84012: एकाजुत्तरपदे णः ====================== **Padacheda:** एकाच्-उत्तरपदे | S | 7 | 1 | णः | S | 1 | 1 | Sutrartha --------- **पूर्वपदस्थेन णत्वनिमित्तकवर्णेन प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः एकाच्-उत्तरपदस्य नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।** अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्य विषये सिद्धान्तः प्रोक्तः अस्ति । यदि समस्तपदस्य पूर्वपदे षकारः रेफः वा अस्ति, तथा समस्तपदस्य उत्तरपदे एकः एव अच्-वर्णः अस्ति, तर्हि - (1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । (2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुमर्हति । (3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुमर्हति । क्रमेण उदाहरणानि पश्यामः । (1) 'वृत्रहन्' इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - वृत्रम् हतवान् सः वृत्रहन् । अत्र पूर्वपदम् 'वृत्र' इति, उत्तरपदम् च 'हन्' इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे एकः एव अच्-वर्णः अस्ति । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । यथा - वृत्रहन् + औ → वृत्रहणौ । (2) क्षीरं पिबति तत् क्षीरप । अयमकारान्त-नपुंसकशब्दः । अस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् - क्षीरप + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → क्षीरप + शि [**जश्शसोः शिः** (7.1.20) इति जस्-इत्यस्य शि-आदेशः] → क्षीरप + नुम् + इ [**नपुंसकस्य झलचः** (7.1.72) इति नुमागमः] → क्षीरपा + नि [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → क्षीरपाणि [**एकाजुत्तरपदे णः** (8.4.12) इति णत्वम्] अत्र अन्तिमसोपाने 'क्षीरप' इति समस्तपदमस्ति, तस्य पूर्वपदे रेफः अस्ति, उत्तरपदम् एकाच् अस्ति, तथा उत्तरपदे नुमागमः क्रियते । अतः **एकाजुत्तरपदे णः** (8.4.12) इत्यनेन नुमागमस्य यः नकारः तस्य णत्वं विधीयते । (3) 'क्षीरप' इत्यस्यैव तृतीया-एकवचनम् 'क्षीरपेण' इति भवति । अत्र नकारः विभक्तिरूपे आगच्छति । अतः अत्रापि अनेन सूत्रेण णत्वं भवति । ज्ञातव्यम् - यद्यपि **रषाभ्यां नो णः समानपदे** (8.4.1) इत्यस्मात् णकारस्य अनुवृत्तिः अस्ति, तथापि अस्मिन् सूत्रे पुनः णकारः प्रयुक्तः अस्ति । एतत् केवलं स्पष्टतायै कृतमस्ति । Sutrartha (English) ------------------- For a समस्तपद, a रेफ or a षकार present in the पूर्वपद causes the णत्व of the नकार present in the एकाच् उत्तरपद whenever the नकार is (1) at end of a प्रातिपदिक, or (2) created due to a नुमागम, or (3) part of a विभक्ति. Vasu English Summary -------------------- In a compound, the second member of which is a monosyllable, there is ण in the room of न of the second member, provided that the न is at the end of a प्रातिपदिक , or is the augment नुम् , or occurs in a विभक्ति; and when the first member contains a cause of change. Vasu English Translation ------------------------ In a compound, the second member of which is a monosyllable, there is ण in the room of न of the second member, provided that the न is at the end of a प्रातिपदिक , or is the augment नुम् , or occurs in a विभक्ति; and when the first member contains a cause of change. Thus वृत्रहणौ and वृत्रहणः 'the *Vritra*-killer'. क्षीरपाणि 'Drinkers of milk' : सुरापाणि 'drinkers of wine' : being examples of नुम् (7.3.88), क्षीरापेण and सुरापेण are examples of case-terminations. Why the letter ण is repeated in this *sutra*, while its *anuvritti* was understood from the context? It is repeated in order to show that this is not an optional rule, but an obligatory rule. In fact, it shows that the *anuvritti* of वा 'optional' ceases, and does not extend further. Kashika ------- एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थाद् निमित्तादुत्तरस्य नकारस्य णकार आदेशो भवति। वृत्रहणौ, वृत्रहणः। नुमि — क्षीरपाणि। सुरापाणि। विभक्तौ — क्षीरपेण। सुरापेण। ण इति वर्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेर्विस्पष्टीकरणार्थम्॥ Siddhanta Kaumudi ----------------- एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाऽभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । स्वयम्भूः पुंवत् ॥ Laghu Siddhanta Kaumudi ----------------------- एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः। वृत्रहणौ॥ Balamanorama ------------ **एकाजुत्तरपदे णः** - एकाजुत्तरपदे णः । समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एकोऽच्यस्मिन्तत्-एकाच्, तदुत्तरपदं यस्य स एकाजुत्तरपदः । तस्मिन्समासे इति बहुव्रीहिगर्भो बहुव्रीहिः । 'रषाभ्यां नो णः' इत्यनुवर्तते ।पूर्वपदात्संज्ञाया॑मित्यतः पूर्वपदादित्यनुवर्तते । पूर्वं पदं यस्य तत्पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्थाभ्यामिति लभ्यते ।प्रातिपदिकान्तनुम्विभक्तिषु चे॑त्यनुवर्तते ।विद्यमानस्ये॑ति शेषः । तदाह — एकाजुत्तरपदमित्यादिना । नन्विह णकारग्रहणं व्यर्थं, 'रषाभ्यां नो णः' इत्यत एव तदनुवृत्तिसिद्धेः । नचप्रातिपदिकान्तनुम्विभक्तिषु चे॑ति विकल्पनिवृत्त्यर्थं पुनर्णग्रहणमिति वाच्यम्, आरम्भ सामर्थ्यादेव नित्यत्वसिद्धेरित्यत आह — आरम्भेति । यणमिति ।दृन्करे॑ति यणमित्यर्थः । पुनर्भूणामिति । रेफस्यहशि चे॑त्युत्त्वं तु न, रोरेव तद्विधानात् । ङेराम्, पुनर्भ्वाम् । वर्षाभूशब्दे विशेषमाह — भेकेति ।बह्वादिभ्यश्चे॑ति ङीषो वैकल्पिकत्वान्ङीषभावे वर्षाभूशब्दः । स च भेकजातौ द्विलिङ्गः ।भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान् इति यादवः । दर्दुरो भेकः । एवं चलिङ्गान्तरानभिधायकत्वमि॑ति कैयटमते नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावे सतिअम्बार्थे॑ति ह्रस्वाऽभावे सति हे वर्षाभूरिति रूपमित्यर्थः । मतान्तरे त्विति ।पदान्तरं विनापि स्त्रियां वर्तमानत्व॑मिति वृत्तिकारादीनां मते तु वर्षाभूशब्दस्य भेकजातौ स्त्रीलिङ्गमात्रावगमात्कैयटमतेऽपि नित्यस्त्रीत्वं कुतो न स्यादित्यत आह — भेक्यामिति । यादवकोशानुसारादमरकोशे स्त्रीग्रहणमुपलक्षणमिति भावः । यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्वमस्तु । अजादौ 'एरनेकाचः' इति यणो 'न भूसुधियोः' इति निषेधे प्राप्तेवर्षाभ्वश्चे॑ति यणः प्रतिप्रसव उक्तः । तं स्मारयति-वर्षाभ्वश्चेति । स्वयम्भूः पुंविदिति । स्वयम्भूशब्दस्य चतुरानने रूढत्वात्तस्य यौगिकस्य पदान्तरं विना स्त्रियामवृत्तेर्न वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेकलिङ्गत्वान्न नित्यस्त्रीत्वमितिभावः । इत्यूदन्ताः । अथ ऋदन्ताः । 'सावसेरृन्' इति सौ उपपदे असधातोः ऋन्प्रत्यये स्वसृशब्दः, भगिनीवाची । Tattvabodhini ------------- **एकाजुत्तरपदे णः** - एकाच् । एकोञ्च् यस्मस्तदेकाच् । तदत्तरपदं यस्य सएकाजुत्तरपद॑ इति बहुव्रीहिगर्भो बहुव्रीहिः । उत्तरपदशब्दः समासावयवे रूढः । तेनाक्षिप्तः समासोऽनेनविशेष्यत इत्याह — तस्मिन्मास इति ।रषाभ्यां नो णः॑इत्यतोण॑इत्युनुबर्तमानेऽपि णग्रहणमिह नित्यार्थमावश्यकमित्याशङ्क्याह — आरम्भसमाथ्र्यादिति ।प्रतिपदिकान्तनुम्बिभक्तिषु चे॑ति विकल्पने (णत्व)सिद्धावेतदारम्भसामर्थ्यादित्यर्थः । स्वयंभूः पुंवदिति । मतद्वयेऽपि नदीसंज्ञाया आभावान्ङिति ह्रस्वश्चेत्यादि न प्रवर्तत इति भावः । Padamanjari ----------- विकल्पाधिकारनिवृतेविस्पष्टीकरणार्थमिति । अन्यथा यद्यप्यत्रारम्भसामर्थ्यान्नित्यो विधिः शक्यो विज्ञातुम्, उतरत्र त्वनुवृत्तिः सम्भाव्येत ॥ Nyaas ----- `वृत्रहणौ` इति। `ब्राहृभ्रूण` (3.2.87) इति क्विप्। `क्षीरपाणि` इति। पिबतेः पातेर्वा**आतोऽनुपसर्गे कः** (3.2.3) , **आतो लोप इटि च** (6.4.64) इत्याकारलोपः। `सुरापाणि` इति। पिबतेः `गापोष्टक` (3.2.8) । पातेर्वा पूर्ववत्? कः। अथ णग्रहणं किमर्थम्, यावता `णः` (8.4.1) इत्यनुवर्तत एव? नित्यार्थमिति चेत्? स्यादेतत् -वेति प्रकृतम्, तत्रासति पुनर्णग्रहणे विकल्पः प्रसज्येत, तस्मान्नित्यं यथा स्यादित्येवमर्थं पुनर्णगहणं कृतमिति? एतच्चायुक्तम्, पूर्वेणैव विकल्पः सिद्धः। तत्रारम्भसामर्थ्यादेवायं विधिर्नित्यो भविष्यति? इत्यत आह -`ण इत्यनुवर्तमाने` इत्यादि। विकल्पाधिकारस्यास्वरितत्वाद्या निवृत्तिस्तस्या विस्पष्टार्थं पूनर्णग्रहणम्। असति हि णग्रहणे कश्चिन्मन्दबुद्धिरेवं मन्येत -अनृवर्तत एव वाग्रहणम्, तस्मस्त्वनुवर्तमानेऽप्यारम्भसामर्थ्यादयं दिधिर्नित्यो भविष्यति, उत्तरस्तु पाक्षिक एवेति॥ Prakriyasarvasvam ----------------- एकाजुत्तरपदे समास उक्तं णत्वं नित्यं स्यात् । प्रातिपदिकान्ते वृत्रहणौ । नुमि-क्षीरपाणि कुलानि । विभक्तौ-क्षीरपेण । Sudha ----- एकाजुत्तरपदे ण इति । समासस्य, चरभावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एकः अच् यस्मिन् तत् एकाच् । तत् उत्तरपदं यस्य स एकाजुत्तरपदः । तस्मिन् समासे इति बहुव्रीहिः । **रषाभ्यां नो णः समानपदे**(8.4.1) इत्यनुवर्तते । **पूर्वपदात् संज्ञायामगः**(8.4.3) इत्यतः पूर्वपदादित्यनुवर्तते । **प्रातिपदिकान्तनुम्विभक्तिषु च**(8.4.11) इत्यनुवर्तते । तदाह - एकाजुत्तरपदमित्यादिना । वृत्रहणौ । वृत्रहन् + औ अत्र **इन्हन्पूषार्यम्णां शौ**(6.4.12) इति नियमात् दीर्घाभावे **एकाजुत्तरपदे णः**(8.4.12) इति णत्वे वृत्रहणौ इति रूपम् । एवं सुटि वृत्रहणः । वृत्रहणम् । वृत्रहणौ । इति बोध्यम् । Sutra Prayogas -------------- * **समुद्रगाणाम्** (शिशुपालवधम्): `एकाजुत्तरपदे णः` इति णत्वम्। * **सुरा-पिणः** (भट्टिकाव्यम्): `एकाजुत्तरपदे णः` इति णत्वम्।