83116: स्तम्भुसिवुसहां चङि

Padacheda: स्तम्भु-सिवु-सहाम् | S | 6 | 3 |

चङि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The ष् substitution does not take place in the reduplicated Aorist of the roots 1. स्तम्भ् 2. सिव् and 3. सह।

Vasu English Translation

The ष् substitution does not take place in the reduplicated Aorist of the roots 1. स्तम्भ् 2. सिव् and 3. सह। The root स्तम्भ required ष change by (8.3.67), and the roots सिव and सह by (8.3.70). Thus पर्यतस्तम्भत्, अभ्यतस्तम्भत् ॥ सिव :- पर्यसीषिवत्, न्यसीषिवत् ॥ सह :- पर्यसीषहत्, व्यसीषहत् ॥

Vart:- This prohibition refers to the ष change that is caused by an Upasarga and not to the reduplicate change, as we have illustrated in the above example.

Bhashya

स्तम्भुसिवुसहां चङि ॥ स्तम्भुसिवुसहां चङ्युपसर्गात्॥ स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम्॥ किं प्रयोजनम्?॥ उपसर्गाद्या प्राप्तिस्तस्याः प्रतिषेधो यथा स्यादभ्यासाद्या प्राप्तिस्तस्याः प्रतिषेधो मा भूदिति। पर्यसीषहत्॥ (स्तम्भुसिवु)

Kashika

स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति। स्तन्भेः (८.३.६७) इति परिनिविभ्यः० (८.३.७०) इति च प्राप्तो मूर्धन्यः प्रतिषिध्यते। स्तम्भु — पर्यतस्तम्भत्। अभ्यतस्तम्भत्। सिवु — पर्यसीषिवत्। न्यसीषिवत्। सह — पर्यसीषहत्। व्यसीषहत्॥ स्तम्भुसिवुसहां चङि उपसर्गादिति वक्तव्यम्॥ उपसर्गाद् या प्राप्तिस्तस्या एव प्रतिषेधो यथा स्यात्, अभ्यासाद् या प्राप्तिस्तस्या मा भूदिति। तथा चैवोदाहृतम्॥

Siddhanta Kaumudi

उपसर्गस्थान्निममित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रस्वोऽद्वित्वात्प्रागेव । ओणेर्ऋदित्करणाल्लिङ्गात् । मा भवानिदिधित् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्राः - (SK2446) इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः । भुजन्युब्जौ पाण्युपतापयोः (SK2877) इति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्राः (SK2446) इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥

Tattvabodhini

स्तन्भुः सौत्रः। षिवु तन्तुसंताने। षह मर्षणे`। स्तन्भतेः स्तन्भेः इत्यनेन प्राप्तिरन्ययोस्तु परिनिविभ्यः इत्यनेनेति विवेः। आटिटत्। आशिशदिति। णिचा सह द्वित्वात्सन्वद्भावो नेति त्दविषये विहितो यो दीर्घो लघो`रिति दीर्घः स न प्रवर्तते। ऋदित्करणाल्लिङ्गादिति। यदि पूर्वं द्विर्वचनं भवेत्तद। णिशब्दस्य द्वित्वे सत्युपधाह्रस्वस्याऽप्राप्तेस्तत्प्रतिषेधार्थमृदित्करणं व्यर्थं स्यादतस्तदुक्तेऽथ ज्ञापकमेव। एजादावेधताविति। `एत्येधत्यूठ्सु इति सूत्रे एजाद्योरेत्येधत्यो`रिति व्याख्यातत्वादिति भावः। न च मा भवान्प्रेदिधदित्यत्र `णौ चङी`ति ह्रस्वे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषमेनेति वाच्यम्, एकदेशविकृतस्याऽनन्यत्वात्। न चैवमपि `अजादेर्द्वितीयस्ये`ति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभाघसंमोह इति वाच्यं, `द्विः प्रयोगो द्विर्वचनं षष्ठ`मिति भाष्ये सिद्धान्ततत्वात्। अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात्, `जिघांसती`त्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक्। उब्ज आर्जव इति। अयमुपध्मानीयोपध इति वार्तिककृतोक्तम्। तस्य `झलां जश् झशी`ति झश्त्वेन बकारे कृते - अब्जिता उब्जितुमिति रूपम्। एतच्चाऽयोगवाहानां शर्षु पाठस्य फलम्। भाष्यकारादयस्तूपध्मानीयोपधपाठे `उब्जिजिषती`ति रूपं न सिध्येत्। यदि `पूर्वत्राऽसिद्धीयमद्विर्वचने इत्याश्रित्य बकारोत्तरं द्वित्वं क्रिये, यदि वा अस्याऽनित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयतापीष्टरूपाऽसिद्धिः, आद्ये उबिब्जिषति, द्वितीये तूपध्मीनीयस्याऽच्त्वात्तदादेः अजादेर्द्वितीयस्ये`ति द्वित्वे हलादिः शेषे द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्ब्जिषतीत्यापत्तेः। ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः। `बुजन्युब्जा`विति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्च `स्तोः श्नुना श्चु`रित्यस्याग्रे। तदयमर्थः - श्चुना योगे उद्?जेर्दकारस्य बकार इति। अभ्युद्रः समुद्र इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः। दकारोपधे चास्मन्स्वीकरृते `न न्द्राः इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम्। न च पूर्वत्रासिद्धीयमद्विर्वचने`इति धकारोत्तरं द्विर्वचने सति स्यादेवाऽनिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तन्निषेधेऽपि। तथा च निषेधे त्रिपादीश्थस्याऽसिद्धत्वात् `न न्द्राः इति निषेधः प्रवर्तते। य्दवा तादृशवाक्यमिह न कल्प्यते किं तु भुजन्युब्जौ इति निपातनेन दस्य ब इति। न चैवं बकारसहितस्य द्वित्वप्रसङ्गः, धातोर्दकारोच्चारणसामर्थ्यात्। नचाऽभ्युद्र इत्यादावपि बकारश्रवणप्रसङ्गः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात्। यद्वा अभ्युद्र इत्यादि रूपं द्व्युपसर्गाद्रमेर्डप्रत्यये ज्ञेयम्। उद्?जेस्तु घञि अनभिधात्प्रयोगाऽभाव इति वदन्ति। तदेतद्भाष्यादिमतमभिप्रेत्याह - उपदेशे दकारोपध इत्यादि। अजादेरित्येवेति। न न्द्राः इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्विर्नोच्यन्ते नान्ये इत्यर्थः। ननु `लावस्थायामेव `अ`डिति भाष्याकोरक्तपक्षे अदिद्रपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट्, परत्वादन्तरङ्गत्वाच्चेति चेत्। अत्राहुः - द्वितीयस्येत्यप्यत्रानुवर्तते, तत्सामर्थ्याच्च नित्यं द्वितीयस्येति तदर्थः। तेन लावस्थायामटि कृतेऽपि दातुसंज्ञाप्रवृत्तिकाले अजादित्वाऽभावान्नोक्तदोषः। नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात्। न चैवं नित्य#ं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्याऽत्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्द्रिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः। अजादेरित्युक्तौ त्वादिभूतदचः परत्वं दकारस्य नेति सिद्धमिष्टम्। न च अजादेरिति कर्मधारयात्पञ्चमीत्युक्तत्वात्। इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवत्र्यताम्। अथवा आदेरित्य्सयाप्यनुवर्तनमस्तु, तस्य नावयवपरत्वं, किंतु पूर्ववर्तिमात्रपरत्वं, शब्दाधिकाराश्रयणादिति ज्ञेयम्। नन्वेवमुत्तरार्थतया द्वितीयस्येति ग्रहणस्य सार्थकत्वे स्थिते `द्वितीयस्येति न वक्तव्य`मिति भाष्यं विरुध्येतेति चेत्। मैवम्। यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात्। रन च अजादेरित्येतावत्युक्तेयस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम्, प्रथमस्यैकाचः पूर्वेणैव सिद्धेः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात्।

Padamanjari

लिटि द्विर्वचने कृते द्वौ सकारौ भवतः, तत्र सदेः’स्थादिष्वभ्यासेन च’ इति वचनात्’सदिरप्रतेः’ इति षत्वप्रसङ्गः, स्वञ्चेरपि ठुपसर्गात्सुनोतिऽ इत्यादिना । परिषस्वज इति । कथं पुनरत्र नलोपः, यावता संयोगान्तत्वान्नात्र लिटः कित्वमस्ति ? अत आह - स्वञ्जेरिति । एतच्च ठिन्धिभवतिभ्यां चऽ इत्यत्र व्याख्यातम्, स्वञ्जिग्रहणञ्च वार्तिके दर्शनात्सूत्रे प्रक्षिप्तम्, यथाह -‘सदो लिटि प्रतिषेधे स्वञ्चेरुपसंख्यानम्’ इति ॥

Nyaas

अत्राद्यस्य स्तन्भेः (8.3.67) इति षत्वे प्राप्ते, इतरयोस्तु परिनिविभ्यः (8.3.70) प्रतिषेधेऽयमारभ्यते। अभ्यतस्तम्भत् इति। णिच्, लुङ्, णिश्रिद्रुरुआउभ्यः कर्तरि चङ्` (3.1.48) , णिलोपः, चङि (6.1.11) इति द्विर्वचनम्, पूर्ववत्? खयः शेषः, अट्, प्राक्सितादड्व्यवायेऽपि (8.3.63) , स्थादिष्वभ्यासेन चाभ्यासस्य (8.3.64) इति व्यवाये सत्युपसर्गस्थान्निमित्तातु षत्वं प्राप्तं न भवति। पर्यसीषिवत् इत्यादि। पूर्ववल्लुङादि, सिवेर्लधूपधगुणः, सहेस्तु अत उपधायाः (7.2.116) इति बृद्धिः, सन्वल्लघुनि (7.4.93) इतीत्त्वे, उभयोः णो चङ्युपधायाः (7.4.1) इति ह्रस्वः। दीर्घो लघोः (7.4.94) इति दीर्घः। अत्रापि सिवादीनां वाङ्यवायेऽपि (8.3.71) इत्यङ्व्यवाय उपसर्गस्यान्निमित्तात्? परेषां प्राप्नोति, तत्र भवति। सिवुसहोः इत्यादि। एतयोः सिवुसहोश्चङ्युपसर्गस्थान्निमित्तात्? षत्वं प्राप्नोति, तनमा भूदित्येवमर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? इत्याह -उपतर्गाद्या प्राप्तिः इत्यादि। तत्रेदं व्याख्यानम् -डपसर्गात्? सुनोति (8.3.65) इत्यतो मण्डूकप्लुतिन्यायेनोपसर्गादितीहानुवर्तते। तेनोपसर्गाद्या प्राप्तिस्तस्या एव प्रतिषेधो भविष्यतीति। तथा चैवोदाहृतम् इति। यत्तदर्थरूपं व्याख्येयम्, तत्तथोक्तम्। तदर्थरूपमेवोदाहृतमित्यर्थः॥

Sutra Prayogas

  • व्यतस्तम्भद्घन-ध्वनिः (भट्टिकाव्यम्): स्तम्भुसिवुसहां चङि इति षत्वप्रतिषेधः।