83117: सुनोतेः स्यसनोः¶
Padacheda: सुनोतेः | S | 6 | 1 |
स्य-सनोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The ष् substitution does not take place in the स् of सु (सुनोति) in the Future, Conditional and Desiderative.
Vasu English Translation¶
The ष् substitution does not take place in the स् of सु (सुनोति) in the Future, Conditional and Desiderative. Thus :- अभिसोष्यति, परिसोष्यति, अभ्यसोष्यत्, पर्यसोष्यत् ॥
What example will you give under Desiderative? सुसूषति ॥ This is not a valid example, for by (8.3.61), the reduplicate will not be changed here. Then we shall give the example अभिसुसूषते ॥ This is not also a proper example, for it is governed by the restrictive rule of (8.3.64). Then this is the example of अभिसुसूः, निसुसू derived from the desiderative root अभिसुसूषति by the affix क्विप् ॥ Here the desiderative affix सन् is not changed to ष (8.3.61) and therefore the second स would have been changed to ष as it comes after a reduplicate.
Why do we say before स्य and सन् ॥ Observe सुषाव ॥
Bhashya¶
सुनोतेः स्यसनोः सनि किमुदाहरणम् ? ॥ सुसूषति ॥ नैतदस्ति प्रयोजनं स्तौतिण्योरेव षण्यभ्यासा दित्येतस्मान्नियमान्न भविष्यति ॥ इदं तर्हि - अभिसुसूषति ॥ एतदपि नास्ति प्रयोजनम्। स्थादिष्वभ्यासेन चाऽभ्यासस्येत्येतस्मान्नियमान्न भविष्यति॥ इदं तर्हि प्रयोजनम् - अभिसुसूतेः अप्रत्ययः - अभिसुसूः । विसुसूः। निसुसूः ॥ (सुनोतेः स्यसनोः)॥
Kashika¶
सुनोतेः सकारस्य मूर्धन्योदेशो न भवति स्ये सनि च परतः। अभिसोष्यति। परिसोष्यति। अभ्यसोष्यत्। पर्यसोष्यत्। सनि किमुदाहरणम्? सुसूषति। नैतदस्ति प्रयोजनम्, अत्र स्तौतिण्योरेव षण्यभ्यासात् (८.३.६१) इति नियमाद् न भविष्यति। इदं तर्हि, अभिसुसूषति। एतदपि नास्ति, स्थादिष्वभ्यासेन चाभ्यासस्य (८.३.६४) इति नियमात् । इदं तर्हि, अभिसुसूषतेरप्रत्ययोऽभिसुसूरित्युदाहरणमिति। अत्र हि सन् षभूतो न भवतीत्यभ्यासात् प्राप्तिरस्ति। स्यसनोरिति किम् ? सुषाव॥
Siddhanta Kaumudi¶
स्ये सनि च परे सुञः षो न स्यात् । विसोष्यति ।{$ {!1248 षिञ्!} बन्धने$} । सिनोति । विसिनोति । सिषाय । सिष्ये ।{$ {!1249 शिञ्!} निशाने$} । तालव्यादिः । शेता ।{$ {!1250 डुमिञ्!} प्रक्षेपणे$} । मीनातिमिनोति - (SK2508) इत्यात्वम् । ममौ । ममिथ । ममाथ । मिम्ये । माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ।{$ {!1251 चिञ्!} चयने$} । प्रणिचिनोति ॥
Balamanorama¶
सुनोतेः स्यसनोः - सोढः । ‘सोढ’ इति सहेरोवत्वसंपन्नस्य षष्ठन्तम् । ‘सहेः साडः सः’ इत्यतः स इति षष्ठन्तमनुवर्तते ।न रपरे॑त्यतो नेति । ‘मूर्धन्य’ इत्यधिकृतम् । तदाह — सोढ्रूपस्येत्यादिना ।
Tattvabodhini¶
सुनोतेः स्यसनोः - षत्वं नेति ।न रपरे॑ ति सूत्रान्नेत्यनुवर्तत इति भावः ।
Padamanjari¶
प्रकरणे प्राप्तस्य सत्वमात्रस्य प्रतिषेधः । न्यष्टौदिति । ठुतो वृद्धिर्लुकि हलिऽ इति वृद्धिः, अभ्यस्थाद्विषोः पृतना अरातीरित्यप्युदाहरणम् ॥
Nyaas¶
अभ्यसोष्यत् इति। लृङ्। अभिसुसूषति इति। सन्, इको झल् (1.2.9) इति कित्त्वे गुणाभावः। ञज्झनगमां सनि (6.4.16) इती दीर्घः। अत्र इत्यादि। इतिकरणो हेतौ। अत्र यस्मात्? स्तौतिण्योरेव षण्यभ्यासात् (8.3.61) इत्यतो नियमादप्राप्ते स्थादिष्वभ्यासेन (8.3.64) इति नियमादप्राप्तिस्तस्मादभिसुसूरित्युदाहरन्ति। स्यादेतत् -अत्रापि नास्ति यत्? तदप्युदाहरणं नोपपद्यते? इत्यत आह -सन्? षभूतो न भवति इत्यादि। षभूते हि सनि स्तौतिण्योरेव (8.3.61) नियमः, न चात्र सन्? षभूतः। तस्मादसति सन्ग्रहणेऽब्यासस्थान्निमित्तात् आदेशप्रत्यययोः (8.3.59) इति षतद्वं न प्राप्नोति। अभ्यासग्रहणमुपसर्गात्? प्राप्तेरसन्भवात्। अत उपसर्गस्थान्निमित्ताद्धातुसकारस्य षत्वं न प्राप्नोति; अभ्यासेन व्यवहितत्वात्, नास्याससकारस्य स्थादिनियमेन व्यावर्त्तितत्वात्। अभिसुसूः इति। अभिसुसूष इति स्थिति क्विप्, अतो लोपः (6.4.48) , षत्वस्यासिद्धत्वाद्रुत्वविसर्णनीयौ॥
Prakriyasarvasvam¶
स्ये सनि च परे सुनोतेः षो न । अभिसोष्यति । षित्र् चयने । चिनोति, चिनुते । सार्वधातुके सुञ् वत् । कर्मणि चीयते । लुङि अचैषीत् । अचैष्टाम् । अचेष्ट । अचेषाताम् । कर्मण्यूह्यम् । लिटि,