84009: पानं देशे¶
Padacheda: पानम् | S | 1 | 1 |
देशे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The न of पान is changed into ण , when occurs as the second member of a compound, the first member of which contains a letter causing change; and the whole compound denotes a country or people.
Vasu English Translation¶
The न of पान is changed into ण , when occurs as the second member of a compound, the first member of which contains a letter causing change; and the whole compound denotes a country or people. The word पान is formed by the affix ल्युट् (3.3.113). Thus क्षीरपाणा उशीनराः = क्षीरपाणं येषां ‘the milk-drinking Usinaras’. सुरापाणाः प्राच्याः ‘the wine-drinking Prachyas’. सौवीरपाणा बाह्लीकाः “the sauvira-drinking Bahlikas”. कषायपाणा गान्धाराः &c.
Why do we say “when denoting a country”? Observe दक्षिपानं the drink of the Dakshis.
The words उशीनर and the rest are applied to persons also through the medium of being country-names.
Kashika¶
पाननकारस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति। पीयत इति पानम्। कृत्यल्युटो बहुलम् (३.३.११३) इति कर्मणि ल्युट्। क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। मनुष्याभिधानेऽपि देशाभिधानं गम्यते। सुरापाणाः प्राच्याः। सौवीरपाणा बाह्लीकाः। कषायपाणा गान्धाराः। देश इति किम्? दाक्षीणां पानं दाक्षिपानम्॥
Siddhanta Kaumudi¶
पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥
Balamanorama¶
पानं देशे - पानं देशे ।पान॑मिति षष्ठर्थे प्रथमेत्यभिप्रेत्याह — पानस्येति । उशीनरा इति । देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावस्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह — पीयते इति ।
Tattvabodhini¶
पानं देशे - क्षीरपाणमिति । पीतिः — पानं ।ल्युट् चे॑ति नपुंसके भावे ल्युट् । पीयते अनेनेति पानं । करणे ल्युट् । क्षीरस्य पानं क्षीरपाणम् ।गिरिनद्यादीनां वा । गिरिनद्यादीनां वेति ।वक्तव्य॑मिति शेषः । संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते उभयत्र विभाषेत्याहुः ।
Padamanjari¶
क्षीरं पानं येषामिति । कर्तरि षष्ठी । उशीनरादयः शब्दा देशद्वारेण पुरुषेषु वर्तन्त इति देशाभिधायिनो भवन्ति । दाक्षैइणां पानमिति । अत्रापि कर्मसाधन एव पानशब्दः ॥
Nyaas¶
देशाभिधाने इति। गम्यमान इति शेषः। क्षीरं पानं येषाम् इत।[इति -नास्ति -प्रांउ।पाठे] कर्तरि कृद्योगलक्षणा षष्ठी। क्षीरपाणा उशीनराः इति। अतिशयोऽत्र प्रतीयते, न तु क्षीरपानसम्बन्धमात्रम्; तस्यान्यत्रापि सम्भवात्। ननु च क्षीरपाणादयः शब्दा मनुष्ये वर्तन्ते, तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव, तत कथमिह देशाभिधानं गम्यते? नैतदस्ति; उशोनरादिदेशवासिनां तात्स्थ्यात्? तथा प्रतीयमानत्वादुशीनरादिदेशसम्बन्धद्वारेण मनुष्येषूशीनराख्या। उशीनरादयोऽपि शब्दाः संज्ञात्वेन प्राग्देशेष्वेव प्रवृत्ताः। क्रोशन्ति` इत्यत्र मञ्चसम्बन्धद्वारेण मनुष्येष्वपि वर्तमाना ये मञ्चशब्दास्तेषां मञ्चाभिदानं गम्यते। यदि तेषां मञ्चाभिधानं न गम्यतेत, तदा मञ्चाधारविशिष्टाः पुरुषाः कथं प्रतीयेरन्!॥
Prakriyasarvasvam¶
देशेऽभिधेये पूर्वपदस्थान्निमित्तात् परस्य पाननस्य णः स्यात् । पीयत इति पानम् । क्षीरं पेयमेषामिति क्षीरपाणा उशीनराः ॥