84013: कुमति च¶
Padacheda: कुमति | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
समस्तपदस्य अनेकाच्-उत्तरपदे कवर्गीयवर्णः अस्ति चेत् पूर्वपदस्थेन णत्वनिमित्तकवर्णेन उत्तरपदस्य प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।
अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति । यदि उत्तरपदम् एकाच् विद्यते, तर्हि पूर्वसूत्रेण एकाजुत्तरपदे णः (8.4.12) इत्यनेनैव णत्वं भवितुमर्हति । परन्तु यदि उत्तरपदमनेकाच् विद्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्मिन् अनेकाच्-उत्तरपदे यदि क-वर्गीयः वर्णः (क् / ख् / ग् / घ्/ ङ् एतेषु कश्चन) अस्ति, तर्हि - (1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । (2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुमर्हति । (3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुमर्हति । इति वर्तमानसूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि - 1. हरिकामिन् (one who wishes the god) इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - हरेः कामी सः हरिकामी । अत्र पूर्वपदम् ‘हरि’ इति, उत्तरपदम् ‘कामी’ इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे द्वौ अच्-वर्णौ तथा ककारः विद्यते । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य मकारस्य स्वरस्य च व्यवधाने अपि णत्वं भवितुमर्हति । यथा - हरिकामिन् + औ → हरिकामिणौ । एवमेव - वस्त्रयुगिणौ, स्वर्गगामिणौ - एतौ शब्दौ अपि सिद्ध्यतः । 2. ‘खरयुग’ इति अकारान्तनपुंसकलिङ्गशब्दः । तस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् - खरयुग + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → खरयुग + शि [जश्शसोः शिः (7.1.20) इति शि-आदेशः] → खरयुग + नुम् + इ [नपुंसकस्य झलचः (7.1.72) इति नुमागमः] → खरयुगा + न् + इ [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → खरयुगाणि [कुमति च (8.4.13) इति णत्वम्] एवमेव - सर्वयुगाणि, सर्वकामाणि, सर्वकाकाणाम्, परखगाणाम् - एतादृशाः शब्दाः सिद्ध्यति । 3. ‘खरयुग’ शब्दस्य तृतीयैकवचने ‘टा’ प्रत्ययस्य ‘इन’ आदेशे कृते अस्य विभक्तिसंज्ञकस्य नकारस्यापि अनेनैव सूत्रेण णत्वं भवति । खरयुग + टा → खरयुगेण । एवमवे - सर्वकामेण, परखगेण, सर्वयुगेण - आदयः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘कुमति’ इति शब्दः प्रयुज्यते । ‘कु’ इत्यमात् तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इत्यनेन मतुप्-प्रत्यये कृते कुमत् इति शब्दः सिद्ध्यति, तस्य इदं सप्तम्येकवचनम् । ‘कु’ (इत्युक्ते, कवर्गीयवर्णः) विद्यते यस्मिन्, सः कुमान् - इति अस्य अर्थः । अतः ‘कुमति’ इत्यस्य अर्थः ‘तादृशे शब्दे परे यस्मिन् कवर्गीयवर्णः विद्यते’ - इति अस्ति । अतः अत्र उत्तरपदे कवर्गीयव्यञ्जनम् स्यात् इति आवश्यकम् । 2. उत्तरपदे कवर्गं विहाय अन्ये वर्णाः सन्ति चेत् ते अट्-पु-आङ्-नुम्-एतेषु केचन एव भवेयुः । अन्यः कश्चन वर्णः भवति चेत् णत्वं नैव सम्भवति । यथा - ‘चन्द्रकलानाम्’ अत्र पूर्वपदे यद्यपि रेफः विद्यते, तथा च उत्तरपदे यद्यपि ककारः विद्यते तथापि लकारः अपि अस्ति, यस्य व्यवधानम् णत्वं बाधते । अतः अत्र णत्वं न भवति । 3. प्रश्नः - अस्मिन् सूत्रे ‘कुमति च’ इत्यस्य स्थाने ‘कौ च’ इत्युच्यते चेत् कः दोषः ? उत्तरम् - यदि ‘कौ च’ इति स्यात्, तर्हि <!यस्मिन् विधिस्तदादौ अल्ग्रहणे!> अनया परिभाषया केवलम् ‘यस्य उत्तरपदस्य कवर्गीयवर्णेन प्रारम्भः भवति, तस्य विषये एव णत्वं स्यात्’ इति अर्थः सिद्ध्येत् । अस्यां स्थितौ ‘खरयुगिणौ, सर्वयोग्येण’ - एतादृशेषु शब्देषु णत्वं न जायेत । अतः अत्र ‘कुमति’ इति मतुप्-प्रत्ययान्तप्रयोगः क्रियते । अनेन प्रयोगेण यस्मिन् उत्तरपदे कवर्गीय-वर्णः (कुत्रापि) विद्यते, तस्य विषये अस्य सूत्रस्य प्रयोगावसरः निश्चयेन विद्यते । विशेषः - कालिदासकृते मेघदूते प्रथमश्लोके ‘वर्षभोग्येण’ इति शब्दः विद्यते । अत्र विभक्तिस्थस्य नकारस्य णत्वमनेनैव सूत्रेण भवति । अत्र पूर्वपदे णत्वनिमित्तकः षकारः (रेफश्च) विद्यते, उत्तरपदे च गकारः, तथा च ‘भ् , ओ, य् , ए’ एतेषां व्यवधानं वर्तते । अतः अत्र वर्तमानसूत्रेण णत्वं भवति ।
Vasu English Summary¶
In a compound, the second member of which contains a guttural, there is ण in the room of न , that follows anything which standing in the prior member is qualified to cause the change, provided the न be at the end of a प्रातिपदिक , or be the augment नुम् , or occur in a विभक्ति।
Vasu English Translation¶
In a compound, the second member of which contains a guttural, there is ण in the room of न , that follows anything which standing in the prior member is qualified to cause the change, provided the न be at the end of a प्रातिपदिक , or be the augment नुम् , or occur in a विभक्ति। If the second part of a compound contains a letter of the class क्, the change is obligatory, even though the second part be not monosyllabic. As वस्त्रयुगिणौ, वस्त्रयुगिणः, स्वर्गकामिणौ, वृषगामिणौ ॥ नुम् :- वस्त्रयुगाणि, खरयुगाणि ॥ विभक्ति :- वस्त्रयुगेण, खरयुगेण ॥
The word वस्त्रयुगिणौ is a compound of वस्त्र with युगिन् (the affix इनिis added first to युग and then the word so formed is compounded with vastra). Thus the न् becomes प्रातिपदिकान्त i.e. it becomes the final of a Nominal-stem, which stands as a second member in a compound.
Bhashya¶
कुमति च अथेह कथं भवितव्यं-माषकुम्भवापेण व्रीहिकुम्भवापेणेति, नित्यं णत्वेन भवितव्यमाहोस्विद्विभाषया(3)?॥ यदा तावदेतद्वाक्यं भवति - कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवाप इति, तदा नित्यं णत्वेन भवितव्यम्। यदा त्वेतद्वाक्यं भवति,-माषाणां कुम्भो माषकुम्भः, माषकुम्भस्य वापो माषकुम्भवाप इति,-तदा विभाषया भवितव्यम्॥
Kashika¶
कवर्गवति चोत्तरपदे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगिणौ, वस्त्रयुगिणः। स्वर्गकामिणौ। वृषगामिणौ। नुमि — वस्त्रयुगाणि। खरयुगाणि। विभक्तौ — वस्त्रयुगेण। खरयुगेण॥
Siddhanta Kaumudi¶
कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥
Balamanorama¶
कुमति च - कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं मत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । ‘बहुलमाभीक्ष्ण्ये’ इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् ।
Tattvabodhini¶
कुमति च - कुमति च । अनेकाजुत्तरपदार्थ आरम्भः ।कौ॑ इत्येव तु न सूत्रितम् ।यस्मिन्विधि॑रिति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यान्न तु वस्त्रयुगेणेत्यादौ, तथा च लमतुबन्तनिर्देश आवश्यक इत्याह — कवर्गवतीति ।
Padamanjari¶
अनेकाजुतरपदार्थोऽयमारम्भः । वस्त्रयुगिणाविति । युगशब्दादिनि कृते पश्चादिन्नन्तेन समासः कर्तव्यः । एवं तर्हि उतरपदस्य प्रातिपदिकस्यान्तो नकारो भवति; अन्यथा मातृभोगीणवल्लक्षणान्तरेणैव णत्वं सिद्धं स्यात्,’कौ’ इत्युच्यमानेऽपि कवर्गमात्रस्योतरपदस्यासम्भवान्मतुबर्थो लभ्यते, नार्थो मतुपा ? सत्यम्;’कौ’ इत्युच्यमाने तदादिविधिविज्ञायेत - कवर्गादावुतरपद इति ॥
Nyaas¶
अनेकाजुत्तरपदार्थ आरम्भः। चकारः प्रातिपदिकान्तनुम्विभक्षि च (8.4.11) इत्यनुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति चानुकृष्टपरिभाषया (व्या।प।76)। वस्त्रयुगिणौ इति। अत इनिठनौ (5.2.115) इतीनिः। को इति कर्तव्ये कुमतीति वजनमकवर्गादावपि यता स्यात्; इतरथा हि यस्मिन्विधिस्तदावल्ग्रहणे (व्या।प।127) इति कवर्गादेरेव स्यात्। दपन वापः, कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवापः -अत इतिठनौ (5.2.114) इतीनिः। माषकुम्भवापिणावित्यत्र स्यात्, वस्त्रयुगिणाअवित्यत्र न स्यादिति॥
Prakriyasarvasvam¶
कवर्गवत्युत्तरपदेऽप्युक्तं णत्वं नित्यं स्यात् । हरिकामिणौ । हरिकामीणि । श्रीयोगेण । जिह्वामूलीयोपध्मानीयविसर्गाणामट्त्वमिष्टमिति तैर्व्यवायेऽपि णत्वं स्यात् । उरकामेण । उरपाकेण । उरःपाकेण ॥
Sutra Prayogas¶
संघर्ष-योगिणः (भट्टिकाव्यम्): कुमति च इति णत्वम्।