83115: सोढः

Padacheda: सोढः | S | 6 | 1 |

Sutrartha


Vasu English Summary

The ष् substitution does not take place in the स् of सोढ form of the root सह।

Vasu English Translation

The ष् substitution does not take place in the स् of सोढ form of the root सह। As परिसोढः, परिसोढुम्, परिसोढव्यम् ॥ This is an exception to (8.3.70).

Why do we say ‘when सह assumes the form of सोढ’ ॥ Observe परिषहते, विषहते ॥

Bhashya

सोढः किमर्थं सहिः सोढभूतो गृह्यते? ॥ यत्रास्यैतद्रूपं तत्र यथा स्यादिह मा भूत्परिषहत इति ॥ (सोढः)।

Kashika

सहिरयं सोड्भूतो गृह्यते, तस्य सकारस्य मूर्धन्यादेशो न भवति। परिसोढा। परिसोढुम्। परिसोढव्यम्। सोड्भूतग्रहणं किम्? परिषहते॥

Siddhanta Kaumudi

सोढ्ररूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥

Balamanorama

सोढः - सेधतेः । न षत्वमिति ।न रपरे॑त्यतो नेत्यनुवृत्तेरिति भावः । गङ्गां विसेधतीति । गच्छतीत्यर्थः । इहउपसर्गात्सुनोती॑ति षत्वं न भवति । अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायं निषेधः,न त्वादेशप्रत्ययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्ययोरिति षत्वं भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपतवात्कथं धात्वर्थत्वमित्यत आह -शास्त्रं शासनमिति । माङ्गल्यं तु — शुभकर्म । षिध गत्यामितिवदस्यापि रूपाणि ।

Tattvabodhini

सोढः - सेधतेर्गतौ । श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि न निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव — विषेषिधीति॑ । न च सेदेति शपा निर्देशाद्यङलुकिउपसर्गात्सुनोती॑ति षत्वं न भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात् । अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयथ्र्यापत्तेरिति दिक् । षिधू शास्त्रे । माङ्गस्यं- मङ्गलक्रिया । स्वार्थे ष्यञ ।

Padamanjari

अत्रेत्यादि । इतिकरणो हेतौ, यस्मात् स्तौतिण्योरेवेति नियमादभ्यासादप्राप्तिः, रथादिष्वेवाभ्यासस्येति नियमादुपसर्गादप्यप्राप्तिः, तस्मादभिसुसूरित्युदाहरन्ति । अथ वा कथं षत्वप्रसङ्गः ? अत आह - अत्र हीति । यथा चात्र सन्ष इत्यत्रोक्तम् । अभ्यासात्प्राप्तिमिति । अभ्यासग्रहणमुपसर्गात्प्राप्तेरसम्भवादभ्यासेन व्यवहितान्न धातुसकारस्य प्रसङ्गः, नाप्यभ्याससकारस्य, स्थादिनियमेन व्यावतितत्वात् । एवं चात्राभिग्रहणमतन्त्रम्, सुसूरित्येवोदाहर्तव्यम् ॥

Nyaas

परिनिविभ्यः (8.3.70) इति प्राप्ते षत्व आरभ्यते। सोढः इति। निष्ठायामपि प्रथमैकवचने कृत एतद्रूपं भवति। एतद्ग्रहणाशङ्कानिरासायाह - सहिरयम् इत्यादि। सोङ्भूतः`[`सोढभूतः - प्रांउ।पाठः] इति। हकारे ढकारे कृते यद्रूपं भवति तत्प्राप्त इत्यर्थः। ढकारस्तु जश्त्वे न श्रूयते। परिसोढः इति। घत्वढत्वष्टुत्वढलोपेषु कृतेषु सहिवहोरोदवर्णस्य (6.3.112) इत्योकारः॥

Prakriyasarvasvam

सोढ् इत्येवंरूपस्य सहेः ‘परिनिविभ्यः सेव—’ (८-३-७०) इत्यादिना प्राप्तं षत्वं न स्यात् । परिसोढुम् । निसोढा । विसोढव्यम् ॥

Sutra Prayogas

  • विसोढवन्तमस्त्राणि (भट्टिकाव्यम्): सोढः इति षत्वप्रतिषेधः।