84006: विभाषौषधिवनस्पतिभ्यः

Padacheda: विभाषा | S | 1 | 1 |

ओषधि-वनस्पतिभ्यः | S | 5 | 3 |

Sutrartha


Vasu English Summary

The न of वन , is optionally replaced by ण , when the cause of change occurs in the first member of the compound and which denotes a perennial herb or forest tree.

Vasu English Translation

The न of वन , is optionally replaced by ण , when the cause of change occurs in the first member of the compound and which denotes a perennial herb or forest tree. Karika:-

फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः । ओषधः फलपाकान्ता लता गुल्माश्च वीरुधः ॥

When the purvapada is a word denoting ओषधि or a perenniel herb, or denoting a वनस्पति or a tree, and it has a change-producing letter, then the न of वन is replaced by ण ॥ This is an optional rule. Thus :- दूर्वावनम् or दूर्वावणम्; मूर्वावणम् or मूर्वावनम् ॥ Here दूर्वा and मूर्वा are names of ओषधि ॥ Similarly शिरीषवनं or शिरीषवणम्; बदरीवणं or बदरीवनं ॥

Vart:- This rule applies when the first word is a dissyllabic or trisyllabic word. Therefore the change does not occur in देवदारुवनम्; भद्रदारुवनम् ॥

Vart:- Prohibition should be stated with regard to the words द्वारका &c. As द्वरिकावनम्, तिमिरकावनम् ॥

Though there is a distinction, botanically speaking, between वृक्ष and a वनस्पति also; yet in this sutra, the word वनस्पति includes वृक्ष also.

Karika:- Technically speaking वनस्पति is a tree that bears fruit apparently without a flower, as a fig tree udumbara. वृक्ष is a tree that bears both flower and fruit, ओषधि is an annual herb, that dies after the ripening of the fruit, and creepers and tubercles are called वीरुधः ॥

Bhashya

विभाषौषधिवनस्पतिभ्यः ॥ व्द्यक्षरत्र्यक्षरेभ्यः(3)॥ व्द्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम्। इह मा भूत्-देवदारुवनम्॥ इरिकादिभ्यः प्रतिषेधः(3) ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः। इरिकावनम्। तिमिरवनम्॥ (विभाषौषधिवन)।

Kashika

वनमित्येव। ओषधिवाचि यत् पूर्वपदं वनस्पतिवाचि च तत्स्थाद् निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा। ओषधिवाचिभ्यस्तावत् — दूर्वावणम्, दूर्वावनम्। मूर्वावणम्, मूर्वावनम्। वनस्पतिभ्यः — शिरीषवणम्, शिरीषवनम्। बदरीवणम्, बदरीवनम्॥ द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम्॥ इह मा भूत् — देवदारुवनम्। भद्रदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः॥ इरिकावनम्। तिमिरवनम्।

फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः।

ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः॥ इति॥

सत्यपि भेदे वृक्षवनस्पत्योरिहाभेदेन ग्रहणं द्रष्टव्यम्॥

Siddhanta Kaumudi

एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरीषवनम् ।<!द्व्यच्त्र्यज्भ्यामेव !> (वार्तिकम्) ॥ नेह । देवदारुवनम् ।<!इरिकादिभ्यः प्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ इरिकावनम् । मिरिकावनम् ॥

Balamanorama

विभाषौषधिवनस्पतिभ्यः - विभाषौषधि । वनस्य णत्वमिति । ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः । ओषधिभ्यः उदाहरति — दूर्वावणमिति ।ओषध्यः फलपाकान्ताः॑ इत्यमरः । अथ वनस्पतिभ्य उदाहरति — शिरीषवणमिति । यद्यपि यः पुष्पैर्विना फलति स एव उदुम्बरादिर्वनस्पतिः,वानस्पत्यः फलैः पुष्पात्रैरपुष्पाद्वनस्पति॑रित्युक्तेः । शिरीषवृक्षश्चायं पुष्पफलवानेन न वनस्पतिस्तथापि वनस्पतिशब्देनाऽत्र वृक्षसामान्यं विवक्षितम् । अत एवसुपि युक्तवद्व्यक्तिवचने॑ इति सूत्रे भाष्येशिरीषवण॑मित्यत्र शिरीषे वनस्पतित्वं व्यवह्मतमिति दिक् । द्व्यच्त्र्यज्भ्यामेवेति ।परस्य वनस्य णत्वं वाच्य॑मिति शेषः । देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः ।

Tattvabodhini

विभाषौषधिवनस्पतिभ्यः - शिरीषवणमिति । ननुवानस्पत्यः फलैः पुष्पत्तैरपुष्पाद्वनस्पति॑रित्यमर कोशाद्यस्य पुष्पं विनैव फलप्रादुर्भावः स वनस्पतिः, स चोदुम्बरादिः । शिरीषल्तु न तथा, तस्य पुष्पफलोभयसत्त्वादतो णत्वमिह कथमिति चेत् । अत्राहुः — वनस्पतिशब्देनात्र वृक्षमात्र मुपलक्ष्यते । अत्र चलुपि युक्तव॑दिति सूत्रस्थं भाष्यं लिङ्गम् । तत्र हि व्यक्तिवचने किम् । शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीषवणमित्यत्र णत्वे कर्तव्ये वनस्पतित्वमप्यतिदिश्येतेत्युक्तम् । तच्च शिरीषाणां वनस्पतित्वे सङ्गच्छते नान्यथेति दिक् ।व्द्यच्त्र्यज्भ्यामेव । व्द्यच्त्र्यज्भ्यामेवेति । व्यवस्थितविभाषाश्रयणादिति भावः । ओषधित्वात्प्राप्ते प्रतिषेधमाह ।ईरिकादिभ्यः प्रतिषेधो वक्तव्यः । इरिकादिभ्य इथि । एतदपि व्यवस्थितविभाषाज्ञानादेव सिद्धम् । उशीनरा इति । इह उशीनरशब्दस्त द्देशवासिषु भाक्तः । कर्मणि ल्युडिति ।कृत्यल्युटो बहुल॑मित्यनेन । वा भाव । आदेशार्थ आरम्भ इत्यप्रप्तविभाषा ।

Padamanjari

ठसंज्ञायामपिऽ इत्यनुवर्तते, तेन संज्ञाऽसंज्ञायोर्द्वयोरयं विकल्पः । अन्ये तु वृतावनुक्तत्वातस्याधिकारं नेच्छन्ति, तेषां संज्ञाविषये पुरगादिभ्य इति नियमत्वेन भवितव्यम् । यदि त्विष्यते यत्नान्तरमास्थेयम् । इह ये पुष्प्यन्ति फलन्ति च ते वानस्पत्याः; ये फलन्त्येव न पुष्प्यन्ति ते वनस्पतयः; उभयेऽपि ते वृक्षा इत्यभिधानविदः । ततश्च वनस्पतिशब्दोपादानेन णत्वं विकल्प्यमानं शिरीषवणमित्यत्रैव स्यात्, शिरीषादयो हि पुष्प्यन्ति फलन्ति च, तस्माद्वृक्षग्रहणं कर्तव्यम्, तदिदमाशङ्कते तावत् - फली नवस्पतिरित्यादि । फलमेव यस्य न पुष्पं स वनस्पतिःऊदुम्बरादि, पुष्पोपगा वेतसादयः, फलोपगा उदुम्बरादयः, उभयोपगा आम्रादयश्च वृक्षाः । अन्तात्यन्तादिसूत्रे’डो’ न्यत्रापि दृश्यतेऽ इति वचनाडुः । फलपाकेन विनाशो यासा ता ओषध्यः - शाल्यादयः, लताप्रतानवत्यो मालत्यादयः, गुल्माःउह्रस्वस्कन्धास्तरवः, बहुकाण्डपत्राः वीरुध इति - यद्यपि वृक्षवनस्पत्योर्भेदः स्मर्यत इति शङ्कां परहरति - इहाभेदेन ग्रहणं द्रष्टव्यमिति । अत्र च’लुपि युक्तवद्व्यक्तिवचने’ इत्यत्र भाष्यकारवचनं लिङ्गम् । उक्तं हि तत्र - ‘व्यक्तिवचन इति किम्, शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनमिति - वनस्पतित्वं नातिदिश्यते । यद्यतिदिश्येत,’विभाषौषधिवनस्पतिभ्यः’ इति णत्वं प्रसज्येत’ इति । यदि चोक्तो भेद इहाश्रितः स्यात्, शिरीषणामवनस्पतित्वाद्वनस्पतित्वणत्वयोः प्रसञ्जनं नोपपद्येत ॥

Nyaas

संज्ञायाम्? षनं पुरगामिश्रका (8.4.4) दिनियमादोषधिवनस्पतिभ्यः परस्य वननकारस्य णत्वेन न भवितव्यमिति पारिशेष्यादसंज्ञायां विभाषा वेदितव्या। परत्वादनया भिभाषया संज्ञायामपि भवितव्यमित्येतच्च नाशङ्कनीयम्; नियमे कर्तव्ये विभाषाया असिद्धत्वात्। अथ तु संज्ञायामसंज्ञायामपि विभाषेयमिष्यते, तदर्थं यत्नानन्तरमास्थेयम्। किं पुनस्तत्? विभाषेति योगविभागकरणम्। योगविभागे सत्येको योगो नियमबाधनार्थो विज्ञायत इति संज्ञायामपि विभाषा सिध्यति। असिद्धत्वं तु योगविभागसामर्थ्यान्न भविष्यति। अत्र समानग्रहणसामर्थ्यात्? समानमेव यन्नित्यं पदं तत्? समानपदमित्याश्रयन्ति ये, तेषामप्राप्तविभाषेयम्; अन्येषां तु प्राप्तविभाषा। बहुवचननिर्द्देशस्तु स्वरूपनिरासार्थः। दूर्वावणम् इत्येवमादयः षष्ठीसमासाः। द्वयक्षरत्र्यक्षरेभ्य इति वक्तव्यम् इति। अक्षरशब्दोऽत्राक्षु वर्तते। द्वे अक्षरे, त्रीणि वाक्षराणि येषां ते द्व्यक्षरत्र्यक्षाराः, ओषधिदनस्पतिशब्दाः, तेभ्यः परस्य वननकारस्य णत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् -व्यवस्थितभाषाविज्ञानाद्द्व्यक्षरत्र्यक्षरेभ्य एव भवति। एवमुत्तरत्रापि वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। व्याख्यानं तु व्यवस्थितविभाषामाश्रित्य कर्तव्यम्। ननु च शिरीषावयो वृक्षाः, न तु वनस्पतयः, न तु वनस्यतिग्रहणे न वृक्षस्य ग्रहणं भवति; तेषामत्यन्तभेदात्। तथा चोक्तं शास्त्रान्तरे फली वनस्यतिज्र्ञेयो वृक्षाः पुष्पफलोपयाः इति। तत्कथं शिरीषवणम्, वदरीवणमित्युदाहृतम्? इति यो देशयेत्? तं प्रत्याह -फली वनस्पतिज्र्ञेयः इति। यद्यप्यनेन श्लाकेन दृक्षवनस्पत्योर्भेदो दर्शितः, तथापि ततोरिहाभेदेन ग्रहणं वेदितव्यम्। अभेदग्रहणे तु तयोर्भाष्यकारवचनमेव लिङ्गम्; तथा हि लुपि युक्तवद्व्यक्तिवचने (1.2.51) इत्यत्र भाष्यकारेणोक्तम् -व्यन्तिवचने इति किम्? शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीदवनम्। यद्यत्र व्यक्तिवचने इति। नोच्यते, तदा वचनस्पतित्वमतिदिश्येत्, ततो वनस्पतित्वमतिदिश्येत, तत्र विभाषौषधिवनस्पतिभ्यः (8.4.6) इति णत्वं प्रसज्येत। यदि चेह वृक्षवनस्पत्योरभेदेव ग्रहणं न स्यात्, ततो वनस्पतित्वातिदेशाद्विभाषा णत्वप्रसञ्जनञ्च नोपपद्यते; शिरोषाणामवनस्पतित्वात्। फली वनस्पतिज्र्ञेयः इति। पुष्पमन्तरेण फलमात्रं यस्यास्तीति स फली वनस्पतिज्र्ञेय इति -उदुम्बरादयः। वृक्षाः पुष्पफलोपगाः इति। पुष्पं फलञ्चोपगच्छन्ति प्राप्नुवन्तीति पुष्पफलोपगाः। अन्तात्यन्त (3.2.48) इत्यादौ अन्येष्यपि दृश्यते (वा। 256) इत्युपसंख्यानाड्डप्रत्ययः। न च ये पुष्पफले उपगच्छन्ति त एव वृक्षाः, किं तर्हि? येऽन्यतरत्? पुष्पं फलं चोपगच्छन्ति तेऽपि वृक्षा। एव। तत्र वेतसादयः पुष्पमेदोपगच्छन्ति, प्लक्षादयः फलमेव; आम्रादयस्तूभयम्। तत्र यो वनस्पतिः स नियतं वृक्षो भवति, यस्तु वृक्षः स तु नावश्यं वनस्पतिः यथा -पुष्पोपगोश्च वृक्षा वेतसादयः, फलोपगाश्च प्लक्षादयः, पुष्पफलोपगाश्चाम्रादयः। ओषध्यः फलपाकान्ताः इति। ओषधिशब्दात्? कृदिकारादिक्त्निः (ग।सू।50) इति, सर्वतोऽक्तिन्नर्थादित्यके (ग।सू।51) इति बह्वादिपाठात्? ङीष्। फलपाकेनान्तो विनाशो यासां ताः फलपाकान्ता ओषध्यो विज्ञेयाः, कवल्यादयः। लता गुल्माश्च वीरुचः इति। लताः=प्रतानवत्थो मालत्यादयः। गुल्माः=ह्रस्वस्कन्धास्तरावः। वीरुषः=बहुप्रकाण्डपचा विज्ञेयाः॥

Prakriyasarvasvam

औषधिवनस्पतिवाचिभ्यो वनस्य वा णः स्यात् । दूर्वावणम् । शिरीषवणम् । बदरीवणम् । विकल्पाद् दूर्वावनमित्यादि । द्वित्यक्षरेभ्य एव । देवदारुवनम् । इषीकादिभ्यो न । इषीकावनम् । इरीकावनम् । मारीवनम् ॥

Vartika

द्व्यच्त्र्यज्भ्यामेव ।

Sutra Prayogas

  • देवदारु-वनामिश्रै” (भट्टिकाव्यम्): विभाषौषधि इत्यादिना णत्वं न भवति।