84009: पानं देशे ================ **Padacheda:** पानम् | S | 1 | 1 | देशे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The न of पान is changed into ण , when occurs as the second member of a compound, the first member of which contains a letter causing change; and the whole compound denotes a country or people. Vasu English Translation ------------------------ The न of पान is changed into ण , when occurs as the second member of a compound, the first member of which contains a letter causing change; and the whole compound denotes a country or people. The word पान is formed by the affix ल्युट् (3.3.113). Thus क्षीरपाणा उशीनराः = क्षीरपाणं येषां 'the milk-drinking *Usinaras*'. सुरापाणाः प्राच्याः 'the wine-drinking *Prachyas*'. सौवीरपाणा बाह्लीकाः "the *sauvira*-drinking *Bahlikas*". कषायपाणा गान्धाराः &c. Why do we say "when denoting a country"? Observe दक्षिपानं the drink of the *Dakshis*. The words उशीनर and the rest are applied to persons also through the medium of being country-names. Kashika ------- पाननकारस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति। पीयत इति पानम्। **कृत्यल्युटो बहुलम्** (३.३.११३) इति कर्मणि ल्युट्। क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। मनुष्याभिधानेऽपि देशाभिधानं गम्यते। सुरापाणाः प्राच्याः। सौवीरपाणा बाह्लीकाः। कषायपाणा गान्धाराः। देश इति किम्? दाक्षीणां पानं दाक्षिपानम्॥ Siddhanta Kaumudi ----------------- पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥ Balamanorama ------------ **पानं देशे** - पानं देशे ।पान॑मिति षष्ठर्थे प्रथमेत्यभिप्रेत्याह — पानस्येति । उशीनरा इति । देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावस्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह — पीयते इति । Tattvabodhini ------------- **पानं देशे** - क्षीरपाणमिति । पीतिः — पानं ।ल्युट् चे॑ति नपुंसके भावे ल्युट् । पीयते अनेनेति पानं । करणे ल्युट् । क्षीरस्य पानं क्षीरपाणम् ।गिरिनद्यादीनां वा । गिरिनद्यादीनां वेति ।वक्तव्य॑मिति शेषः । संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते उभयत्र विभाषेत्याहुः । Padamanjari ----------- क्षीरं पानं येषामिति । कर्तरि षष्ठी । उशीनरादयः शब्दा देशद्वारेण पुरुषेषु वर्तन्त इति देशाभिधायिनो भवन्ति । दाक्षैइणां पानमिति । अत्रापि कर्मसाधन एव पानशब्दः ॥ Nyaas ----- `देशाभिधाने` इति। गम्यमान इति शेषः। `क्षीरं पानं येषाम्` इत।[`इति` -नास्ति -प्रांउ।पाठे] कर्तरि कृद्योगलक्षणा षष्ठी। `क्षीरपाणा उशीनराः` इति। अतिशयोऽत्र प्रतीयते, न तु क्षीरपानसम्बन्धमात्रम्; तस्यान्यत्रापि सम्भवात्। ननु च क्षीरपाणादयः शब्दा मनुष्ये वर्तन्ते, तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव, तत कथमिह देशाभिधानं गम्यते? नैतदस्ति; उशोनरादिदेशवासिनां तात्स्थ्यात्? तथा प्रतीयमानत्वादुशीनरादिदेशसम्बन्धद्वारेण मनुष्येषूशीनराख्या। उशीनरादयोऽपि शब्दाः संज्ञात्वेन प्राग्देशेष्वेव प्रवृत्ताः। क्रोशन्ति` इत्यत्र मञ्चसम्बन्धद्वारेण मनुष्येष्वपि वर्तमाना ये मञ्चशब्दास्तेषां मञ्चाभिदानं गम्यते। यदि तेषां मञ्चाभिधानं न गम्यतेत, तदा मञ्चाधारविशिष्टाः पुरुषाः कथं प्रतीयेरन्!॥ Prakriyasarvasvam ----------------- देशेऽभिधेये पूर्वपदस्थान्निमित्तात् परस्य पाननस्य णः स्यात् । पीयत इति पानम् । क्षीरं पेयमेषामिति क्षीरपाणा उशीनराः ॥