84008: वाहनमाहितात्

Padacheda: वाहनम् | S | 1 | 1 |

आहितात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The न of वाहन is changed into ण , when the letter producing the change, occurs in the first member of a compound, denoting the thing carried.

Vasu English Translation

The न of वाहन is changed into ण , when the letter producing the change, occurs in the first member of a compound, denoting the thing carried. Thus इक्षुवाहणम् ‘a sugar-cart’. शरवाहणम् “a reed-cart”. दर्भवाहणम् ‘a hay-cart’.

The thing which being placed on a cart is carried, is called आहित ॥

Why do we say “denoting the thing carried”. Observe दाक्षिवाहणम् “a vehicle belonging to Dakshi”.

The word वाहन is formed by adding ल्युट् to वह्, and lengthening of the penultimate is valid by the nipatana of this sutra.

Bhashya

वाहनमाहितात् ॥आहितोपस्थितयोः(2)॥ आहितोपस्थितयोरिति वक्तव्यम्। इहापि यथा स्यात्-इक्षुवाहणम् शरवाहणम्॥ अपर आह॥ वाहनं वाह्यादिति वक्तव्यम्॥ यदा हि गर्गाणां वाहनमपविद्धं तिष्ठति तदा मा भूत्गर्गवाहनमिति(3)॥ (वाहनमाहितात्)।

Kashika

आहितवाचि यत् पूर्वपदं तत्स्थाद् निमित्तादुत्तरस्य वाहननकारस्य णकार आदेशो भवति। इक्षुवाहणम्। शरवाहणम्। दर्भवाहणम्। वाहने यद् आरोपितमुह्यते तदाहितमुच्यते। आहितादिति किम्? दाक्षिवाहनम्। दाक्षिस्वामिकं वाहनमित्यर्थः॥

Siddhanta Kaumudi

आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ॥

Balamanorama

वाहनमाहितात् - वाहनमाहितात् । वाहने आधीयते वहनाय यत्, नतु स्वयमेवारोढुं शक्नोति तदाहितम् । तदाह — आरोप्येति । निमित्तादिति । रेफषकारान्यतरस्मादित्यर्थः । वाहननकारस्येति । वाहनस्य यो नकारस्तस्येत्यर्थः । अनेन सूत्रे वाहनमिति षष्ठर्थे प्रथमेति सूचितम् । इक्षुवाहणमिति ।इक्षवो हि वहनाय परैरारीप्यन्ते, नतु स्वयमेवारोढुं शक्नुवन्ती॑ति तेषामाहितत्वं बोध्यम् । आरोपितेश्रुयुक्तं शकटादिवाहनमिति यावत् । इन्द्रवाहनमिति । ननु वहेः करणे ल्युटि कथमुपधादीर्घः, ञ्णित्प्रत्ययपरकत्वाऽभावादित्यत आह — वहेर्ल्युटीति ।

Padamanjari

उह्यतेऽनेनेति वाहनमुशकटादि, करणे ल्युट्, अस्मादेव निपातनादुपधावृद्धिः । आहितमारोपितमुच्यते । यदा बाह्यं नारोपितं केवलं सन्निहितं तदान न प्राप्नोति, तदापीष्यते । यदाह - आहितोपस्थितयोरिति वक्तव्यमिति । न वा भूतकालस्याविवक्षितत्वात्, स्वामिभावनिवृत्तिपरायां चोदनायामाहितमिति भूतकालो न विवक्ष्यते, तेनाहितादाधायिष्यमाणाच्च भविष्यति । केवलं स्वस्वामिभावविवक्षायामेव न भवति, यथा प्रत्युदाहरणे उक्तम् - दाक्षिस्वामिकमित्यर्थ इति । दाक्ष्यादयोऽपि यदा वाह्यत्वेन विवक्ष्यन्ते न स्वामित्वेन, तदा णत्वं भवत्येव ॥

Nyaas

उह्रतेऽनेनेति करणे ल्युट्। अत एव निपातनादुपधादीर्घः। इक्षुवाहणम् इति। इक्षूणां वाहनमिति कृद्योगलक्षमायाः कर्मणि षष्ठ्याः समासः। वाहमे यदारोपितं तदाहितमुच्यते इति। अनेकार्थत्वाद्धातूनां दधातिस्तत्र वर्तते। आहितमिति भूतकालोऽत्र न विवक्षितः। कृत्यल्युटो बहुलम् (3.3.113) इति कालसामान्ये क्तो विधीयते। तेन यदापि वाहने वाहनार्थमिक्ष्वादिकमारोपितं न भवति, तदर्थं तु केवलमुपकस्पितं भूतलस्थितम्, तदापि भवत्येव। दाक्षिवाहनम् इति। अत्र दाक्षिस्वामिकवाहनमेव प्रतीयते, न त्वाहितत्वम्। अत एवाह`दाक्षिस्वामिकं वाहनमित्यर्थः` इति। अत्र शब्दशक्तिर्हेतुः॥

Prakriyasarvasvam

वाह्यगतान्निमित्तात् परस्य वाहननस्य णः स्यात् । इक्षुवाहणं शकटम् । शरवाहणम् । ‘नेन्द्रवाहनशब्दे णत्वमाहितत्वस्याविवक्षितत्वादि’ति वामनः ॥

Sutra Prayogas

  • दूरापवर्तितभारवाहणाः (शिशुपालवधम्): वाहनमाहितात् इति णत्वम्।

  • रोष-वाहणम् (भट्टिकाव्यम्): वाहनमाहितात् इति णत्वम्।