83116: स्तम्भुसिवुसहां चङि ========================== **Padacheda:** स्तम्भु-सिवु-सहाम् | S | 6 | 3 | चङि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The ष् substitution does not take place in the reduplicated Aorist of the roots 1. स्तम्भ् 2. सिव् and 3. सह। Vasu English Translation ------------------------ The ष् substitution does not take place in the reduplicated Aorist of the roots 1. स्तम्भ् 2. सिव् and 3. सह। The root स्तम्भ required ष change by (8.3.67), and the roots सिव and सह by (8.3.70). Thus पर्यतस्तम्भत्, अभ्यतस्तम्भत् ॥ सिव :- पर्यसीषिवत्, न्यसीषिवत् ॥ सह :- पर्यसीषहत्, व्यसीषहत् ॥ Vart:- This prohibition refers to the ष change that is caused by an *Upasarga* and not to the reduplicate change, as we have illustrated in the above example. Bhashya ------- स्तम्भुसिवुसहां चङि ॥ स्तम्भुसिवुसहां चङ्युपसर्गात्॥ स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम्॥ किं प्रयोजनम्?॥ उपसर्गाद्या प्राप्तिस्तस्याः प्रतिषेधो यथा स्यादभ्यासाद्या प्राप्तिस्तस्याः प्रतिषेधो मा भूदिति। पर्यसीषहत्॥ (स्तम्भुसिवु) Kashika ------- स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति। **स्तन्भेः** (८.३.६७) इति **परिनिविभ्यः०** (८.३.७०) इति च प्राप्तो मूर्धन्यः प्रतिषिध्यते। स्तम्भु — पर्यतस्तम्भत्। अभ्यतस्तम्भत्। सिवु — पर्यसीषिवत्। न्यसीषिवत्। सह — पर्यसीषहत्। व्यसीषहत्॥ स्तम्भुसिवुसहां चङि उपसर्गादिति वक्तव्यम्॥ उपसर्गाद् या प्राप्तिस्तस्या एव प्रतिषेधो यथा स्यात्, अभ्यासाद् या प्राप्तिस्तस्या मा भूदिति। तथा चैवोदाहृतम्॥ Siddhanta Kaumudi ----------------- उपसर्गस्थान्निममित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रस्वोऽद्वित्वात्प्रागेव । ओणेर्ऋदित्करणाल्लिङ्गात् । मा भवानिदिधित् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्राः - (SK2446) इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः । भुजन्युब्जौ पाण्युपतापयोः (SK2877) इति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्राः (SK2446) इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥ Tattvabodhini ------------- स्तन्भुः सौत्रः। `षिवु तन्तुसंताने`। षह मर्षणे`। स्तन्भतेः `स्तन्भेः` इत्यनेन प्राप्तिरन्ययोस्तु `परिनिविभ्यः` इत्यनेनेति विवेः। आटिटत्। आशिशदिति। णिचा सह द्वित्वात्सन्वद्भावो नेति त्दविषये विहितो यो `दीर्घो लघो`रिति दीर्घः स न प्रवर्तते। ऋदित्करणाल्लिङ्गादिति। यदि पूर्वं द्विर्वचनं भवेत्तद। णिशब्दस्य द्वित्वे सत्युपधाह्रस्वस्याऽप्राप्तेस्तत्प्रतिषेधार्थमृदित्करणं व्यर्थं स्यादतस्तदुक्तेऽथ ज्ञापकमेव। एजादावेधताविति। `एत्येधत्यूठ्सु` इति सूत्रे `एजाद्योरेत्येधत्यो`रिति व्याख्यातत्वादिति भावः। न च मा भवान्प्रेदिधदित्यत्र `णौ चङी`ति ह्रस्वे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषमेनेति वाच्यम्, एकदेशविकृतस्याऽनन्यत्वात्। न चैवमपि `अजादेर्द्वितीयस्ये`ति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभाघसंमोह इति वाच्यं, `द्विः प्रयोगो द्विर्वचनं षष्ठ`मिति भाष्ये सिद्धान्ततत्वात्। अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात्, `जिघांसती`त्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक्। उब्ज आर्जव इति। अयमुपध्मानीयोपध इति वार्तिककृतोक्तम्। तस्य `झलां जश् झशी`ति झश्त्वेन बकारे कृते - अब्जिता उब्जितुमिति रूपम्। एतच्चाऽयोगवाहानां शर्षु पाठस्य फलम्। भाष्यकारादयस्तूपध्मानीयोपधपाठे `उब्जिजिषती`ति रूपं न सिध्येत्। यदि `पूर्वत्राऽसिद्धीयमद्विर्वचने` इत्याश्रित्य बकारोत्तरं द्वित्वं क्रिये, यदि वा अस्याऽनित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयतापीष्टरूपाऽसिद्धिः, आद्ये उबिब्जिषति, द्वितीये तूपध्मीनीयस्याऽच्त्वात्तदादेः `अजादेर्द्वितीयस्ये`ति द्वित्वे हलादिः शेषे द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्ब्जिषतीत्यापत्तेः। ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः। `बुजन्युब्जा`विति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्च `स्तोः श्नुना श्चु`रित्यस्याग्रे। तदयमर्थः - श्चुना योगे उद्?जेर्दकारस्य बकार इति। अभ्युद्रः समुद्र इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः। दकारोपधे चास्मन्स्वीकरृते `न न्द्राः` इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम्। न च `पूर्वत्रासिद्धीयमद्विर्वचने`इति धकारोत्तरं द्विर्वचने सति स्यादेवाऽनिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तन्निषेधेऽपि। तथा च निषेधे त्रिपादीश्थस्याऽसिद्धत्वात् `न न्द्राः` इति निषेधः प्रवर्तते। य्दवा तादृशवाक्यमिह न कल्प्यते किं तु `भुजन्युब्जौ` इति निपातनेन दस्य ब इति। न चैवं बकारसहितस्य द्वित्वप्रसङ्गः, धातोर्दकारोच्चारणसामर्थ्यात्। नचाऽभ्युद्र इत्यादावपि बकारश्रवणप्रसङ्गः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात्। यद्वा अभ्युद्र इत्यादि रूपं द्व्युपसर्गाद्रमेर्डप्रत्यये ज्ञेयम्। उद्?जेस्तु घञि अनभिधात्प्रयोगाऽभाव इति वदन्ति। तदेतद्भाष्यादिमतमभिप्रेत्याह - उपदेशे दकारोपध इत्यादि। अजादेरित्येवेति। `न न्द्राः` इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्विर्नोच्यन्ते नान्ये इत्यर्थः। ननु `लावस्थायामेव `अ`डिति भाष्याकोरक्तपक्षे अदिद्रपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट्, परत्वादन्तरङ्गत्वाच्चेति चेत्। अत्राहुः - द्वितीयस्येत्यप्यत्रानुवर्तते, तत्सामर्थ्याच्च नित्यं द्वितीयस्येति तदर्थः। तेन लावस्थायामटि कृतेऽपि दातुसंज्ञाप्रवृत्तिकाले अजादित्वाऽभावान्नोक्तदोषः। नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात्। न चैवं नित्य#ं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्याऽत्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्द्रिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः। अजादेरित्युक्तौ त्वादिभूतदचः परत्वं दकारस्य नेति सिद्धमिष्टम्। न च अजादेरिति कर्मधारयात्पञ्चमीत्युक्तत्वात्। इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवत्र्यताम्। अथवा आदेरित्य्सयाप्यनुवर्तनमस्तु, तस्य नावयवपरत्वं, किंतु पूर्ववर्तिमात्रपरत्वं, शब्दाधिकाराश्रयणादिति ज्ञेयम्। नन्वेवमुत्तरार्थतया द्वितीयस्येति ग्रहणस्य सार्थकत्वे स्थिते `द्वितीयस्येति न वक्तव्य`मिति भाष्यं विरुध्येतेति चेत्। मैवम्। यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात्। रन च अजादेरित्येतावत्युक्तेयस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम्, प्रथमस्यैकाचः पूर्वेणैव सिद्धेः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात्। Padamanjari ----------- लिटि द्विर्वचने कृते द्वौ सकारौ भवतः, तत्र सदेः'स्थादिष्वभ्यासेन च' इति वचनात्'सदिरप्रतेः' इति षत्वप्रसङ्गः, स्वञ्चेरपि ठुपसर्गात्सुनोतिऽ इत्यादिना । परिषस्वज इति । कथं पुनरत्र नलोपः, यावता संयोगान्तत्वान्नात्र लिटः कित्वमस्ति ? अत आह - स्वञ्जेरिति । एतच्च ठिन्धिभवतिभ्यां चऽ इत्यत्र व्याख्यातम्, स्वञ्जिग्रहणञ्च वार्तिके दर्शनात्सूत्रे प्रक्षिप्तम्, यथाह -'सदो लिटि प्रतिषेधे स्वञ्चेरुपसंख्यानम्' इति ॥ Nyaas ----- अत्राद्यस्य `स्तन्भेः` (8.3.67) इति षत्वे प्राप्ते, इतरयोस्तु `परिनिविभ्यः` (8.3.70) प्रतिषेधेऽयमारभ्यते। `अभ्यतस्तम्भत्` इति। णिच्, लुङ्, णिश्रिद्रुरुआउभ्यः कर्तरि चङ्` (3.1.48) , णिलोपः, `चङि` (6.1.11) इति द्विर्वचनम्, पूर्ववत्? खयः शेषः, अट्, **प्राक्सितादड्व्यवायेऽपि** (8.3.63) , `स्थादिष्वभ्यासेन चाभ्यासस्य` (8.3.64) इति व्यवाये सत्युपसर्गस्थान्निमित्तातु षत्वं प्राप्तं न भवति। `पर्यसीषिवत्` इत्यादि। पूर्ववल्लुङादि, सिवेर्लधूपधगुणः, सहेस्तु **अत उपधायाः** (7.2.116) इति बृद्धिः, `सन्वल्लघुनि` (7.4.93) इतीत्त्वे, उभयोः `णो चङ्युपधायाः` (7.4.1) इति ह्रस्वः। **दीर्घो लघोः** (7.4.94) इति दीर्घः। अत्रापि `सिवादीनां वाङ्यवायेऽपि` (8.3.71) इत्यङ्व्यवाय उपसर्गस्यान्निमित्तात्? परेषां प्राप्नोति, तत्र भवति। `सिवुसहोः` इत्यादि। एतयोः सिवुसहोश्चङ्युपसर्गस्थान्निमित्तात्? षत्वं प्राप्नोति, तनमा भूदित्येवमर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? इत्याह -`उपतर्गाद्या प्राप्तिः` इत्यादि। तत्रेदं व्याख्यानम् -`डपसर्गात्? सुनोति` (8.3.65) इत्यतो मण्डूकप्लुतिन्यायेनोपसर्गादितीहानुवर्तते। तेनोपसर्गाद्या प्राप्तिस्तस्या एव प्रतिषेधो भविष्यतीति। `तथा चैवोदाहृतम्` इति। यत्तदर्थरूपं व्याख्येयम्, तत्तथोक्तम्। तदर्थरूपमेवोदाहृतमित्यर्थः॥ Sutra Prayogas -------------- * **व्यतस्तम्भद्घन-ध्वनिः** (भट्टिकाव्यम्): `स्तम्भुसिवुसहां चङि` इति षत्वप्रतिषेधः।