84007: अह्नोऽदन्तात् ==================== **Padacheda:** अह्नः | S | 1 | 1 | अदन्तात् | S | 1 | 1 | 6 Sutrartha --------- **** Vasu English Summary -------------------- The ण is the substitute of न of अहन् , when it is preceded by a word ending in अ , having in it a letter capable of producing a change. Vasu English Translation ------------------------ The ण is the substitute of न of अहन् , when it is preceded by a word ending in अ , having in it a letter capable of producing a change. Thus पूर्वाह्णः "fore-noon"; अपराह्णः "after-noon". Why do we say "ending in अ"? Observe, निरह्नः, दुरह्नः ॥ The word अह्न is substituted for अहन् by (5.4.88). The word अह्न being used in the *sutra* as ending in अ, the rule does not apply to other words. Thus दीर्घाह्नी शरत् ॥ The word अह्नः in the *sutra* is in the nominative case, and should not be construed as the genitive of अहन्, because all *sthanins* are exhibited in Nominatives as, वनं (8.4.4), वाहनं (8.4.8), यानं &c. The compounding takes place by (2.2.1), then is added the *samasanta* affix टच् (5.4.91), and अह्न substitution by (5.4.88). The word दीर्घाह्नी is a *Bahuvrihi* compound and not a *Tatpurusha*, and hence the affix टच् does not apply to it. The feminine ङीप् is added by (4.1.28), there is elision of अ of अहन् by (6.4.134). Bhashya ------- अह्नोऽदन्तात् ॥ अदन्ताददन्तस्य(3)॥ अदन्ताददन्तस्येति वक्तव्यम्। इह मा भूत्-दीर्घाह्नी शरदिति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम् । नैषाऽहञ्ञ्छब्दात्षष्ठी॥ का तर्हि?॥ अह्नशब्दात्प्रथमा। पूर्वसूत्रनिर्देशश्च(1)॥ अथ वा युवादिषु पाठः करिष्यते॥ (अह्नोऽदन्तात्)॥ Kashika ------- अदन्तं यत् पूर्वपदं तत्स्थाद् निमित्तादुत्तरस्याह्नो नकारस्य णकार आदेशो भवति। पूर्वाह्णः। अपराह्णः। अदन्तादिति किम्? निरह्नः। दुरह्नः। **अह्नोऽह्न एतेभ्यः** (५.४.८८) इत्यह्नादेशः। अह्न इत्यकारान्तग्रहणाद् दीर्घाह्नी शरदित्यत्र न भवति॥ Siddhanta Kaumudi ----------------- अदन्तपूर्वपदस्थाद्रेफात्परस्यऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः ॥ कालाट्ठज्ञ् (SK1381) ॥ द्विगोर्लुगनपत्य (SK1080) इति ठञो लुक् । द्व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । द्वयह्ना । द्व्यह्नप्रियः । अत्यह्नः ॥ Balamanorama ------------ **अह्नोऽदन्तात्** - अह्नोऽदन्तात् ।पूर्वपदात्संज्ञायाम् इत्यतः पूर्वपदादित्यनुवृत्तमदन्तादित्यत्रान्वेति । 'रषाभ्यां नो णः' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह — अदन्तपूर्वेति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाह्ण इत्यत्र णत्वार्थं षादित्यपि बोध्यम् । समासान्ते परे इति किम् । द्वे अहनी भृतो द्व्यहीनः । अत्र समासान्तविधेरनित्यत्वाट्टज्भावेऽह्नादेशो न । सर्वाह्ण इति । सर्वमहरिति विग्रहेपूर्वकालैके॑ति समासे 'राजाहःसखिभ्यः' इति टच्, अह्नादेशः । णत्वं । 'रात्राह्नाहाः' इति पुंस्त्वम् । पूर्वाह्ण इति । समासादि सर्वाह्णवत् । सङ्ख्याताह्न इति । सङ्ख्यातमहरिति विग्रहः । विशेषणसमासः, टच् अह्नादेशः । निमित्ताऽभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । सङ्ख्यापूर्वस्य उदाहरति — द्वयोरह्नोरित्यादि । द्वयह्न इति । तद्धितार्थे द्विगुः । टच् । ततो भावार्थे ठञ्, तस्य लुक्, अह्नादेशः । प्रसङ्गादाह — स्त्रियामिति । द्व्यह्नेति । द्व्योरह्नोर्भवेत्यर्थः । ठञ् । लुक् च पूर्ववत् ।अपरिमाणविस्ते॑ति न ङीप् । टञ्निमित्तस्तु ङीब्नेत्यपरिमाणविस्तेत्यत्रोक्तम् । टचष्टित्वेऽप्युपसर्वनत्वाट्टिड्ढेति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवाऽत्रनास्ति ।रात्राह्नाहाः पुंसी॑त्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । सङ्ख्यापूर्वस्योदाहरणान्तरमाह-द्व्यह्नप्रिय इति । द्वे अहनी प्रिये यस्येति विग्रहः । तद्धितार्थ इत्युत्तरपदे द्विगुः । टच्, अह्नादेश इति भावः । अव्ययपूर्वस्योदाहरति — अत्यह्न इति । अहरतिक्रान्त इति विग्रहः । 'अत्यादय' इति समासः । टच् अह्नादेश इति भावः । Tattvabodhini ------------- **अह्नोऽदन्तात्** - रेफादिति । यदि तु लक्षे अहस्तु भव इत्यादिव्युत्पत्त्यालक्षाह्ण॑इत्यपि प्रयोगोऽस्ति, तर्हि षादित्यपि बोध्यम् ।रषाभ्या॑मित्यधिकारात् । ठञो लुगिति ।अणो लु॑गिति वृत्तिकाराद्युक्तमयुक्तमिति भावः । प्रसङ्गादाह -सत्रियामिति । नन्विह स्त्रीत्वं दुर्लभं,रात्राह्नहाः पुंसी॑ति वचनादिति चेन्मैवम् । सर्वमहः सर्वाहृ इत्यादावुपक्षीणस्य वद्वचनस्य लुप्ततद्धितायामप्रवृत्ते ।लुपि युक्तव॑दिति लिङ्गतिदेशो ह्यत्र प्रमाणम् । प्राकृतलिङ्गानुसासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयथ्र्यापत्तेः । अतएव लवणः सूपः लवणा यवागूरित्यादौ न क्लीबत्वम् । किं चद्विगुप्राप्तापन्ने ॑त्यादिना परवल्लिङ्गत्वे प्रतिषिद्धे तदपवादस्यरात्राह्नाहाः॑ इत्यस्याऽप्राप्तिरेवेति व्द्यह्नशब्दोऽयं विशेष्यनिघ्न एव, न तु नियतपुंलिङ्गः । एवं चाऽत्र भवार्थकतद्धिते लुप्तेऽपियः शिष्यते स लुप्यमानार्थाभिधायी॑ति न्यायेन भवार्थवत्तन्निष्ठस्त्रीत्वाभिधानमपि न्याय्यमेवेति दिक् । टाबिति । न चेह ठञन्तत्वान्ङीप्स्यादिति शङ्क्यं, ठञो लुप्तत्वात् । न च प्रत्ययलक्षणं, वर्णाश्रयत्वात् ।ठञो योऽकारस्तदन्तान्ङी॑बिति तत्र व्याख्यात्त्वात् । अतएव वृत्तिकाराद्युक्ताऽणो लुक् पक्षेऽपि न ङीफ्,अण्योऽकारः॑इति तत्र व्याख्यातत्वात् । न चैवमपि टजन्तत्बान्ङीप्स्यादेवेति वाच्यम् । टचः समासान्ततया तदन्तस्य तद्धितार्थं प्रत्युपसर्जनत्वात् । अतएव हि आपिशलिना प्रोक्तमधीयाना ब्राआहृणी आपिशलेत्युदाहृतं भाष्ये ।द्विगो॑रिति ङीप्तु न शङ्क्य एव,अपरिमणे॑ति निषेधात् । अतष्टाबेबात्र युक्तः । तथैवोदाहरति — Padamanjari ----------- पूर्वाह्ण इति । अह्नः पूर्वो भाग इति'पूर्वापर' इत्यादिसूत्रेण समासः, राजाहः सखिभ्यष्टच्ऽ, ठह्नोऽह्न एतेभ्यःऽ इत्य अह्नादेशः । निरह्न इति । निर्गतोऽह्न इति प्रादिसमासः, शेषं पूर्ववत् । दीर्घाह्नी शरादति । बहुव्रीहिरयम्, तेन टज्न भवति; टज्विधौ तत्पुरुषाधिकारात् । ठन उपधालोपिनोऽन्यतरस्याम्ऽ इति ङीप्, ठल्लोपोऽनःऽ । अकारान्तस्य ग्रहणादत्र णत्वं न भवति । यदि तु नकारस्यायं षष्ठ।ल निर्देशः स्यात्, अत्रापि णत्वं स्यात् । अकारान्तस्य तु ग्रहणं प्रकरणाद्विज्ञायते । सर्वत्र प्रकरणे स्थानी प्रथमया निदिश्यते - वनम्, वाहनम्, यानमिति । यद्वा - युवादिषु पाठादस्य णत्वाभावः । अवश्यकर्तव्यश्च युवादिषु पाठः; प्रातिपदिकान्तेति विकल्पेन णत्वं मा भूदिति । अन्तग्रहणं ज्ञापकम् - अत्र प्रकरणे न यत्नमन्तरेण वर्णेनापि तदन्तविधिर्भवतीति । तेन रषाभ्याम्ऽ इत्यत्र तदन्तविधिने भवति ॥ Nyaas ----- `अह्नः` इति षष्ठ्याः स्थाने प्रथमा पूर्ववत्। समानमेव यन्नित्यं पदं तत्? समानग्रहणादाश्रयन्ति ये, तेषां विध्यर्थमेतत्। अन्येषां तु नियमार्थंम्। एवमुत्तरत्रापि नियमार्थता विध्यर्थता च यथायोगं वेदितव्या। `पूर्वाह्णाः` इत्यादि। पूर्वापरादिसूत्रेण [`पूर्वपरादि` -कांउ।पाठः, प्रांउ।पाठश्च] (2.2.1) एकदेशी समासः। `राजाहःसखिभ्यष्टच्` (5.4.91) इति टच्? समासान्तः। **अह्नोऽह्न एतेभ्यः** (5.4.88) इत्यह्नादेशः, सवर्णदीर्घः। `निरह्नः` इति। निर्गतमह्न इति प्रादिसमासः। शेषं पूर्वयत्। `दीर्घाह्नो` इति। दीर्घाव्यहानि यस्यामिति बहुव्रीहिः। टज्विचौ **तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः** (5.4.86) इत्यतस्तत्पुरुषग्रहणमनुवर्तते। तेन बहुव्रीहौ टज्न भवति। `अन उपधालोपिनोऽन्यतरस्याम्` (4.1.28) इति ङीप्, **अल्लोपोऽनः** (6.4.134) इत्युपधाकारलोपः। अत्राकारान्तग्रहणान्न भवति णत्वम्। यदि त्वनकारान्तस्य स्यात्, ततः `पूर्वाह्णः` इत्यत्र प्रत्ययात्प्राग्यथा व्यवस्थितस्याङ्नो नकारस्य णकारादेशो भवति, तथा `दीर्घाह्नी शरत` इत्यत्रापि स्यात्। अतोऽस्य ग्र्हणं हि व्याख्यानाद्विज्ञायते। तपरकरणात्? पराजितमहः `पराह्नः` इत्यत्र आकारान्तान्न भवति। अन्तग्रहणं विस्पष्टार्थम्। तपरेणाकारेम पूर्वपदे विशेष्यमाण तदन्तविधिर्भविष्यतीति विनाप्यन्तग्रहणतदन्तता लभ्यत इति। Praudhamanorama --------------- (अह्नोऽदन्तात्) ॥ **रेफादिति ।** यदि ‘लक्षाऽह्ण’ इत्यपि प्रयोगोऽस्ति तर्हि ‘षाद्’ इत्यपि बोद्ध्यम् । ‘रषाभ्यामि’त्यधिकारात् । अत्र प्राञ्चः - ‘अह्न इति ‘षष्ठ्याः स्थाने व्यत्ययेन प्रथमा । अदन्तनिर्देशान्नेह - ‘दीर्घाह्नी प्रावृड्’ इति वदन्ति । तत्र व्यत्ययादिवर्णनक्लेशो व्यर्थः । ‘दीर्घाह्नी’ त्यत्र ‘प्रातिपदिकाऽन्ते’ति णत्वं व्यावर्तयितुं क्षुभ्नादित्वस्यैव वक्तव्यत्वात् । आकर एव तथोक्तत्वाच्चेत्याशयेनाऽऽह - **अह्नो नस्येति ।** प्राचस्तु-अह्नो नस्येत्युक्त्वा ‘अदन्तनिर्देशादि’ति वदतो व्याघातः स्पष्ट एव । **कालाट्ठञिति ।** एतच्च ‘सङ्ख्याविसाये’ति सूत्रे न्यासपदमञ्जयर्योः, ओहाङ्-धातौ माधवग्रन्थे च स्पष्टम् । यत्तु ‘न सङ्ख्यादेः समाहारे’ इति सूत्रे ‘द्व्यह्न’ इत्यत्र अणो लुगिति वृत्तिकारादिभिरुक्तं, तदयुक्तमिति भावः । प्रसङ्गादाह - **स्त्रियामिति ।** **टाबिति ।** यत्तु प्राचा कालनिर्णयदीपिकार्याम् ‘पूर्वा स्यान्नवमी शुभाऽथ दशमी कालास्पृगाद्याऽथ सा द्व्यह्नी कालयुगादिमोत्तरयुता चाऽथोत्तरैकादशी’ इति श्लोके ‘द्व्यह्नी’ इति प्रयुक्तम् । ‘सा दशमी द्वयोरह्नोर्भवा द्व्यह्नी’ इत्यादि च तद्विवरणे व्याख्यातम् । तत्सर्वं प्रामादिकमिति भावः । तथा हि - इह ‘टिड्ढा-’ इति ङीब्, ‘द्विगोः’ इति वा । आद्योऽपि अण्णन्तत्वात्, ठञन्तत्वात्, टजन्तत्वाद्दा ? नाऽऽद्यः । वृत्तिकाराद्युक्तस्याऽण इह प्रामादिकत्वात् । लुका लुप्तत्वाच्च । न च प्रत्ययलक्षणम् । ‘अणो योऽकार’ इति व्याख्यानात् । नाऽपि द्वितीयः । ‘ठञो योऽकारस्तदन्तादि’ति व्याख्यानात् । अत एव हि ‘द्विनिष्के’ त्यत्र क्रीतार्थे प्राग्वतीयस्य ठञो लुकि टाबेवाऽऽकरे उदाहृतः । ‘द्विबिस्ते’ त्यादावप्येवम् । नाऽपि तृतीयः । टचः समासान्ततया तदन्तस्य तद्धिताऽर्थत्वं प्रत्युपसर्जनत्वात् । अत एव हि ‘आपिशलिना प्रोक्तमधीयाना ब्राह्मणी आपिशले’ त्युदाहृतम् । भाष्यमते अचा टचो बाधनाच्च । नाऽपि चतुर्थः । ‘अपरिमाणे’त्यादिना ङीपो निषेधात् । तस्माट्टाबेव युक्तः । स्यादेतत् । टाबप्ययुक्तः । स्त्रीत्वस्यैव दुर्लभत्त्वात् । तथा च ‘अह्नोऽह्न एतेभ्य’ इति सूत्रे कैयटहरदत्तावाहतुः - ‘रात्राह्नाहाः पुंसि’ इति वचनात् स्त्रियां वृत्यभावात् टजचोर्नाऽस्तीह विशेष’ इति । मैवम् । भावाऽनवबोधात् । इत्थं हि कैयटाद्याशयः - ‘सर्वादिषट्कपूर्वादह्नष्टजपवादोऽज्विहितः । तत्र सङ्ख्यापूर्वस्य तद्धिताऽर्थद्विगोर्विशेष्यनिघ्नत्वेन स्त्रीत्वसम्भवेऽपि, टजन्तस्य तद्धितं प्रत्युपसर्जनत्वाद् अनुपसर्जनाधिकारोक्तस्य ‘टिड्ढा-’ इति ङीपः प्राप्तिरेव नाऽस्तीति तत्र टजचोरविशेषः स्पष्ट एव । ‘पुण्याऽहमि’ त्यत्र तु ‘उत्तमैकाभ्यां चे’त्यचो निषेधः, अह्नादेशस्य वे’ति मतभेदेन व्यवस्थितम् । इतरेषां चतुर्णां तु ‘रात्राह्नाहाः’ इति वचनात्स्त्रियां वृत्तिर्नाऽस्ती’ति । स्यादेतत् । भवेदेष वृद्धानामाशयः, यद्युक्तद्विगोर्विशेष्यनिघ्नत्वे प्रमाणं स्यात्, तदेव किमिति चेत्, । उच्यते । अमरसिंहेन ‘पुंस्त्वे सभेदाऽनुचराः सपर्यायाः सुराऽसुराः’ इति पुंस्त्वाऽधिकारे ‘अह्नाहाऽन्ताः क्ष्वेडभेदा रात्राऽन्ताः प्रागसङ्ख्यका’ इत्युक्तम् । ‘अर्थाऽन्ताः प्राद्यलम्प्राप्ताऽऽपन्नपूर्वाः परोपगाः । तद्धितार्थे द्विगुः संङ्ख्याः सर्वनामतदन्तकाः’ इति च ततः परमुक्तम् । एवञ्चेह ‘अह्नाहान्ताः-’ इत्यनेन पुंस्त्वं प्राप्तं ‘तद्धिताऽर्थे द्विगुः’ इति परोपगत्वेन परत्वादेव बाद्ध्यते । तथा च तेनैव परिभाषितं - ‘परं विरोधे शेषन्तु ज्ञेयं शिष्टप्रयोगतः’, इति । तस्मादमरग्रन्थ उक्ताऽर्थे प्रमाणम् । किञ्च ‘परवल्लिङ्गमित्यस्य ‘रात्राह्नाहा’ इत्यपवादः । यत्र तु ‘द्विगुप्राप्ते’त्यादिना उत्सर्गो निषिद्धस्तत्र तदपवादस्याऽप्रवृत्तिः स्पष्टैव । एतच्च माधवेनाऽपि ध्वनितमित्यनुपदमेव वक्ष्यामः । किञ्च भवाद्यर्थ- तद्धिताऽन्तं परोपगमिति निर्विवादम् । तद्धितलोपे तु ‘यः शिष्यते स लुप्यमानार्थाभिधायी’ इति न्यायेन भवाद्यर्थवत् स्त्रीत्वादेरप्यभिधानं न्याय्यमेव । प्रकृते लिंङ्गानुशासनस्य केवलायां प्रकृतावुपक्षीणस्य लुप्ततद्धितायामप्रवृत्तेः । ‘लुपि युक्तवदि’ति लिङ्गाऽतिदेशोऽप्यत्र प्रमाणम् । प्राकृतलिङ्गानुशासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयर्थ्याऽऽपत्तेः । अत एव ‘लवणः सूपः’, ‘लवणा यवागूः’ इत्यादौ न क्लीबत्वम् । अत एव च ‘कुमारीब्राह्मण’ इत्यादिषु आचारक्विबन्तप्रकृतिक-कर्तृक्विबन्तेष्वपि विशेष्यनिघ्नतैवाऽऽकरे स्पष्टा । ‘द्व्यह्नी’ इति ङीपं वदता प्राचाऽपि स्त्रीत्वं स्वीकृतमेवेत्यलं बहुना । यदि समर्थनीयमेवेत्याग्रहस्तर्हि आधाराऽऽधेयभावव्यत्यासेन समर्थ्यतां ‘द्वे अहनी यस्याम्’ इति, दिनद्वयाऽऽधारभूतेत्यर्थलाभात् । Prakriyasarvasvam ----------------- अदन्तपूर्वपदस्थान्निमित्तात् परस्याह्नशब्दनकारस्य णः स्यात् । प्रकान्त- महरत्रेति प्राह्णं कालः । प्रस्थिता रथा अस्मिन् प्ररथं कालः । प्रनष्टा मृगा अस्मिन् प्रमृगं कालः । प्रकृता दक्षिणा अत्रेति प्रदक्षिणं यज्ञः । भावोऽयम् । प्राह्णादिष्वह्नः प्रगतत्वमित्याद्यर्थो हरोक्तः । सम्प्रत्यसभ्प्रत्यप्रदक्षिणानि वर्तमाना- वर्तमानवामेषु' (स० ३-२-२८) । सम्प्रतिशब्दो युक्तमित्यर्थेऽपीति हरः । न चान्यसमास इति सर्वत्र योज्यम् । तेनातिप्राह्णमित्यादि न स्यादिति ॥ Sutra Prayogas -------------- * **अपराह्नशीतलतरेण** (शिशुपालवधम्): `अह्नोऽदन्तात्` इति णत्वम्। * **पूर्वाह्णे** (भट्टिकाव्यम्): `अहो - ऽदन्तात्` इति णत्वम्।