84007: अह्नोऽदन्तात्

Padacheda: अह्नः | S | 1 | 1 |

अदन्तात् | S | 1 | 1 | 6

Sutrartha


Vasu English Summary

The ण is the substitute of न of अहन् , when it is preceded by a word ending in अ , having in it a letter capable of producing a change.

Vasu English Translation

The ण is the substitute of न of अहन् , when it is preceded by a word ending in अ , having in it a letter capable of producing a change. Thus पूर्वाह्णः “fore-noon”; अपराह्णः “after-noon”.

Why do we say “ending in अ”? Observe, निरह्नः, दुरह्नः ॥

The word अह्न is substituted for अहन् by (5.4.88). The word अह्न being used in the sutra as ending in अ, the rule does not apply to other words. Thus दीर्घाह्नी शरत् ॥ The word अह्नः in the sutra is in the nominative case, and should not be construed as the genitive of अहन्, because all sthanins are exhibited in Nominatives as, वनं (8.4.4), वाहनं (8.4.8), यानं &c. The compounding takes place by (2.2.1), then is added the samasanta affix टच् (5.4.91), and अह्न substitution by (5.4.88). The word दीर्घाह्नी is a Bahuvrihi compound and not a Tatpurusha, and hence the affix टच् does not apply to it. The feminine ङीप् is added by (4.1.28), there is elision of अ of अहन् by (6.4.134).

Bhashya

अह्नोऽदन्तात् ॥ अदन्ताददन्तस्य(3)॥ अदन्ताददन्तस्येति वक्तव्यम्। इह मा भूत्-दीर्घाह्नी शरदिति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम् । नैषाऽहञ्ञ्छब्दात्षष्ठी॥ का तर्हि?॥ अह्नशब्दात्प्रथमा। पूर्वसूत्रनिर्देशश्च(1)॥ अथ वा युवादिषु पाठः करिष्यते॥ (अह्नोऽदन्तात्)॥

Kashika

अदन्तं यत् पूर्वपदं तत्स्थाद् निमित्तादुत्तरस्याह्नो नकारस्य णकार आदेशो भवति। पूर्वाह्णः। अपराह्णः। अदन्तादिति किम्? निरह्नः। दुरह्नः। अह्नोऽह्न एतेभ्यः (५.४.८८) इत्यह्नादेशः। अह्न इत्यकारान्तग्रहणाद् दीर्घाह्नी शरदित्यत्र न भवति॥

Siddhanta Kaumudi

अदन्तपूर्वपदस्थाद्रेफात्परस्यऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः ॥ कालाट्ठज्ञ् (SK1381) ॥ द्विगोर्लुगनपत्य (SK1080) इति ठञो लुक् । द्व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । द्वयह्ना । द्व्यह्नप्रियः । अत्यह्नः ॥

Balamanorama

अह्नोऽदन्तात् - अह्नोऽदन्तात् ।पूर्वपदात्संज्ञायाम् इत्यतः पूर्वपदादित्यनुवृत्तमदन्तादित्यत्रान्वेति । ‘रषाभ्यां नो णः’ इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह — अदन्तपूर्वेति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाह्ण इत्यत्र णत्वार्थं षादित्यपि बोध्यम् । समासान्ते परे इति किम् । द्वे अहनी भृतो द्व्यहीनः । अत्र समासान्तविधेरनित्यत्वाट्टज्भावेऽह्नादेशो न । सर्वाह्ण इति । सर्वमहरिति विग्रहेपूर्वकालैके॑ति समासे ‘राजाहःसखिभ्यः’ इति टच्, अह्नादेशः । णत्वं । ‘रात्राह्नाहाः’ इति पुंस्त्वम् । पूर्वाह्ण इति । समासादि सर्वाह्णवत् । सङ्ख्याताह्न इति । सङ्ख्यातमहरिति विग्रहः । विशेषणसमासः, टच् अह्नादेशः । निमित्ताऽभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । सङ्ख्यापूर्वस्य उदाहरति — द्वयोरह्नोरित्यादि । द्वयह्न इति । तद्धितार्थे द्विगुः । टच् । ततो भावार्थे ठञ्, तस्य लुक्, अह्नादेशः । प्रसङ्गादाह — स्त्रियामिति । द्व्यह्नेति । द्व्योरह्नोर्भवेत्यर्थः । ठञ् । लुक् च पूर्ववत् ।अपरिमाणविस्ते॑ति न ङीप् । टञ्निमित्तस्तु ङीब्नेत्यपरिमाणविस्तेत्यत्रोक्तम् । टचष्टित्वेऽप्युपसर्वनत्वाट्टिड्ढेति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवाऽत्रनास्ति ।रात्राह्नाहाः पुंसी॑त्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । सङ्ख्यापूर्वस्योदाहरणान्तरमाह-द्व्यह्नप्रिय इति । द्वे अहनी प्रिये यस्येति विग्रहः । तद्धितार्थ इत्युत्तरपदे द्विगुः । टच्, अह्नादेश इति भावः । अव्ययपूर्वस्योदाहरति — अत्यह्न इति । अहरतिक्रान्त इति विग्रहः । ‘अत्यादय’ इति समासः । टच् अह्नादेश इति भावः ।

Tattvabodhini

अह्नोऽदन्तात् - रेफादिति । यदि तु लक्षे अहस्तु भव इत्यादिव्युत्पत्त्यालक्षाह्ण॑इत्यपि प्रयोगोऽस्ति, तर्हि षादित्यपि बोध्यम् ।रषाभ्या॑मित्यधिकारात् । ठञो लुगिति ।अणो लु॑गिति वृत्तिकाराद्युक्तमयुक्तमिति भावः । प्रसङ्गादाह -सत्रियामिति । नन्विह स्त्रीत्वं दुर्लभं,रात्राह्नहाः पुंसी॑ति वचनादिति चेन्मैवम् । सर्वमहः सर्वाहृ इत्यादावुपक्षीणस्य वद्वचनस्य लुप्ततद्धितायामप्रवृत्ते ।लुपि युक्तव॑दिति लिङ्गतिदेशो ह्यत्र प्रमाणम् । प्राकृतलिङ्गानुसासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयथ्र्यापत्तेः । अतएव लवणः सूपः लवणा यवागूरित्यादौ न क्लीबत्वम् । किं चद्विगुप्राप्तापन्ने ॑त्यादिना परवल्लिङ्गत्वे प्रतिषिद्धे तदपवादस्यरात्राह्नाहाः॑ इत्यस्याऽप्राप्तिरेवेति व्द्यह्नशब्दोऽयं विशेष्यनिघ्न एव, न तु नियतपुंलिङ्गः । एवं चाऽत्र भवार्थकतद्धिते लुप्तेऽपियः शिष्यते स लुप्यमानार्थाभिधायी॑ति न्यायेन भवार्थवत्तन्निष्ठस्त्रीत्वाभिधानमपि न्याय्यमेवेति दिक् । टाबिति । न चेह ठञन्तत्वान्ङीप्स्यादिति शङ्क्यं, ठञो लुप्तत्वात् । न च प्रत्ययलक्षणं, वर्णाश्रयत्वात् ।ठञो योऽकारस्तदन्तान्ङी॑बिति तत्र व्याख्यात्त्वात् । अतएव वृत्तिकाराद्युक्ताऽणो लुक् पक्षेऽपि न ङीफ्,अण्योऽकारः॑इति तत्र व्याख्यातत्वात् । न चैवमपि टजन्तत्बान्ङीप्स्यादेवेति वाच्यम् । टचः समासान्ततया तदन्तस्य तद्धितार्थं प्रत्युपसर्जनत्वात् । अतएव हि आपिशलिना प्रोक्तमधीयाना ब्राआहृणी आपिशलेत्युदाहृतं भाष्ये ।द्विगो॑रिति ङीप्तु न शङ्क्य एव,अपरिमणे॑ति निषेधात् । अतष्टाबेबात्र युक्तः । तथैवोदाहरति —

Padamanjari

पूर्वाह्ण इति । अह्नः पूर्वो भाग इति’पूर्वापर’ इत्यादिसूत्रेण समासः, राजाहः सखिभ्यष्टच्ऽ, ठह्नोऽह्न एतेभ्यःऽ इत्य अह्नादेशः । निरह्न इति । निर्गतोऽह्न इति प्रादिसमासः, शेषं पूर्ववत् । दीर्घाह्नी शरादति । बहुव्रीहिरयम्, तेन टज्न भवति; टज्विधौ तत्पुरुषाधिकारात् । ठन उपधालोपिनोऽन्यतरस्याम्ऽ इति ङीप्, ठल्लोपोऽनःऽ । अकारान्तस्य ग्रहणादत्र णत्वं न भवति । यदि तु नकारस्यायं षष्ठ।ल निर्देशः स्यात्, अत्रापि णत्वं स्यात् । अकारान्तस्य तु ग्रहणं प्रकरणाद्विज्ञायते । सर्वत्र प्रकरणे स्थानी प्रथमया निदिश्यते - वनम्, वाहनम्, यानमिति । यद्वा - युवादिषु पाठादस्य णत्वाभावः । अवश्यकर्तव्यश्च युवादिषु पाठः; प्रातिपदिकान्तेति विकल्पेन णत्वं मा भूदिति । अन्तग्रहणं ज्ञापकम् - अत्र प्रकरणे न यत्नमन्तरेण वर्णेनापि तदन्तविधिर्भवतीति । तेन रषाभ्याम्ऽ इत्यत्र तदन्तविधिने भवति ॥

Nyaas

अह्नः इति षष्ठ्याः स्थाने प्रथमा पूर्ववत्। समानमेव यन्नित्यं पदं तत्? समानग्रहणादाश्रयन्ति ये, तेषां विध्यर्थमेतत्। अन्येषां तु नियमार्थंम्। एवमुत्तरत्रापि नियमार्थता विध्यर्थता च यथायोगं वेदितव्या। पूर्वाह्णाः इत्यादि। पूर्वापरादिसूत्रेण [पूर्वपरादि -कांउ।पाठः, प्रांउ।पाठश्च] (2.2.1) एकदेशी समासः। राजाहःसखिभ्यष्टच् (5.4.91) इति टच्? समासान्तः। अह्नोऽह्न एतेभ्यः (5.4.88) इत्यह्नादेशः, सवर्णदीर्घः। निरह्नः इति। निर्गतमह्न इति प्रादिसमासः। शेषं पूर्वयत्। दीर्घाह्नो इति। दीर्घाव्यहानि यस्यामिति बहुव्रीहिः। टज्विचौ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः (5.4.86) इत्यतस्तत्पुरुषग्रहणमनुवर्तते। तेन बहुव्रीहौ टज्न भवति। अन उपधालोपिनोऽन्यतरस्याम् (4.1.28) इति ङीप्, अल्लोपोऽनः (6.4.134) इत्युपधाकारलोपः। अत्राकारान्तग्रहणान्न भवति णत्वम्। यदि त्वनकारान्तस्य स्यात्, ततः पूर्वाह्णः इत्यत्र प्रत्ययात्प्राग्यथा व्यवस्थितस्याङ्नो नकारस्य णकारादेशो भवति, तथा दीर्घाह्नी शरत इत्यत्रापि स्यात्। अतोऽस्य ग्र्हणं हि व्याख्यानाद्विज्ञायते। तपरकरणात्? पराजितमहः पराह्नः इत्यत्र आकारान्तान्न भवति। अन्तग्रहणं विस्पष्टार्थम्। तपरेणाकारेम पूर्वपदे विशेष्यमाण तदन्तविधिर्भविष्यतीति विनाप्यन्तग्रहणतदन्तता लभ्यत इति।

Praudhamanorama

(अह्नोऽदन्तात्) ॥ रेफादिति । यदि ‘लक्षाऽह्ण’ इत्यपि प्रयोगोऽस्ति तर्हि ‘षाद्’ इत्यपि बोद्ध्यम् । ‘रषाभ्यामि’त्यधिकारात् । अत्र प्राञ्चः - ‘अह्न इति ‘षष्ठ्याः स्थाने व्यत्ययेन प्रथमा । अदन्तनिर्देशान्नेह - ‘दीर्घाह्नी प्रावृड्’ इति वदन्ति । तत्र व्यत्ययादिवर्णनक्लेशो व्यर्थः । ‘दीर्घाह्नी’ त्यत्र ‘प्रातिपदिकाऽन्ते’ति णत्वं व्यावर्तयितुं क्षुभ्नादित्वस्यैव वक्तव्यत्वात् । आकर एव तथोक्तत्वाच्चेत्याशयेनाऽऽह - अह्नो नस्येति । प्राचस्तु-अह्नो नस्येत्युक्त्वा ‘अदन्तनिर्देशादि’ति वदतो व्याघातः स्पष्ट एव । कालाट्ठञिति । एतच्च ‘सङ्ख्याविसाये’ति सूत्रे न्यासपदमञ्जयर्योः, ओहाङ्-धातौ माधवग्रन्थे च स्पष्टम् । यत्तु ‘न सङ्ख्यादेः समाहारे’ इति सूत्रे ‘द्व्यह्न’ इत्यत्र अणो लुगिति वृत्तिकारादिभिरुक्तं, तदयुक्तमिति भावः । प्रसङ्गादाह - स्त्रियामिति । टाबिति । यत्तु प्राचा कालनिर्णयदीपिकार्याम् ‘पूर्वा स्यान्नवमी शुभाऽथ दशमी कालास्पृगाद्याऽथ सा द्व्यह्नी कालयुगादिमोत्तरयुता चाऽथोत्तरैकादशी’ इति श्लोके ‘द्व्यह्नी’ इति प्रयुक्तम् । ‘सा दशमी द्वयोरह्नोर्भवा द्व्यह्नी’ इत्यादि च तद्विवरणे व्याख्यातम् । तत्सर्वं प्रामादिकमिति भावः । तथा हि - इह ‘टिड्ढा-’ इति ङीब्, ‘द्विगोः’ इति वा । आद्योऽपि अण्णन्तत्वात्, ठञन्तत्वात्, टजन्तत्वाद्दा ? नाऽऽद्यः । वृत्तिकाराद्युक्तस्याऽण इह प्रामादिकत्वात् । लुका लुप्तत्वाच्च । न च प्रत्ययलक्षणम् । ‘अणो योऽकार’ इति व्याख्यानात् । नाऽपि द्वितीयः । ‘ठञो योऽकारस्तदन्तादि’ति व्याख्यानात् । अत एव हि ‘द्विनिष्के’ त्यत्र क्रीतार्थे प्राग्वतीयस्य ठञो लुकि टाबेवाऽऽकरे उदाहृतः । ‘द्विबिस्ते’ त्यादावप्येवम् । नाऽपि तृतीयः । टचः समासान्ततया तदन्तस्य तद्धिताऽर्थत्वं प्रत्युपसर्जनत्वात् । अत एव हि ‘आपिशलिना प्रोक्तमधीयाना ब्राह्मणी आपिशले’ त्युदाहृतम् । भाष्यमते अचा टचो बाधनाच्च । नाऽपि चतुर्थः । ‘अपरिमाणे’त्यादिना ङीपो निषेधात् । तस्माट्टाबेव युक्तः । स्यादेतत् । टाबप्ययुक्तः । स्त्रीत्वस्यैव दुर्लभत्त्वात् । तथा च ‘अह्नोऽह्न एतेभ्य’ इति सूत्रे कैयटहरदत्तावाहतुः - ‘रात्राह्नाहाः पुंसि’ इति वचनात् स्त्रियां वृत्यभावात् टजचोर्नाऽस्तीह विशेष’ इति । मैवम् । भावाऽनवबोधात् । इत्थं हि कैयटाद्याशयः - ‘सर्वादिषट्कपूर्वादह्नष्टजपवादोऽज्विहितः । तत्र सङ्ख्यापूर्वस्य तद्धिताऽर्थद्विगोर्विशेष्यनिघ्नत्वेन स्त्रीत्वसम्भवेऽपि, टजन्तस्य तद्धितं प्रत्युपसर्जनत्वाद् अनुपसर्जनाधिकारोक्तस्य ‘टिड्ढा-’ इति ङीपः प्राप्तिरेव नाऽस्तीति तत्र टजचोरविशेषः स्पष्ट एव । ‘पुण्याऽहमि’ त्यत्र तु ‘उत्तमैकाभ्यां चे’त्यचो निषेधः, अह्नादेशस्य वे’ति मतभेदेन व्यवस्थितम् । इतरेषां चतुर्णां तु ‘रात्राह्नाहाः’ इति वचनात्स्त्रियां वृत्तिर्नाऽस्ती’ति । स्यादेतत् । भवेदेष वृद्धानामाशयः, यद्युक्तद्विगोर्विशेष्यनिघ्नत्वे प्रमाणं स्यात्, तदेव किमिति चेत्, । उच्यते । अमरसिंहेन ‘पुंस्त्वे सभेदाऽनुचराः सपर्यायाः सुराऽसुराः’ इति पुंस्त्वाऽधिकारे ‘अह्नाहाऽन्ताः क्ष्वेडभेदा रात्राऽन्ताः प्रागसङ्ख्यका’ इत्युक्तम् । ‘अर्थाऽन्ताः प्राद्यलम्प्राप्ताऽऽपन्नपूर्वाः परोपगाः । तद्धितार्थे द्विगुः संङ्ख्याः सर्वनामतदन्तकाः’ इति च ततः परमुक्तम् । एवञ्चेह ‘अह्नाहान्ताः-’ इत्यनेन पुंस्त्वं प्राप्तं ‘तद्धिताऽर्थे द्विगुः’ इति परोपगत्वेन परत्वादेव बाद्ध्यते । तथा च तेनैव परिभाषितं - ‘परं विरोधे शेषन्तु ज्ञेयं शिष्टप्रयोगतः’, इति । तस्मादमरग्रन्थ उक्ताऽर्थे प्रमाणम् । किञ्च ‘परवल्लिङ्गमित्यस्य ‘रात्राह्नाहा’ इत्यपवादः । यत्र तु ‘द्विगुप्राप्ते’त्यादिना उत्सर्गो निषिद्धस्तत्र तदपवादस्याऽप्रवृत्तिः स्पष्टैव । एतच्च माधवेनाऽपि ध्वनितमित्यनुपदमेव वक्ष्यामः । किञ्च भवाद्यर्थ- तद्धिताऽन्तं परोपगमिति निर्विवादम् । तद्धितलोपे तु ‘यः शिष्यते स लुप्यमानार्थाभिधायी’ इति न्यायेन भवाद्यर्थवत् स्त्रीत्वादेरप्यभिधानं न्याय्यमेव । प्रकृते लिंङ्गानुशासनस्य केवलायां प्रकृतावुपक्षीणस्य लुप्ततद्धितायामप्रवृत्तेः । ‘लुपि युक्तवदि’ति लिङ्गाऽतिदेशोऽप्यत्र प्रमाणम् । प्राकृतलिङ्गानुशासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयर्थ्याऽऽपत्तेः । अत एव ‘लवणः सूपः’, ‘लवणा यवागूः’ इत्यादौ न क्लीबत्वम् । अत एव च ‘कुमारीब्राह्मण’ इत्यादिषु आचारक्विबन्तप्रकृतिक-कर्तृक्विबन्तेष्वपि विशेष्यनिघ्नतैवाऽऽकरे स्पष्टा । ‘द्व्यह्नी’ इति ङीपं वदता प्राचाऽपि स्त्रीत्वं स्वीकृतमेवेत्यलं बहुना । यदि समर्थनीयमेवेत्याग्रहस्तर्हि आधाराऽऽधेयभावव्यत्यासेन समर्थ्यतां ‘द्वे अहनी यस्याम्’ इति, दिनद्वयाऽऽधारभूतेत्यर्थलाभात् ।

Prakriyasarvasvam

अदन्तपूर्वपदस्थान्निमित्तात् परस्याह्नशब्दनकारस्य णः स्यात् । प्रकान्त- महरत्रेति प्राह्णं कालः । प्रस्थिता रथा अस्मिन् प्ररथं कालः । प्रनष्टा मृगा अस्मिन् प्रमृगं कालः । प्रकृता दक्षिणा अत्रेति प्रदक्षिणं यज्ञः । भावोऽयम् । प्राह्णादिष्वह्नः प्रगतत्वमित्याद्यर्थो हरोक्तः । सम्प्रत्यसभ्प्रत्यप्रदक्षिणानि वर्तमाना- वर्तमानवामेषु’ (स० ३-२-२८) । सम्प्रतिशब्दो युक्तमित्यर्थेऽपीति हरः । न चान्यसमास इति सर्वत्र योज्यम् । तेनातिप्राह्णमित्यादि न स्यादिति ॥

Sutra Prayogas

  • अपराह्नशीतलतरेण (शिशुपालवधम्): अह्नोऽदन्तात् इति णत्वम्।

  • पूर्वाह्णे (भट्टिकाव्यम्): अहो - ऽदन्तात् इति णत्वम्।