84010: वा भावकरणयोः

Padacheda: वा | S | 0 | 0 |

भाव-करणयोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

Optionally when the compound denotes a condition or an instrument, the न् of पान is changed to ण , when it is a second member, the cause of change occurring in the first member in a compound.

Vasu English Translation

Optionally when the compound denotes a condition or an instrument, the न् of पान is changed to ण , when it is a second member, the cause of change occurring in the first member in a compound. Thus क्षीरपाणम् or क्षीरपानम् “drinking of milk” कषायपानम् or कषायपाणम् ‘drinking of kashaya’. सुरापाणम् or सुरापानम् &c are examples of भाव or condition.

Similarly क्षीरपाणः of क्षीरपानः कंसः ‘a vessel for drinking milk’. This is an example of करण or instrument.

Vart:- Optionally so in the case of गिरिनदी &c. Thus गिरिनदी or गिरिणदी; चक्रनदी or चक्रणदी, चक्रनितम्बा or चक्रणितम्बा ॥

Bhashya

वा भावकरणयोः ॥ वाप्रकरणे गिरिनद्यादीनामुपसङ्ख्यानम्॥ वाप्रकरणे गिरिनद्यादीनामुपसङ्ख्यानं कर्तव्यम्। गिरिणदी गिरिनदी। चक्रणितम्बा चक्रनितम्बा।

Kashika

भावे करणे च यः पानशब्दस्तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थाद् निमित्तादुत्तरस्य। क्षीरपाणं वर्तते, क्षीरपानम्। कषायपाणम्, कषायपानम्। सुरापाणम्, सुरापानम्। करणे — क्षीरपाणः कंसः, क्षीरपानः॥ वाप्रकरणे गिरिनद्यादीनामुपसंख्यानम्॥ गिरिणदी, गिरिनदी। चक्रणदी, चक्रनदी। चक्रणितम्बा, चक्रनितम्बा॥

Siddhanta Kaumudi

पानस्येत्येव । क्षीरपाणम् । क्षीरपानम् ।<!गिरिनद्यादीनां वा !> (वार्तिकम्) ॥ गिरिणदी । गिरिनदी । चक्रणितम्बा । चक्रनितम्बा ॥

Balamanorama

वा भावकरणयोः - वा भावकरणयोः इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दस्तस्य उक्तविषये णो वा स्यादित्यर्थः । आदेशार्थं वचनम् । क्षीरपानं क्षीरपाणमिति । क्षीरस्य पानमिति विग्रहः । भावे करणे वा ल्युट् । पानक्रिया, पानपात्रं वेत्यर्थः । गिरिनद्यादीनामिति । पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्ख्यानमित्यर्थः । गिरेर्नदीति विग्रहः । चक्रनितम्बेति । चक्रमिव नितम्बो यस्याः सा इति विग्रहः ।

Padamanjari

गिरिनद्यादीनामिति । संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते - इत्युभयत्रविभाषेयमित्याहुः ॥

Nyaas

आदेशार्थोऽयमारम्भः। क्षीरपाणम् इति। पीतिः=पानम्, नपुंसके भादे क्तः (3.3.114) इत्यनुवर्तमाने ल्युट्? च (3.3.115) इति ल्युट्प्रत्ययः। क्षीरपाणः कंसः इति। पोयतेऽनेनेति पानः, करणाधिकरणयोश्च (3.3.117) इति ल्युट्। वाप्रकरणे इत्यादि। उपसंख्यानशब्दस्य चेह प्रतिपादनमर्थः। अस्मिन्? वाप्रकरणे गिरिनदीप्रभृतीनां यो नकारस्तस्य णत्वप्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -उत्तरसूत्रेऽनुक्तसमुच्चयार्थश्चकारः। तेन गिरिनदीप्रभृतीनां यो नकारस्तस्य णत्वं वा भविष्यतीति॥

Prakriyasarvasvam

भावे-क्षीरस्य पानं क्षीरपाणं क्षीरपानं वा । करणे-क्षीरपाणं क्षीरपानं वा पात्रम् । गिरिनद्यादीनां वा । गिरिणदी । वक्रणदी चक्रणितम्बा । स्वर्णदी । सुरणिम्नगा । पक्षे गिरिनदी इत्यादि ।

Vartika

गिरिनद्यादीनां वा ।

Sutra Prayogas

  • सुरा-पाण-परिक्षीबं (भट्टिकाव्यम्): वा भाव-करण- योः इति णत्वम्।