83107: सुञः

Padacheda: सुञः | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas), ष् is substituted for the स् of the particle सु when preceded by a word having in it the change-effecting letter इ etc.

Vasu English Translation

In the छन्दस् (Vedas), ष् is substituted for the स् of the particle सु when preceded by a word having in it the change-effecting letter इ etc. Thus अभी षु णः सखीनाम् (Rig. IV. 31.3) ऊर्द्धं ऊ षु णः (Rig. I.36.13). The lengthening takes place by (6.3.134), and न changed to ण by (8.4.27).

Kashika

सुञिति निपात इह गृह्यते, तस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य मूर्धन्यादेशो भवति छन्दसि विषये। अ॒भी षु णः॒ सखी॑नाम् (ऋ० ४.३१.३)। ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ (ऋ० १.३६.१३)॥

Siddhanta Kaumudi

पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । ऊर्ध्व ऊषुणः (ऊ॒र्ध्व ऊषुणः॑) । अभीषुणः (अ॒भीषुणः॑) ॥

Nyaas

पूर्वपदात् (8.3.106) इत्येवं सिद्धे प्रपञ्चार्थमिदम्। सुञ [`सुञः -प्रांउ।पाठः] इति निपातो गृह्रते` [निपात इह गृह्रते -काशिका] इति। अथ षुञ्? अभिषवे (धातुपाठः-1247) इति धातुः कस्मान्न गृह्रते? एवं मन्यते -यत्रास्य धातोग्र्रहणमिच्छति तत्र क्तिपा निर्द्देशं करोति। शैलीयमाचार्यस्य, यथा -उपसर्गात्? सुनोति (8.3.65) इत्यत्र सुनोतेः स्यसनोः (8.3.117) इत्यत्र च। तदिहापि यदि धातोग्र्रहणमभीष्टं स्यात्, श्तिपा निर्द्देशं कुर्यात्; नैव कृतम्, अतो निपातस्येवं ग्रहणमवसीयते। अभीषुणः इति। षष्ठीबहुवचनस्यास्मच्छब्दस्य बहुवचनस्य वस्नसौ (8.1.21) इति नस्, इकः सुञि (6.3.134) इति दीर्घः। नश्च धातुस्थोरुषुभ्यः (8.4.27) इति णत्वम्॥

Prakriyasarvasvam

सुञिति निपातस्य पूर्वपदादिणः षः स्यात् । अभीषुणः । ‘इकः सुञि’ (६-३-१३४) इति दीर्घः । सुञिति निपातस्य पूर्वपदादिणः षः स्यात् । अभीषुणः । ‘इकः सुञि’ (६-३-१३४) इति दीर्घः । <karika>छान्दसे खण्ड उच्यन्ते स्वराः सर्वेऽपि तत्र तु । संज्ञायाः पूर्वमुक्तत्वात् परिभाषादि कथ्यते ॥ ८८६ ॥</karika>