83108: सनोतेरनः

Padacheda: सनोतेः | S | 6 | 1 |

अनः | S | 6 | 1 |

Sutrartha


Vasu English Summary

The स of the verb सन् , when it loses its न् is changed to ष , under the same circumstances.

Vasu English Translation

The स of the verb सन् , when it loses its न् is changed to ष , under the same circumstances. Thus गोषाः (Rig. IX. 2.10), formed by the affix विट (3.2.67), the न् is elided by (6.4.41). So also नृषाः ॥

Why do we say ‘when it loses its न्’? Observe गोसनिं वाचमुदीरयन् (Atharvaveda III.20.10). Here the affix is इन् (3.2.27). See however गोषणिं in Rig. VI.53.10.

Though this ष change would have taken place by (8.3.106) also, the separate enumeration is for the sake of niyama or restriction. Some however read the word गोसनिः in the list of सवनानि words (8.3.110), and they hold that the proper counter-example is सिसानयिषति ॥ So also सिसनीः formed by adding क्विप् to the Derivative root सिसनिस, thus सिसनिस + क्विप् = सिसनिस् (the अ is elided by (6.4.48)) + 0. add सु, सिसनिस् + स् = सिसनिस् + 0 [स् is elided by (6.1.68). Now the final स् (of the Desiderative affix सन्) is liable to be changed either to ष् or to र् (रु). The ष being asiddha, the रु change takes place.] = सिसनिर् = सिसनीः (the lengthening is by (8.2.76)). Here the Desiderative affix सन् is not changed to ष, hence this word is not governed by (8.3.61). This being the object of this sutra, there will be ष change in शिषाणयिषति in the Causative.

Bhashya

सनोतेरनः ॥ सनोतेरन इति च॥ (सनोतेरन इति च)॥ किम्?॥ वचनमनर्थकमित्येव॥ किं कारणम्?॥ (पूर्वपदादिति सिद्धत्वात्)॥ पूर्वपदादित्येव सिद्धम्॥ नियमार्थं तर्हीदं वक्तव्यम्-सनोतेरनकारस्यैव यथा स्यादिह मा भूत्-गोसनिमिति॥ सनोतेरन इति नियमार्थमिति चेत्सवनादिकृतत्वात्सिद्धम्॥ सनोतेरन इति नियमार्थमिति चेत्सवनादि (कृतत्वात्सिद्धम्। सवनादि)षु पाठः करिष्यते॥ सन्नर्थं तु॥ सन्नर्थं त्विदं वक्तव्यम्। सिसनिषति॥ एतदपि नास्ति प्रयोजनम्। स्तौतिण्योरेव षण्यभ्यासादित्येतस्मान्नियमान्न भविष्यति॥ ण्यर्थं तर्हीदं वक्तव्यं-सिसानयिषतीति(1)॥ कथं पुनरण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यो विज्ञातुम्?॥ सार्मथ्यात्। अण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यन्तो(2) विज्ञास्यते॥ अथ वाऽयमस्त्यण्यन्तः सिसनिषतेरप्रत्ययः-सिसनीः॥ (सनोतेरनः)।

Kashika

सनोतेरनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति। गो॒षाः (ऋ० ९.२.१०)। नृ॒षाः (ऋ० ९.२.१०)। अन इति किम्? गो॒सनिं॒ वाच॑मुदेय॒म् (शौ०सं० ३.२०.१०)। पूर्वपदादित्येव सिद्धे नियमार्थमिदम्। अत्र केचित् सवनादिपाठाद् गोसनिर्नियमस्य फलं न भवतीति सिसानयिषतीति प्रत्युदाहरन्ति। सिसनिषतेरप्रत्ययः, सिसनीरित्यपरे॥

Siddhanta Kaumudi

गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॑सि) । अनः किम् । गोसनिः ॥

Padamanjari

विस्रंसिकाया इति । रोगाख्यायाम्ऽ इति ण्वुल् । विस्रब्धमिति ।’सृम्भु विश्वासे’ क्तः,’यस्य विभाषा’ इतीट्प्रतिषेधः, ठनिदिताम्ऽ इति नलोपः । विसृप इति ।’सृपितृदोः कसुन्’ । सवनेसवन इत्यादौ वीप्सायां द्विर्वचनम् । किंस इत्यत्र ठयोगवाहानामट्सुणत्वं शर्षु जश्भावषत्वेऽ इति वचनाच्छर्व्यवाये इति षत्वप्रसङ्गः । यथा तु शषूपदेशो न कर्तव्यस्तथा’हयवरट्’ इत्यत्रोक्तम् । अश्वसनिग्रहणमनर्थकमनिणन्तत्वात् ? अत आह - अश्वसनिग्रहणमिति । ज्ञापनस्य प्रयोजनमाह - जलाषाहमिति ॥

Nyaas

अनः इति। अविद्यमानो नकारोऽस्येत्यर्थः। गोषाः इति। षणु धाने (धातुपाठः-1464)। गां सनोतीति जनसनखनक्रमगमो विट् (3.2.67) , विङवनोरनुनासिकस्यात् (6.4.41) इत्यात्त्वम्। गोसनिम् इति। स्तम्बशकृतोरिन् (3.2.24) इत्यत इन्नित्यनुवर्तमाने छन्दसि वनसनरक्षिमयाम् (3.2.27) इतीन्प्रत्यवः। ननु पूर्वपदात् (8.3.106) इत्येव गोषा इत्यादौ षत्वं सिद्धम्। तत्किकर्थमिदमित्याह -पूर्वपदादित्येव इति। अविद्यमाननकारस्यैव भवति; नान्यस्येत्येव नियमो यथा स्यादित्येवमर्थमेतत्। यद्येवम्, गोसनिमिति न नियमस्य फलम्, सवनादित्वात्? इत्याह -अत्र इत्यादि। इतिकरणो हेतौ। यस्मात्सवनादिषु पाठाद्गोसनिशब्दो नियमस्य फलं न भवति, तस्मात्? केचित्? सिसानयिवतीति प्रत्युदाहरन्ति। सिसनीरित्यपरे इति। सनोतेण्र्यन्तस्य सनि रूपम् -सिसानयिषतीति। अत्र यदि नियमार्थमेतन्नोच्येत, तदा स्तौतिण्योरेव (8.3.61) षत्वं स्यात्। अस्मस्तु सति न भवतीति ण्यन्तस्मोदाहरणम्। अम्यन्तस्य स्तीतिण्योरेव (8.3.61) इत्यत एव नियमात्? षत्वनिवृत्तेः सिद्धत्वात्। सिसनोरोति -सनोतेः सन्, इट्, द्विर्वचनम्, सनः सकारस्य णत्वम्; सिसनिष इति स्थिते क्किप्, अतो लोपः (6.4.48) , षत्वस्यासिद्धत्वाद्रूत्वम्, र्वोरुपदाया दीर्घ हकः (8.2.76) इति दीर्घः। सिसनीरिति स्थितेऽत्र सनः वत्वभूतस्याभावात्? स्तौतिण्योरेव (8.3.61) इत्येषे नियमो न प्रवर्तते। अत्र यदीदं नोच्येत, आदेशप्रत्यययोः (8.3.59) इति मूर्धन्यः स्यात्; अस्मस्तु सत#इ न भवति॥

Prakriyasarvasvam

नकाररहितस्यैव सनोतेरुक्तषो भवेत् । अग्निः सनोतीत्यादौ न षोषा इन्दो नृषा भवेत् ॥ गोषणि पितुषणिरित्यादि दृश्यते ।