनीशब्दस्य ग्रहणे ।ञपि तदन्तमीकार एव, नतु नकारः, अतो न तस्येदं पाक्षिकं णत्वमिति भावः । प्रातिपदिकस्योत्तरपदत्वविशेषणं सूत्रकारस्य संमतमित्याह — अत एवेति । प्रातिपदकस्य उत्तरपदत्वविशेषणादेव, सूत्रकारेण कृतं नुङ्ग्रहणमर्थवत्, अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह — अङ्गस्येति । ‘नपुंसकस्य झलचः’ इति नुम्विधावङ्गस्येत्यनुवृत्तम् । तथाच झलन्तस्याऽजन्तस्य चाऽङ्गस्य क्लीबस्य नुम् स्यात्सर्वनामस्थाने इत्यर्थो लभ्यते ।माषवापाणी॑त्यत्र तु सर्वनामस्थानं प्रति माषवापशब्दोऽङ्गम् । तस्य माषवापशब्दस्य विहितो नुमागमस्तदवयव एव भवति, नतु उत्तरपदभूतवापशब्दस्यैवाऽवयवः । तथाच उत्तरपदभूतप्रातिपदिकान्तत्वाऽभावात्प्रातिपदिकान्ते॑त्यनेन णत्वविकल्पस्याऽप्राप्तौ नुङ्ग्रहणम् । प्रातिपदिकस्य उत्तरपदत्वं विशेषणाऽभावे तु माषवापशब्दान्तावयवस्य नुमो माषवापेति प्रातिपदिकान्तावयवत्वस्य सत्त्वात्प्रातिपदिकान्ते॑त्येव सिद्धे नुङ्ग्रहणं व्यर्थं स्यादित्यर्थः । तदेव#ं प्रातिपदिकस्य उत्तरपदत्वविशेषणे नुङ्ग्रहणं लिङ्गमिति स्थितम् । वस्तुतस्तुं नेदं लिङ्गमित्याह — किंञ्चेति । किञ्चेति विशेषप्रदर्शने । ‘हिवि प्रीणने’ भ्वादिः, इदित्त्वात् नुम्, लटः शत्रादेशः ।माषवापाणी॑त्यत्र नुमो नस्य प्रातिपदिकान्तत्वेपि प्रहिण्बन्शब्दे नुमो नस्य प्रातिपदिकान्तत्वाऽभावात्प्रातिपपदिकान्ते॑त्यनेन णत्वविकल्पस्याऽप्राप्तेस्तदर्थं नुङ्ग्रहणमावश्यकम् । अत उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुङ्ग्रहणं लिङ्गं स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः । ननु माषवापिणावित्यत्रवापिन्नि॑ति प्रातिपदिकस्य कथमुत्तरपदत्वं,गतिकारकोपपदानां कृद्भिः सह समासवचन॑मिति सुबुत्पत्तेः प्रागेव समासप्रवृत्तेरिति चेत्, न उत्तरपदशब्दस्य समासचरमावयवे रूढत्वादित्यलम् । ननु ‘इवि व्याप्तौ’ इदित्त्वान्नुम् । ल्युटि अनादेशः । प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह — प्रेन्वनमिति । युवादेर्नेति । ‘उक्तणत्वविकल्प’ इति शेषः । वार्तिकमिदम् । रम्ययूनेति । रम्यश्चासौ युवा चेति विग्रहः । प्रातिपदिकान्तनकार त्वात्प्राप्तिः । परिपक्वानीति । इह नुमो नकारस्यप्रातिपदिकान्ते॑ति विकल्पं बाधित्वाकुमति चे॑ति नित्यं णत्वं प्राप्तम्, तदिह, युवादित्वान्निषिध्यते । एकाजुत्तरपदे णः । अजन्तस्त्रीलिङ्गे पुनर्भूशब्दनिरूपणे व्याख्यातमपि प्रकरणानुरोधात्स्मर्यते । नित्यमित्युक्तमिति ।आरम्भसामर्थ्यान्नित्यमिदं णत्व॑मिति तत्रैवोक्तमित्यर्थः । हरिमाणीति । मनेण्र्यन्तात्क्विप् चे॑ति क्विपिगतिकारकोपपदाना॑मिति सुबुत्पत्तेः प्राक् समासः । नान्तत्वान्ङीप् । अत्र॒मा॑निति प्रातिपदिकमुत्तरपदं तदन्तत्वान्नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति । ‘उदाह्यियते’ इति शेषः । क्षीरपाणीति । कर्मण्युपपदे पाधातोः ‘आतोऽनुपसर्गे कः’ इति कः,आतो लोप इटि चे॑त्याल्लोपः । क्षीरपशब्दाज्जश्शसोश्शिः । अजन्तलक्षणो नुम् । दीर्घः । तस्य नित्यं णत्वमम् । विभक्ताविति । ‘उदाह्यियते’ इति । शेषः । क्षीरपेणेति । विभक्तिस्थत्वान्न नित्यं णत्वम् । विभक्तावुदाहरणान्तरमाह — रम्यविणेति । विः=पक्षी, रम्यश्चासौ विश्च, तेनेति विग्रहः । नचात्रपदव्यवायेऽपी॑ति निषेधः शङ्क्यः । किमिह प्रत्ययलक्षणे अन्तर्वर्तिर्नीं विभक्तिमाश्रित्यसुप्तिङन्त॑मिति पदत्वमभिमतम्, उत तृतीयाविभक्तौ परतः ‘स्वादिषु’ इति पदत्वम् । नाद्यः ।उत्तरपदत्वे चापदादिविधौ॑ इति प्रत्ययलक्षमप्रतिषेधात् । न द्वितीयः । ‘स्वादिषु’ इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, नतु विशब्दस्य , तृतीयाविभक्तेः समुदायादेव विधानात् । अत एवपुनर्भूणा॑मित्यत्र नामि भूशब्दमात्रस्य पदत्वाऽभावात् ‘पदव्यवायेऽपि’ इति निषेधाऽभावाण्णत्वमिति प्राञ्चः । अत्र यद्वक्तव्यं तत्पदत्वयवायेऽपीत्यत्रानुपदमेव वक्ष्यते ।

Tattvabodhini

प्रातिपदिकान्तनुम्विभक्तिषु च - माषवापिणाविति ।बहुलमाभूक्ष्ण्ये॑इति णिनिः । व्रीहिवापाणीति । कर्मण्यण् ।उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् । उत्तरपदं यदिति । इष्टानुरोधेन तथा व्याख्यायत इति भावः । गर्गभगिनीति । इह भगिनीशब्द उत्तरपदं, न तु भगिन्शब्दः । अत्र च व्याख्याने नुम्ग्रहणमेव ज्ञापकमिति प्राचां मतमाह — अतएवेति । तदुक्तं ज्ञापकं विघटयति — किंचेति ।युवादेर्न । परिक्वानीति ।कुमति चे॑ति नित्यं णत्वं प्राप्तम् । एकाजुत्तर । प्राग्व्याख्यातमपि प्रकरणानुरोधेन स्मार्यते । वृत्रहणाविति । वृत्रं हतवृन्तौ ।ब्राहृभ्रूणे॑ति क्विप् । हरिमाणीति । मनेण्र्यन्तात्क्वीप् चे॑ति क्विप् ।गतिकारकोपपदाना॑मित्यादिना सुबुत्पत्तेः प्राक्समासान्नकारान्तमुत्तरपदम् । नान्तत्वान्ङीप् । क्षीरपाणीति । पिबतेः कर्मण्युपपदेआतोऽनुपसर्गे॑ इति कः ।आतो लोप इटि चे॑त्यालोपः । रम्यविणेति । रम्यश्चासौ विश्चेति विग्रहः । ततआङो नाऽस्त्रियाम् । नन्वन्तर्वर्तिनीं विभक्तिमाश्रित्य विशब्दस्य पदत्वात्पदव्यवायेपी॑ति णत्वनिषेधः स्यात् । मैवम् ।उत्तरपदत्वे चापदादिविधौ॑इति प्रत्ययलक्षणप्रतिषेधेन विशब्दस्य पदत्वाऽभावात् ।स्वादिषु॑ इत्यनेन तु रम्यविशब्दस्यैव पदत्वं न तु विशब्दस्य । यस्मात्स्वादिविधिस्तस्यैव पदत्वाभ्युपगमात् । एवं च पुनर्भूणामित्यत्र णत्वं निर्बाधमेव, नामि परतो भूशब्दस्य पदत्वाऽभावात् ।

Padamanjari

माषवापिणाविति ।’बहुलमाभीक्ष्ण्ये’ इति णिनिः । माषवापाणीति । माषान्वपन्तीति’कर्मण्यण्’ ,’जश्शसोः शि’ ,’नपुंसकस्य झलचः’ इति नुम् । इह कस्मान्न भवति - गर्गाणां भगिनी गर्गभगिनीति । भगिन्नित्यस्य प्रातिपदिकस्यान्तो नकार इत्यस्ति प्राप्तिः ? इत्यत आह - पूर्वपदाधिकारादिति । एतच्च’पूर्वपदात्संज्ञायाम्’ इत्यत्रैव व्याख्यातम् । किमिदानीं नैव भवति - गर्गभगिणीति, भवति विवक्षान्तरे शास्त्रान्तेरेण नित्यम्, न त्वनेन ? इत्याह - यदा त्विति । मातृभोगीणवदिति । एतदपि तत्रैव व्याख्यातम् । यद्यौतरपदं प्रातिपदिकं गृह्यते माषवापिणीत्यत्र णत्वं न प्राप्नोति, यदुतरपदं वापिनीति न तस्यान्तो नकारः, यस्य चान्तो नकारो वापिन्निति न तदुतरपदम् ? अत आह - माषवापिणीत्यादि । ठुपपदमतिङ्ऽ इत्यत्रैतद्व्याख्यातम् । ठुतरपदभूतं प्रातिपदिकं गृह्यतेऽ इत्यत्र ज्ञापकमाह - तथा चेति । कथमेतज्ज्ञापकम् ? इत्याह - स हीति । अङ्गस्य नुम्विधीयते, ततश्च तद्भक्तो नुम् तद्ग्रहणेनैव गृह्यते, नोतरपदग्रहणेन । यदि च यत्किञ्चन प्रातिपदिकं गृह्यएत नोतरपदमेव, ततो नुम्ग्रहणमकर्तव्यमेव स्यात्;’समासप्रातिपदिकान्त’ इत्येव सिद्धत्वात् । आर्ययूनेति । विशेषणमासः ।’श्वयुवमघोनामतद्धिते’ इति सम्प्रसारणम् । प्रपक्वानीति । गतिसमासः । अत्र’कुमति च’ इति नित्यं णत्वं प्राप्नोति । दीर्घाह्नी शरदिति । अयमपि युवादिषु द्रष्टव्य इत्युक्तम् ॥

Nyaas

अन्तशब्दोऽवयवववाची। माषवापिणौ इति। बहुलमाभीक्ष्ण्ये (3.2.81) इति णिनिः, न तु सुप्यजाती णिनिस्ताच्छील्ये (3.2.78) इति; जातिवाचित्वादुपपदस्य। माषवापाणि इत्युपपदसमासः, माषान्? वपन्तीति कर्मण्यण् (3.2.1) , जश्शसोः शिः (7.1.20) इति शिरादेशः; नपुंसकस्य झलचः (7.1.72) इति नुम्, सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति दीर्घः। माषवापेण इति। माधवापशब्दात्? तृतीयैकवचनस्य टाङसिङसामिनात्स्याः (7.1.12) इतीनादेशः।अथह कस्मान्न भवति -गर्गाणाअं भगिनो गर्गभगिनीति, अत्रापि गर्गशब्दात्? परो भगिन्नित्येष शब्दः प्रातिपदिकम्, तस्य चान्तो नकारो भवतीत्यस्ति प्राप्तिः? इत्यत आह -पूर्वपदाधिकारात् इत्यादि। पूर्वपदात्संज्ञायामगः (8.4.3) इत्यतः पूर्वपदात् इत्यनुवर्तते, पूर्वशब्दस्य सम्बन्दिशब्दत्वात्, यदपेक्षया तस्य पूर्वपदत्वं तदेवोत्तरपदमुपस्थापयति। तेन यद्यपीह प्रातिपदिकस्य विशेषो नोपात्तः, तथाप्युत्ततरपदं यत्? प्रातिपदिकं तदन्तस्य नकारस्यैव णकारादेशो भवति। इह हि न भवति इति। हिशब्दो हेतौ। यस्मात्? पूर्वपदाधिकारादुत्तरपदं यत्? प्रातिपदिकं तदन्तस्यैव नकारस्य णत्वं विज्ञायते, तस्माद्गर्गभगिनीत्यत्र न भवति। न ह्यत्र भगिन्नित्येतच्छब्दरूपमृत्तरपदम्, किं तर्हि? भगिनीत्येव शब्दः, स च प्रातिपदिकं न भवति; अप्रत्ययः (1.2.45) इति निषेधात। न च तस्यान्तो नकारः, किं तर्हि? ईकारः। ननु गर्गभगिणीत्ययमपि च प्रयोगो दृशर्यते, स चैवं सति नोपपद्यते? इत्यत आह -यदा तु इत्यादि। यदा तु गर्गाणां भगिनीत्येवं व्युत्पत्तिः, तदा न भवितव्यं णत्वेन। यदा तु गर्गस्य भग इति भगशब्देन षष्ठीसमासं कृत्वा, ततः स्त्रियां मत्वर्य इञिः -इति व्युत्पाद्यते, तदैवं व्युत्पत्तौ सत्यां यथा मातृभोगीण इत्यत्र नित्यं णत्वं भवति, तता गर्गभगिणीत्यत्रापि णत्वेन भवितव्यम्। मातृभोगीणवत् इत्यनेन तदापि नानेन सूत्रेण वा णत्वम्, किं तर्हि? लक्षणान्तरेणेति दर्शयति। तेनैतदुक्तं भवति -यदैवं व्युत्पत्तिर्भवति तदा यथा मातृबोगीण इत्यत्र अट्कुप्वादिना (8.4.2) नित्यं तद्धितस्य नकारस्य णत्वं भवति; तथा गर्गभगिणीत्यत्रापि। अत्र तद्धितस्थ एव नकारः, न तूत्तरपदस्थः। अत एव भिन्नपदस्थता निमित्तनिमित्तिनोर्नाशङ्कनीया। यथा पूर्वपदात्संज्ञायामगः (8.4.3) इत्यनेन नियमेन णत्वं न निवर्त्त्यते, तथा तत्रैव प्रतिपादितम्। यद्युत्तरपदं यत्प्रातिपदिकं तदन्तस्य नकारस्य णकारेण भवितव्यम्, एवं सति माषवापिणी, माषवापिनीत्यत्र विभाषा णत्वं न प्राप्नोति। अत्र वापिनौशब्द एवोत्तरपदम्, न वापिन्नित्येतच्छब्दः? इत्यत आह -माववापिनीत्यत्र तु इत्यादि। अत्र हि प्राक्? सुबुत्पत्तेः कृदन्तेनैव वापिन्नित्यनेन समासे कृते सति प्रातिपदिकस्यान्तो नकारो भवति; वापिन्नित्येतस्य कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकत्वात्। तस्माद्भवत्येवात्र णत्वमिति। कथं पुनः प्राक्सुबुत्पत्तेः समासे सत्युत्तरपदस्यान्तो नकार उपपद्यते? यावता सुप्तिङन्तं पदम् (1.4.14) इत्यनेन सुबन्तस्य तिङन्तस्य च पदमित्येषा संज्ञा विहिता। तत्रासत्यां सुबुत्पत्तौ पदत्वमत्र न सम्भवति। कुतः पुनरेतदुत्तरपदमित्येष विशेषः? रूढित्वाददोषः। पूर्वपदोत्तरपदशब्दावेदौ रूढिशब्दौ; यस्मात्? समासे कृते यः कश्चिच्छब्दः पूर्वपदमिति प्रसिद्धः, यः कश्चिदुत्तरपदमिति। सा च रूढिर्न सुबन्तेष्वेव समासावयवेषु सम्भवति; किं तर्हि? असुबन्तेष्वपि केषुचिदिति। तत्? किमत्र नोपपद्यते पूर्वोत्तरपदन्यवहारः! तथात्र इत्यादिना यदुक्तम्? पूर्वपदाधिकारादुत्तरस्य इति तद्द्रढयति। यत एवमुत्तरपदस्य प्रातिपदिकस्य योऽन्त्यो न कारस्तस्यैव णत्वं भवति, नान्यस्येत्ययमत्रार्थः। एवञ्च कृत्वा नुम्ग्रहणं कृतम्। कस्मात्? पुनरस्मिन्नर्थे सति नुमो न सिध्यति, यतस्तदुपादानं कृतम्? इत्यत आह -स हि इत्यादि। अङ्गस्य नुम्विधानात्। माषवापानीत्यत्र समुदायस्याङ्गत्वात्? समुदायात्मनोऽङ्गस्य भक्तो नुम्; नोत्तरपदस्य। ततश्चोत्तरपदस्यान्तो नुम्? न भवति। तत्र यदि नुम्ग्रहणं न क्रियेत तदा णत्वं न स्यादित्यभिप्रायः। यदि पुनः प्रातिपदिकस्यानुत्तरपदभूतस्यापि योऽन्तो नकारः, तस्य णत्वं विधीयते, तदा नुम्ग्रहणं न कर्तव्यमेव, प्रातिपदिकान्तस्येत्येव सिद्धत्वात्। भवति हि माषवापिनीत्यत्रापि समासे सति प्रातिपदिकस्यान्तो नकारः।वक्तव्यम् इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -वा (8.4.10) इति वर्तते, सा च व्यवस्थितविभाषा, तेन युवादीनां णत्वेन न भवितव्यम्। आर्ययूना इति। विशेषणसमासः, आयुवमघोनामतद्धिते (6.4.133) इति सम्प्रसारणम्, सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपत्वम्, अकः सवर्णे दीर्घः (6.1.101) प्रपक्वानि इति। गतिसमासः। चकारस्य पूर्वोक्तमेव प्रयोजनम्॥

Prakriyasarvasvam

प्रातिपदिकान्ते नुमि विभक्तौ च स्थितस्य पूर्वपदस्थान्निमित्तात् परस्य नस्य णत्वं वा स्यात् । माषवापिञ्छब्दे-माषवापिणौ । हे माषवापिन् इत्यत्र तु,

Vartika

युवादेर्न ।